15.033
विदुरसायुज्यम्
धृतराष्ट्र उवाच॥
युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि। सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥१५-३३-१॥
ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः। सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो ॥१५-३३-२॥
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्। कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते ॥१५-३३-३॥
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः। ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥१५-३३-४॥
कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ। शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा ॥१५-३३-५॥
कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः। अतिथींश्चान्नपानेन कच्चिदर्चसि भारत ॥१५-३३-६॥
कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव। क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः ॥१५-३३-७॥
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते। जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥१५-३३-८॥
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्। यथोचितं महाराज यशसा नावसीदति ॥१५-३३-९॥
वैशम्पायन उवाच॥
इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत। कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि ॥१५-३३-१०॥
कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते। अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ॥ अप्यस्याः सफलो राजन्वनवासो भविष्यति ॥१५-३३-११॥
इयं च माता ज्येष्ठा मे वीतवाताध्वकर्शिता। घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥१५-३३-१२॥
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान्। नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥१५-३३-१३॥
क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम्। सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थितः ॥१५-३३-१४॥
इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम्। कुशली विदुरः पुत्र तपो घोरं समास्थितः ॥१५-३३-१५॥
वायुभक्षो निराहारः कृशो धमनिसन्ततः। कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥१५-३३-१६॥
इत्येवं वदतस्तस्य जटी वीटामुखः कृशः। दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥१५-३३-१७॥
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः। निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति ॥१५-३३-१८॥
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः। प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ॥१५-३३-१९॥
भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः। इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥१५-३३-२०॥
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः। विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे ॥१५-३३-२१॥
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्। अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥१५-३३-२२॥
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः। विदुरस्याश्रवे राजा स च प्रत्याह सञ्ज्ञया ॥१५-३३-२३॥
ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत। संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥१५-३३-२४॥
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह। प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥१५-३३-२५॥
स योगबलमास्थाय विवेश नृपतेस्तनुम्। विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥१५-३३-२६॥
विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम्। वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥१५-३३-२७॥
बलवन्तं तथात्मानं मेने बहुगुणं तदा। धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥१५-३३-२८॥
पौराणमात्मनः सर्वं विद्यावान्स विशां पते। योगधर्मं महातेजा व्यासेन कथितं यथा ॥१५-३३-२९॥
धर्मराजस्तु तत्रैनं सञ्चस्कारयिषुस्तदा। दग्धुकामोऽभवद्विद्वानथ वै वागभाषत ॥१५-३३-३०॥
भो भो राजन्न दग्धव्यमेतद्विदुरसञ्ज्ञकम्। कलेवरमिहैतत्ते धर्म एष सनातनः ॥१५-३३-३१॥
लोकाः सन्तानका नाम भविष्यन्त्यस्य पार्थिव। यतिधर्ममवाप्तोऽसौ नैव शोच्यः परन्तप ॥१५-३३-३२॥
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः। राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥१५-३३-३३॥
ततः स राजा द्युतिमान्स च सर्वो जनस्तदा। भीमसेनादयश्चैव परं विस्मयमागताः ॥१५-३३-३४॥
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत्। आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥१५-३३-३५॥
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः। इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् ॥ फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ॥१५-३३-३६॥
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः। तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः ॥१५-३३-३७॥