Mahabharata - Mausala Parva (महाभारत - मौसलपर्वम्)
16.007
वसुदेवविलापः
वैशम्पायन उवाच॥
तं शयानं महात्मानं वीरमानकदुन्दुभिम्। पुत्रशोकाभिसन्तप्तं ददर्श कुरुपुङ्गवः ॥१६-७-१॥
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः। आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥१६-७-२॥
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः। रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः ॥ भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि ॥१६-७-३॥
वसुदेव उवाच॥
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन। तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥१६-७-४॥
यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा। तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥१६-७-५॥
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ। प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ ॥१६-७-६॥
नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः। तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय ॥१६-७-७॥
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन। अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥१६-७-८॥
केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः। विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् ॥१६-७-९॥
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान्। गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥१६-७-१०॥
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान्। सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः ॥१६-७-११॥
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि। शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम् ॥१६-७-१२॥
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ। आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ॥१६-७-१३॥
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत्। स तु श्रुत्वा महातेजा यदूनामनयं प्रभो ॥ आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥१६-७-१४॥
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु। यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव ॥१६-७-१५॥
स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च। प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ॥१६-७-१६॥
इमां च नगरीं सद्यः प्रतियाते धनञ्जये। प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ॥१६-७-१७॥
अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः। कालं कर्ता सद्य एव रामेण सह धीमता ॥१६-७-१८॥
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः। हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥१६-७-१९॥
सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव। घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥१६-७-२०॥
न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव। यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ॥१६-७-२१॥
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह। इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥१६-७-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.