Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.038
कर्णजन्मकथनम्
कुन्त्युवाच॥
भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम्। स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ॥१५-३८-१॥
तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः। भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् ॥१५-३८-२॥
शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा। कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन ॥१५-३८-३॥
स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम्। अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः ॥१५-३८-४॥
ततः शापभयाद्विप्रमवोचं पुनरेव तम्। एवमस्त्विति च प्राह पुनरेव स मां द्विजः ॥१५-३८-५॥
धर्मस्य जननी भद्रे भवित्री त्वं वरानने। वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि ॥१५-३८-६॥
इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम्। न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति ॥१५-३८-७॥
अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती। संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् ॥ स्थिताहं बालभावेन तत्र दोषमबुध्यती ॥१५-३८-८॥
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत्। द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च ॥ तताप लोकानेकेन द्वितीयेनागमच्च माम् ॥१५-३८-९॥
स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह। गम्यतामिति तं चाहं प्रणम्य शिरसावदम् ॥१५-३८-१०॥
स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम्। धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ॥१५-३८-११॥
तमहं रक्षती विप्रं शापादनपराधिनम्। पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् ॥१५-३८-१२॥
ततो मां तेजसाविश्य मोहयित्वा च भानुमान्। उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् ॥१५-३८-१३॥
ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी। गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ॥१५-३८-१४॥
नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु। कन्याहमभवं विप्र यथा प्राह स मामृषिः ॥१५-३८-१५॥
स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः। तन्मां दहति विप्रर्षे यथा सुविदितं तव ॥१५-३८-१६॥
यदि पापमपापं वा तदेतद्विवृतं मया। तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि ॥१५-३८-१७॥
यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ। तं चायं लभतां काममद्यैव मुनिसत्तम ॥१५-३८-१८॥
इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः। साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् ॥१५-३८-१९॥
अपराधश्च ते नास्ति कन्याभावं गता ह्यसि। देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै ॥१५-३८-२०॥
सन्ति देवनिकायाश्च सङ्कल्पाज्जनयन्ति ये। वाचा दृष्ट्या तथा स्पर्शात्सङ्घर्षेणेति पञ्चधा ॥१५-३८-२१॥
मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते। इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः ॥१५-३८-२२॥
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि। सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् ॥१५-३८-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.