15.039
व्यास उवाच॥
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा। वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव ॥१५-३९-१॥
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी। द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ॥१५-३९-२॥
पूर्वमेवैष हृदये व्यवसायोऽभवन्मम। यथास्मि चोदितो राज्ञा भवत्या पृथयैव च ॥१५-३९-३॥
न ते शोच्या महात्मानः सर्व एव नरर्षभाः। क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥१५-३९-४॥
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते। अवतेरुस्ततः सर्वे देवभागैर्महीतलम् ॥१५-३९-५॥
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः। तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च ॥१५-३९-६॥
देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः। त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ॥१५-३९-७॥
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः। स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ॥१५-३९-८॥
पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम्। धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः ॥१५-३९-९॥
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा। दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने ॥१५-३९-१०॥
मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम्। विद्धि च त्वं नरमृषिमिमं पार्थं धनञ्जयम् ॥ नारायणं हृषीकेशमश्विनौ यमजावुभौ ॥१५-३९-११॥
द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम्। लोकांश्च तापयानं वै विद्धि कर्णं च शोभने ॥ यश्च वैरार्थमुद्भूतः सङ्घर्षजननस्तथा ॥१५-३९-१२॥
यश्च पाण्डवदायादो हतः षड्भिर्महारथैः। स सोम इह सौभद्रो योगादेवाभवद्द्विधा ॥१५-३९-१३॥
द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात्। अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ॥१५-३९-१४॥
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्। भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् ॥१५-३९-१५॥
एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि। ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ॥१५-३९-१६॥
यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम्। तदद्य व्यपनेष्यामि परलोककृताद्भयात् ॥१५-३९-१७॥
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति। तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे ॥१५-३९-१८॥
वैशम्पायन उवाच॥
इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा। महता सिंहनादेन गङ्गामभिमुखो ययौ ॥१५-३९-१९॥
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः। सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ॥१५-३९-२०॥
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः। निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥१५-३९-२१॥
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः। निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥१५-३९-२२॥
जगाम तदहश्चापि तेषां वर्षशतं यथा। निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ॥१५-३९-२३॥
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः। ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥१५-३९-२४॥