Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.030
वैशम्पायन उवाच॥
आज्ञापयामास ततः सेनां भरतसत्तमः। अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः ॥१५-३०-१॥
योगो योग इति प्रीत्या ततः शब्दो महानभूत। क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति ॥१५-३०-२॥
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः। रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः ॥१५-३०-३॥
गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप। पदातिनस्तथैवान्ये नखरप्रासयोधिनः ॥१५-३०-४॥
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा। अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया ॥१५-३०-५॥
स चापि राजवचनादाचार्यो गौतमः कृपः। सेनामादाय सेनानी प्रययावाश्रमं प्रति ॥१५-३०-६॥
ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः। संस्तूयमानो बहुभिः सूतमागधबन्दिभिः ॥१५-३०-७॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। रथानीकेन महता निर्ययौ कुरुनन्दनः ॥१५-३०-८॥
गजैश्चाचलसङ्काशैर्भीमकर्मा वृकोदरः। सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः ॥१५-३०-९॥
माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ। जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ ॥१५-३०-१०॥
अर्जुनश्च महातेजा रथेनादित्यवर्चसा। वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् ॥१५-३०-११॥
द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः। स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु ॥१५-३०-१२॥
समृद्धनरनागाश्वं वेणुवीणानिनादितम्। शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ॥१५-३०-१३॥
नदीतीरेषु रम्येषु सरत्सु च विशां पते। वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः ॥१५-३०-१४॥
युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः। युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः ॥१५-३०-१५॥
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्। क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् ॥१५-३०-१६॥
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः। शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥१५-३०-१७॥
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा। विवेश सुमहानादैरापूर्य भरतर्षभ ॥१५-३०-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.