Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.037
वैशम्पायन उवाच॥
तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम्। पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥१५-३७-१॥
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च। तासां च वरनारीणां वधूनां कौरवस्य ह ॥१५-३७-२॥
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्। श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ॥१५-३७-३॥
षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव। अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो ॥१५-३७-४॥
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः। न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ॥१५-३७-५॥
लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात्। किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥१५-३७-६॥
इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्। शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा ॥१५-३७-७॥
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी। सौभद्रवधसन्तप्ता भृशं शोचति भामिनी ॥१५-३७-८॥
इयं च भूरिश्रवसो भार्या परमदुःखिता। भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो ॥१५-३७-९॥
यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः। निहतः सोमदत्तश्च पित्रा सह महारणे ॥१५-३७-१०॥
श्रीमच्चास्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः। पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥१५-३७-११॥
तस्य भार्याशतमिदं पुत्रशोकसमाहतम्। पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च ॥ तेनारम्भेण महता मामुपास्ते महामुने ॥१५-३७-१२॥
ये च शूरा महात्मानः श्वशुरा मे महारथाः। सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥१५-३७-१३॥
तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः। कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव ॥१५-३७-१४॥
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना। प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसम्भवम् ॥१५-३७-१५॥
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः। अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ॥१५-३७-१६॥
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम्। तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते ॥१५-३७-१७॥
ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा। उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् ॥१५-३७-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.