15.036
पुत्रदर्शनपर्व
जनमेजय उवाच॥
वनवासं गते विप्र धृतराष्ट्रे महीपतौ। सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥१५-३६-१॥
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते। वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥१५-३६-२॥
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह। व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥१५-३६-३॥
वनवासे च कौरव्यः कियन्तं कालमच्युतः। युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ॥१५-३६-४॥
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो। सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ ॥१५-३६-५॥
वैशम्पायन उवाच॥
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः। विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ॥१५-३६-६॥
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने। अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ॥१५-३६-७॥
तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ। व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ॥१५-३६-८॥
नारदः पर्वतश्चैव देवलश्च महातपाः। विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥१५-३६-९॥
तेषामपि यथान्यायं पूजां चक्रे महामनाः। धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥१५-३६-१०॥
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्। आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ॥१५-३६-११॥
तेषु तत्रोपविष्टेषु स तु राजा महामतिः। पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ॥१५-३६-१२॥
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा। स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ॥१५-३६-१३॥
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप। ऋषीणां च पुराणानां देवासुरविमिश्रिताः ॥१५-३६-१४॥
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्। प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः ॥ प्रीयमाणो महातेजाः सर्ववेदविदां वरः ॥१५-३६-१५॥
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम्। दह्यमानस्य शोकेन तव पुत्रकृतेन वै ॥१५-३६-१६॥
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव। कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ॥१५-३६-१७॥
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम्। सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥१५-३६-१८॥
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप। संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ॥१५-३६-१९॥
इमे च देवगन्धर्वाः सर्वे चैव महर्षयः। पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ॥१५-३६-२०॥
तदुच्यतां महाबाहो कं कामं प्रदिशामि ते। प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥१५-३६-२१॥
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना। मुहूर्तमिव सञ्चिन्त्य वचनायोपचक्रमे ॥१५-३६-२२॥
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे। यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥१५-३६-२३॥
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः। भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ॥१५-३६-२४॥
दर्शनादेव भवतां पूतोऽहं नात्र संशयः। विद्यते न भयं चापि परलोकान्ममानघाः ॥१५-३६-२५॥
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्। दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥१५-३६-२६॥
अपापाः पाण्डवा येन निकृताः पापबुद्धिना। घातिता पृथिवी चेयं सहसा सनरद्विपा ॥१५-३६-२७॥
राजानश्च महात्मानो नानाजनपदेश्वराः। आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥१५-३६-२८॥
ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान्। परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥१५-३६-२९॥
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे। तथैव पुत्रपौत्राणां मम ये निहता युधि ॥१५-३६-३०॥
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम्। भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥१५-३६-३१॥
मम पुत्रेण मूढेन पापेन सुहृदद्विषा। क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥१५-३६-३२॥
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम्। न शान्तिमधिगच्छामि दुःखशोकसमाहतः ॥ इति मे चिन्तयानस्य पितः शर्म न विद्यते ॥१५-३६-३३॥