16.006
अर्जुनागमनम्
वैशम्पायन उवाच॥
दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान्। आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥१६-६-१॥
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान्। पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन् ॥१६-६-२॥
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा। प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥१६-६-३॥
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो। ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥१६-६-४॥
याः स्म ता लोकनाथेन नाथवत्यः पुराभवन्। तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥१६-६-५॥
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः। तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥१६-६-६॥
तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः। हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ॥१६-६-७॥
तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम्। वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥१६-६-८॥
रत्नशैवलसङ्घाटां वज्रप्राकारमालिनीम्। रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥१६-६-९॥
रामकृष्णमहाग्राहां द्वारकासरितं तदा। कालपाशग्रहां घोरां नदीं वैतरणीमिव ॥१६-६-१०॥
तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुङ्गवैः। गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥१६-६-११॥
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः। सस्वनं बाष्पमुत्सृज्य निपपात महीतले ॥१६-६-१२॥
सात्राजिती ततः सत्या रुक्मिणी च विशां पते। अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम् ॥१६-६-१३॥
ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च। अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ॥१६-६-१४॥
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः। आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥१६-६-१५॥