Mahabharata - Mausala Parva (महाभारत - मौसलपर्वम्)
16.004
वृष्ण्यन्धकादिविनाशः
वैशम्पायन उवाच॥
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि। स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥१६-४-१॥
अलङ्काराश्च छत्रं च ध्वजाश्च कवचानि च। ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥१६-४-२॥
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम्। दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥१६-४-३॥
युक्तं रथं दिव्यमादित्यवर्णं; हयाहरन्पश्यतो दारुकस्य। ते सागरस्योपरिष्ठादवर्त; न्मनोजवाश्चतुरो वाजिमुख्याः ॥१६-४-४॥
तालः सुपर्णश्च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम्। उच्चैर्जह्रुरप्सरसो दिवानिशं; वाचश्चोचुर्गम्यतां तीर्थयात्रा ॥१६-४-५॥
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः। सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥१६-४-६॥
ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः। बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ॥१६-४-७॥
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः। यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥१६-४-८॥
ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम्। प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥१६-४-९॥
निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित्। जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥१६-४-१०॥
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम्। जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥१६-४-११॥
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः। अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी ॥१६-४-१२॥
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम्। तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥१६-४-१३॥
ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम्। प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ॥१६-४-१४॥
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा। अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥१६-४-१५॥
ततः परिषदो मध्ये युयुधानो मदोत्कटः। अब्रवीत्कृतवर्माणमवहस्यावमन्य च ॥१६-४-१६॥
कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव। न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥१६-४-१७॥
इत्युक्ते युयुधानेन पूजयामास तद्वचः। प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च ॥१६-४-१८॥
ततः परमसङ्क्रुद्धः कृतवर्मा तमब्रवीत्। निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥१६-४-१९॥
भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया। वधेन सुनृशंसेन कथं वीरेण पातितः ॥१६-४-२०॥
इति तस्य वचः श्रुत्वा केशवः परवीरहा। तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् ॥१६-४-२१॥
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत्। तां कथां स्मारयामास सात्यकिर्मधुसूदनम् ॥१६-४-२२॥
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा। सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥१६-४-२३॥
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत्। पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ॥१६-४-२४॥
एष गच्छामि पदवीं सत्येन च तथा शपे। सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ॥१६-४-२५॥
द्रोणपुत्रसहायेन पापेन कृतवर्मणा। समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ॥१६-४-२६॥
इतीदमुक्त्वा खड्गेन केशवस्य समीपतः। अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥१६-४-२७॥
तथान्यानपि निघ्नन्तं युयुधानं समन्ततः। अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा ॥१६-४-२८॥
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः। भोजान्धका महाराज शैनेयं पर्यवारयन् ॥१६-४-२९॥
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः। न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥१६-४-३०॥
ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना। युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥१६-४-३१॥
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः। तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम् ॥१६-४-३२॥
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह। बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ॥१६-४-३३॥
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः। एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ॥१६-४-३४॥
तदभून्मुसलं घोरं वज्रकल्पमयोमयम्। जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् ॥१६-४-३५॥
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा। जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥१६-४-३६॥
यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप। वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥१६-४-३७॥
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत। ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ॥१६-४-३८॥
आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम्। तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥१६-४-३९॥
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत। मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् ॥१६-४-४०॥
पतङ्गा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः। नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥१६-४-४१॥
तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम्। मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥१६-४-४२॥
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः। प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥१६-४-४३॥
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः। स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥१६-४-४४॥
तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः। दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ॥१६-४-४५॥
भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत। रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥१६-४-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.