Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.032
पाण्डववर्णनम्
वैशम्पायन उवाच॥
स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ। राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे ॥१५-३२-१॥
तापसैश्च महाभागैर्नानादेशसमागतैः। द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥१५-३२-२॥
तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः। भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ॥१५-३२-३॥
तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः। सञ्जयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः ॥१५-३२-४॥
य एष जाम्बूनदशुद्धगौर; तनुर्महासिंह इव प्रवृद्धः। प्रचण्डघोणः पृथुदीर्घनेत्र; स्ताम्रायतास्यः कुरुराज एषः ॥१५-३२-५॥
अयं पुनर्मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः। पृथ्वायतांसः पृथुदीर्घबाहु; र्वृकोदरः पश्यत पश्यतैनम् ॥१५-३२-६॥
यस्त्वेष पार्श्वेऽस्य महाधनुष्मा; ञ्श्यामो युवा वारणयूथपाभः। सिंहोन्नतांसो गजखेलगामी; पद्मायताक्षोऽर्जुन एष वीरः ॥१५-३२-७॥
कुन्तीसमीपे पुरुषोत्तमौ तु; यमाविमौ विष्णुमहेन्द्रकल्पौ। मनुष्यलोके सकले समोऽस्ति; ययोर्न रूपे न बले न शीले ॥१५-३२-८॥
इयं पुनः पद्मदलायताक्षी; मध्यं वयः किञ्चिदिव स्पृशन्ती। नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥१५-३२-९॥
अस्यास्तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी। मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य ॥१५-३२-१०॥
इयं स्वसा राजचमूपतेस्तु; प्रवृद्धनीलोत्पलदामवर्णा। पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहोऽग्र्यः ॥१५-३२-११॥
इयं च राज्ञो मगधाधिपस्य; सुता जरासन्ध इति श्रुतस्य। यवीयसो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी ॥१५-३२-१२॥
इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च। भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेयं कमलायताक्षी ॥१५-३२-१३॥
इयं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा। भार्याभिमन्योर्निहतो रणे यो; द्रोणादिभिस्तैर्विरथो रथस्थैः ॥१५-३२-१४॥
एतास्तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीया नरराजपत्न्यः। राज्ञोऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः ॥१५-३२-१५॥
एता यथामुख्यमुदाहृता वो; ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः। सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ॥१५-३२-१६॥
एवं स राजा कुरुवृद्धवर्यः; समागतस्तैर्नरदेवपुत्रैः। पप्रच्छ सर्वान्कुशलं तदानीं; गतेषु सर्वेष्वथ तापसेषु ॥१५-३२-१७॥
योधेषु चाप्याश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम्। स्त्रीवृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत् ॥१५-३२-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.