16.003
उत्पातदर्शनम्
वैशम्पायन उवाच॥
एवं प्रयतमानानां वृष्णीनामन्धकैः सह। कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥१६-३-१॥
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः। गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ॥१६-३-२॥
उत्पेदिरे महावाता दारुणाश्चा दिने दिने। वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥१६-३-३॥
विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा। चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु ॥ नोपशाम्यति शब्दश्च स दिवारात्रमेव हि ॥१६-३-४॥
अनुकुर्वन्नुलूकानां सारसा विरुतं तथा। अजाः शिवानां च रुतमन्वकुर्वत भारत ॥१६-३-५॥
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः। वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥१६-३-६॥
व्यजायन्त खरा गोषु करभाश्वतरीषु च। शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ॥१६-३-७॥
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा। प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥१६-३-८॥
गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ। पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा ॥१६-३-९॥
विभावसुः प्रज्वलितो वामं विपरिवर्तते। नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥१६-३-१०॥
उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः। व्यदृश्यतासकृत्पुम्भिः कबन्धैः परिवारितः ॥१६-३-११॥
महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत। आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप ॥१६-३-१२॥
पुण्याहे वाच्यमाने च जपत्सु च महात्मसु। अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ॥१६-३-१३॥
परस्परं च नक्षत्रं हन्यमानं पुनः पुनः। ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ॥१६-३-१४॥
नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने। समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः ॥१६-३-१५॥
एवं पश्यन्हृषीकेशः सम्प्राप्तं कालपर्ययम्। त्रयोदश्याममावास्यां तां दृष्ट्वा प्राब्रवीदिदम् ॥१६-३-१६॥
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः। तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥१६-३-१७॥
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः। मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥१६-३-१८॥
पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा। यदनुव्याजहारार्ता तदिदं समुपागतम् ॥१६-३-१९॥
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः। पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् ॥१६-३-२०॥
इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत्। आज्ञापयामास तदा तीर्थयात्रामरिंदम ॥१६-३-२१॥
अघोषयन्त पुरुषास्तत्र केशवशासनात्। तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥१६-३-२२॥