Mahabharata - Mausala Parva (महाभारत - मौसलपर्वम्)
16.005
रामकृष्णावतारसमाप्तिः
वैशम्पायन उवाच॥
ततो ययुर्दारुकः केशवश्च; बभ्रुश्च रामस्य पदं पतन्तः। अथापश्यन्राममनन्तवीर्यं; वृक्षे स्थितं चिन्तयानं विविक्ते ॥१६-५-१॥
ततः समासाद्य महानुभावः; कृष्णस्तदा दारुकमन्वशासत्। गत्वा कुरूञ्शीघ्रमिमं महान्तं; पार्थाय शंसस्व वधं यदूनाम् ॥१६-५-२॥
ततोऽर्जुनः क्षिप्रमिहोपयातु; श्रुत्वा मृतान्यादवान्ब्रह्मशापात्। इत्येवमुक्तः स ययौ रथेन; कुरूंस्तदा दारुको नष्टचेताः ॥१६-५-३॥
ततो गते दारुके केशवोऽथ; दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम्। स्त्रियो भवान्रक्षतु यातु शीघ्रं; नैता हिंस्युर्दस्यवो वित्तलोभात् ॥१६-५-४॥
स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश्च। तं वै यान्तं संनिधौ केशवस्य; त्वरन्तमेकं सहसैव बभ्रुम् ॥ ब्रह्मानुशप्तमवधीन्महद्वै; कूटोन्मुक्तं मुसलं लुब्धकस्य ॥१६-५-५॥
ततो दृष्ट्वा निहतं बभ्रुमाह; कृष्णो वाक्यं भ्रातरमग्रजं तु। इहैव त्वं मां प्रतीक्षस्व राम; यावत्स्त्रियो ज्ञातिवशाः करोमि ॥१६-५-६॥
ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम्। स्त्रियो भवान्रक्षतु नः समग्रा; धनञ्जयस्यागमनं प्रतीक्षन् ॥ रामो वनान्ते प्रतिपालयन्मा; मास्तेऽद्याहं तेन समागमिष्ये ॥१६-५-७॥
दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुङ्गवानाम्। नाहं विना यदुभिर्यादवानां; पुरीमिमां द्रष्टुमिहाद्य शक्तः ॥१६-५-८॥
तपश्चरिष्यामि निबोध तन्मे; रामेण सार्धं वनमभ्युपेत्य। इतीदमुक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस्त्वरितो जगाम ॥१६-५-९॥
ततो महान्निनदः प्रादुरासी; त्सस्त्रीकुमारस्य पुरस्य तस्य। अथाब्रवीत्केशवः संनिवर्त्य; शब्दं श्रुत्वा योषितां क्रोशतीनाम् ॥१६-५-१०॥
पुरीमिमामेष्यति सव्यसाची; स वो दुःखान्मोचयिता नराग्र्यः। ततो गत्वा केशवस्तं ददर्श; रामं वने स्थितमेकं विविक्ते ॥१६-५-११॥
अथापश्ययोगयुक्तस्य तस्य; नागं मुखान्निःसरन्तं महान्तम्। श्वेतं ययौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः ॥१६-५-१२॥
सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्य। सम्यक्च तं सागरः प्रत्यगृह्णा; न्नागा दिव्याः सरितश्चैव पुण्याः ॥१६-५-१३॥
कर्कोटको वासुकिस्तक्षकश्च; पृथुश्रवा वरुणः कुञ्जरश्च। मिश्री शङ्खः कुमुदः पुण्डरीक; स्तथा नागो धृतराष्ट्रो महात्मा ॥१६-५-१४॥
ह्रादः क्राथः शितिकण्ठोऽग्रतेजा; स्तथा नागौ चक्रमन्दातिषण्डौ। नागश्रेष्ठो दुर्मुखश्चाम्बरीषः; स्वयं राजा वरुणश्चापि राजन् ॥ प्रत्युद्गम्य स्वागतेनाभ्यनन्दं; स्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ॥१६-५-१५॥
ततो गते भ्रातरि वासुदेवो; जानन्सर्वा गतयो दिव्यदृष्टिः। वने शून्ये विचरंश्चिन्तयानो; भूमौ ततः संविवेशाग्र्यतेजाः ॥१६-५-१६॥
सर्वं हि तेन प्राक्तदा वित्तमासी; द्गान्धार्या यद्वाक्यमुक्तः स पूर्वम्। दुर्वाससा पायसोच्छिष्टलिप्ते; यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥१६-५-१७॥
स चिन्तयानोऽन्धकवृष्णिनाशं; कुरुक्षयं चैव महानुभावः। मेने ततः सङ्क्रमणस्य कालं; ततश्चकारेन्द्रियसंनिरोधम् ॥१६-५-१८॥
स संनिरुद्धेन्द्रियवाङ्मनास्तु; शिश्ये महायोगमुपेत्य कृष्णः। जराथ तं देशमुपाजगाम; लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥१६-५-१९॥
स केशवं योगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन। जराविध्यत्पादतले त्वरावां; स्तं चाभितस्तज्जिघृक्षुर्जगाम ॥ अथापश्यत्पुरुषं योगयुक्तं; पीताम्बरं लुब्धकोऽनेकबाहुम् ॥१६-५-२०॥
मत्वात्मानमपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपः। आश्वासयत्तं महात्मा तदानीं; गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ॥१६-५-२१॥
दिवं प्राप्तं वासवोऽथाश्विनौ च; रुद्रादित्या वसवश्चाथ विश्वे। प्रत्युद्ययुर्मुनयश्चापि सिद्धा; गन्धर्वमुख्याश्च सहाप्सरोभिः ॥१६-५-२२॥
ततो राजन्भगवानुग्रतेजा; नारायणः प्रभवश्चाव्ययश्च। योगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेयम् ॥१६-५-२३॥
ततो देवैरृषिभिश्चापि कृष्णः; समागतश्चारणैश्चैव राजन्। गन्धर्वाग्र्यैरप्सरोभिर्वराभिः; सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥१६-५-२४॥
ते वै देवाः प्रत्यनन्दन्त राज; न्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम्। गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ॥१६-५-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.