Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.044
युधिष्ठिरनिवर्तनम्
जनमेजय उवाच॥
दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः। धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ॥१५-४४-१॥
वैशम्पायन उवाच॥
तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः। वीतशोकः स राजर्षिः पुनराश्रममागमत् ॥१५-४४-२॥
इतरस्तु जनः सर्वस्ते चैव परमर्षयः। प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया ॥१५-४४-३॥
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः। अनुजग्मुर्महात्मानं सदारं तं महीपतिम् ॥१५-४४-४॥
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः। मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत ॥१५-४४-५॥
धृतराष्ट्र महाबाहो शृणु कौरवनन्दन। श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ॥१५-४४-६॥
ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम्। धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥१५-४४-७॥
मा स्म शोके मनः कार्षीर्दिष्टेन व्यथते बुधः। श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ॥१५-४४-८॥
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम्। यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः ॥१५-४४-९॥
युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते। सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः ॥१५-४४-१०॥
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम्। मासः समधिको ह्येषामतीतो वसतां वने ॥१५-४४-११॥
एतद्धि नित्यं यत्नेन पदं रक्ष्यं परन्तप। बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप ॥१५-४४-१२॥
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना। युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ॥१५-४४-१३॥
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह। त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ॥१५-४४-१४॥
रमे चाहं त्वया पुत्र पुरेव गजसाह्वये। नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना ॥१५-४४-१५॥
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि। न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम् ॥१५-४४-१६॥
भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीयते। तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ॥१५-४४-१७॥
मातरौ ते तथैवेमे शीर्णपर्णकृताशने। मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः ॥१५-४४-१८॥
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः। व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ॥१५-४४-१९॥
प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ। उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि ॥१५-४४-२०॥
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम्। श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् ॥१५-४४-२१॥
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ। संदेष्टव्यं न पश्यामि कृतमेतावता विभो ॥१५-४४-२२॥
इत्युक्तवचनं तात नृपो राजानमब्रवीत्। न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥१५-४४-२३॥
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा। भवन्तमहमन्विष्ये मातरौ च यतव्रते ॥१५-४४-२४॥
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे। त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ॥१५-४४-२५॥
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम्। राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः ॥१५-४४-२६॥
इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह। स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः ॥१५-४४-२७॥
विसर्जयति मां राजा गान्धारी च यशस्विनी। भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः ॥१५-४४-२८॥
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि। तपसो हि परं नास्ति तपसा विन्दते महत् ॥१५-४४-२९॥
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा। तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ॥१५-४४-३०॥
शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे। बान्धवा नः परिक्षीणा बलं नो न यथा पुरा ॥१५-४४-३१॥
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः। न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे ॥१५-४४-३२॥
सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे। अवशेषास्तु निहता द्रोणपुत्रेण वै निशि ॥१५-४४-३३॥
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः। केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् ॥ यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् ॥१५-४४-३४॥
शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव। भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः ॥१५-४४-३५॥
एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः। युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ॥१५-४४-३६॥
नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ। प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ॥१५-४४-३७॥
इहैव शोषयिष्यामि तपसाहं कलेवरम्। पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः ॥१५-४४-३८॥
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम्। गम्यतां पुत्र मैव त्वं वोचः कुरु वचो मम ॥१५-४४-३९॥
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः। उपरोधो भवेदेवमस्माकं तपसः कृते ॥१५-४४-४०॥
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात्। तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो ॥१५-४४-४१॥
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः। सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ॥१५-४४-४२॥
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः। अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ॥१५-४४-४३॥
राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः। अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः ॥१५-४४-४४॥
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना। अनुजज्ञे जयाशीर्भिरभिनन्द्य युधिष्ठिरम् ॥१५-४४-४५॥
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः। स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ॥१५-४४-४६॥
अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ। अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ॥१५-४४-४७॥
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः। जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ॥ चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ॥१५-४४-४८॥
पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम्। तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः ॥१५-४४-४९॥
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः। श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः ॥ संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह ॥१५-४४-५०॥
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति। उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि ॥१५-४४-५१॥
ततो युधिष्ठिरो राजा सदारः सहसैनिकः। नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥१५-४४-५२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.