15.034
व्यासागमनम्
वैशम्पायन उवाच॥
एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम्। शिवा नक्षत्रसम्पन्ना सा व्यतीयाय भारत ॥१५-३४-१॥
तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः। विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः ॥१५-३४-२॥
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा। उत्सृज्य सुमहार्हाणि शयनानि नराधिप ॥१५-३४-३॥
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः। तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥१५-३४-४॥
व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः। भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् ॥१५-३४-५॥
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः। यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥१५-३४-६॥
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः। कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥१५-३४-७॥
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि। ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ॥१५-३४-८॥
मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः। अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥१५-३४-९॥
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः। कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ॥१५-३४-१०॥
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम्। फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ॥१५-३४-११॥
ततः स राजा प्रददौ तापसार्थमुपाहृतान्। कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥१५-३४-१२॥
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः। कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ॥१५-३४-१३॥
भाजनानि च लौहानि पात्रीश्च विविधा नृप। यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥१५-३४-१४॥
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्। वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥१५-३४-१५॥
कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम्। ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥१५-३४-१६॥
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम्। कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ॥१५-३४-१७॥
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः। निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ॥१५-३४-१८॥
भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम्। अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया ॥१५-३४-१९॥
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः। बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥१५-३४-२०॥
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः। शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥१५-३४-२१॥
व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः। वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ॥१५-३४-२२॥
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान्। भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ॥१५-३४-२३॥
समागतस्ततो व्यासः शतयूपादिभिर्वृतः। धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥१५-३४-२४॥
नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम्। प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥१५-३४-२५॥
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः। द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥१५-३४-२६॥