15.040
दुर्योधनादिदर्शनम्
वैशम्पायन उवाच॥
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः। व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥१५-४०-१॥
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा। शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥१५-४०-२॥
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्। पौरजानपदश्चापि जनः सर्वो यथावयः ॥१५-४०-३॥
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम्। अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः ॥१५-४०-४॥
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः। राजानश्च महाभागा नानादेशनिवासिनः ॥१५-४०-५॥
ततः सुतुमुलः शब्दो जलान्तर्जनमेजय। प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः ॥१५-४०-६॥
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः। ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥१५-४०-७॥
विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ। द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥१५-४०-८॥
कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः। दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः ॥१५-४०-९॥
जारासन्धिर्भगदत्तो जलसन्धश्च पार्थिवः। भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥१५-४०-१०॥
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः। शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ॥१५-४०-११॥
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः। बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥१५-४०-१२॥
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः। सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥१५-४०-१३॥
यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्। तेन तेन व्यदृश्यन्त समुपेता नराधिपाः ॥१५-४०-१४॥
दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः। निर्वैरा निरहङ्कारा विगतक्रोधमन्यवः ॥१५-४०-१५॥
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः। दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः ॥१५-४०-१६॥
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप। मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥१५-४०-१७॥
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी। ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः ॥१५-४०-१८॥
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम्। विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥१५-४०-१९॥
तदुत्सवमदोदग्रं हृष्टनारीनराकुलम्। ददृशे बलमायान्तं चित्रं पटगतं यथा ॥१५-४०-२०॥
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा। मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥१५-४०-२१॥