Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.031
वैशम्पायन उवाच॥
ततस्ते पाण्डवा दूरादवतीर्य पदातयः। अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥१५-३१-१॥
स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः। स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥१५-३१-२॥
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः। शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥१५-३१-३॥
ततस्तत्र समाजग्मुस्तापसा विविधव्रताः। पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ॥१५-३१-४॥
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत्। पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥१५-३१-५॥
तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम्। पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ॥१५-३१-६॥
तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा। ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ॥१५-३१-७॥
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः। सहदेवस्तु वेगेन प्राधावद्येन सा पृथा ॥१५-३१-८॥
सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन्। सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् ॥१५-३१-९॥
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम्। गान्धार्याः कथयामास सहदेवमुपस्थितम् ॥१५-३१-१०॥
अनन्तरं च राजानं भीमसेनमथार्जुनम्। नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥१५-३१-११॥
सा ह्यग्रेऽगच्छत तयोर्दम्पत्योर्हतपुत्रयोः। कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ॥१५-३१-१२॥
तान्राजा स्वरयोगेन स्पर्शेन च महामनाः। प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥१५-३१-१३॥
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्। उपतस्थुर्महात्मानो मातरं च यथाविधि ॥१५-३१-१४॥
सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा। पाण्डवा लब्धसञ्ज्ञास्ते मात्रा चाश्वासिताः पुनः ॥१५-३१-१५॥
ततो नार्यो नृसिंहानां स च योधजनस्तदा। पौरजानपदाश्चैव ददृशुस्तं नराधिपम् ॥१५-३१-१६॥
निवेदयामास तदा जनं तं नामगोत्रतः। युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् ॥१५-३१-१७॥
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः। राजात्मानं गृहगतं पुरेव गजसाह्वये ॥१५-३१-१८॥
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः। गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥१५-३१-१९॥
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम्। दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ॥१५-३१-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.