Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.045
नारदागमनपर्व
धृतराष्ट्रादीनां दावाग्नौ दाहः
वैशम्पायन उवाच॥
द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया। देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥१५-४५-१॥
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः। आसीनं परिविश्वस्तं प्रोवाच वदतां वरः ॥१५-४५-२॥
चिरस्य खलु पश्यामि भगवन्तमुपस्थितम्। कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ॥१५-४५-३॥
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते। तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः ॥१५-४५-४॥
नारद उवाच॥
चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात्। परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥१५-४५-५॥
युधिष्ठिर उवाच॥
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः। धृतराष्ट्रं महात्मानमास्थितं परमं तपः ॥१५-४५-६॥
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः। गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः ॥१५-४५-७॥
कथं च वर्तते चाद्य पिता मम स पार्थिवः। श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥१५-४५-८॥
नारद उवाच॥
स्थिरीभूय महाराज शृणु सर्वं यथातथम्। यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥१५-४५-९॥
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन। कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप ॥१५-४५-१०॥
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः। सञ्जयेन च सूतेन साग्निहोत्रः सयाजकः ॥१५-४५-११॥
आतस्थे स तपस्तीव्रं पिता तव तपोधनः। वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥१५-४५-१२॥
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः। त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥१५-४५-१३॥
गान्धारी तु जलाहारा कुन्ती मासोपवासिनी। सञ्जयः षष्ठभक्तेन वर्तयामास भारत ॥१५-४५-१४॥
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो। दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह ॥१५-४५-१५॥
अनिकेतोऽथ राजा स बभूव वनगोचरः। ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः ॥१५-४५-१६॥
सञ्जयो नृपतेर्नेता समेषु विषमेषु च। गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता ॥१५-४५-१७॥
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः। गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् ॥१५-४५-१८॥
अथ वायुः समुद्भूतो दावाग्निरभवन्महान्। ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥१५-४५-१९॥
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः। वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥१५-४५-२०॥
समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे। निराहारतया राजा मन्दप्राणविचेष्टितः ॥ असमर्थोऽपसरणे सुकृशौ मातरौ च ते ॥१५-४५-२१॥
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्। इदमाह ततः सूतं सञ्जयं पृथिवीपते ॥१५-४५-२२॥
गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हिचित्। वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ॥१५-४५-२३॥
तमुवाच किलोद्विग्नः सञ्जयो वदतां वरः। राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना ॥१५-४५-२४॥
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः। यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥१५-४५-२५॥
इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः। नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥१५-४५-२६॥
जलमग्निस्तथा वायुरथ वापि विकर्शनम्। तापसानां प्रशस्यन्ते गच्छ सञ्जय माचिरम् ॥१५-४५-२७॥
इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तदा। प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥१५-४५-२८॥
सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्। उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ॥१५-४५-२९॥
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः। संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ॥१५-४५-३०॥
गान्धारी च महाभागा जननी च पृथा तव। दावाग्निना समायुक्ते स च राजा पिता तव ॥१५-४५-३१॥
सञ्जयस्तु महामात्रस्तस्माद्दावादमुच्यत। गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ॥१५-४५-३२॥
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः। प्रययौ सञ्जयः सूतो हिमवन्तं महीधरम् ॥१५-४५-३३॥
एवं स निधनं प्राप्तः कुरुराजो महामनाः। गान्धारी च पृथा चैव जनन्यौ ते नराधिप ॥१५-४५-३४॥
यदृच्छयानुव्रजता मया राज्ञः कलेवरम्। तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ ॥१५-४५-३५॥
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः। श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते ॥१५-४५-३६॥
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम। यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ॥१५-४५-३७॥
न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः। प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥१५-४५-३८॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम्। निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ॥१५-४५-३९॥
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्। पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥१५-४५-४०॥
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः। ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ॥ भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ॥१५-४५-४१॥
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः। प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ॥१५-४५-४२॥
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्। अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥१५-४५-४३॥
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत। निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ॥१५-४५-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.