15.035
व्यासवाक्यम्
वैशम्पायन उवाच॥
तथा समुपविष्टेषु पाण्डवेषु महात्मसु। व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् ॥१५-३५-१॥
धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः। कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥१५-३५-२॥
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः। कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ ॥१५-३५-३॥
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्। कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ॥१५-३५-४॥
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी। आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ॥१५-३५-५॥
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहङ्कृता। या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता ॥१५-३५-६॥
कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः। भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः ॥१५-३५-७॥
कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः। कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप ॥१५-३५-८॥
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत। निर्वैरता महाराज सत्यमद्रोह एव च ॥१५-३५-९॥
कच्चित्ते नानुतापोऽस्ति वनवासेन भारत। स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो ॥१५-३५-१०॥
विदितं चापि मे राजन्विदुरस्य महात्मनः। गमनं विधिना येन धर्मस्य सुमहात्मनः ॥१५-३५-११॥
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः। महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥१५-३५-१२॥
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः। न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः ॥१५-३५-१३॥
तपोबलव्ययं कृत्वा सुमहच्चिरसम्भृतम्। माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥१५-३५-१४॥
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च। वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ॥१५-३५-१५॥
भ्राता तव महाराज देवदेवः सनातनः। धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः ॥१५-३५-१६॥
सत्येन संवर्धयति दमेन नियमेन च। अहिंसया च दानेन तपसा च सनातनः ॥१५-३५-१७॥
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः। धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥१५-३५-१८॥
यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा। यथाकाशं तथा धर्म इह चामुत्र च स्थितः ॥१५-३५-१९॥
सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम्। दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः ॥१५-३५-२०॥
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः। स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः ॥१५-३५-२१॥
प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः। दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः ॥१५-३५-२२॥
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ। संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक ॥१५-३५-२३॥
न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः। आश्चर्यभूतं तपसः फलं संदर्शयामि वः ॥१५-३५-२४॥
किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम्। द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा ॥१५-३५-२५॥