18.003
युधिष्ठिरस्वर्गारोहणम्
वैशम्पायन उवाच॥
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे। आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः ॥१८-३-१॥
स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम्। तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥१८-३-२॥
तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु। समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥१८-३-३॥
नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम्। नदी वैतरणी चैव कूटशाल्मलिना सह ॥१८-३-४॥
लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः। विकृतानि शरीराणि यानि तत्र समन्ततः ॥ ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् ॥१८-३-५॥
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः। ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥१८-३-६॥
मरुतः सह शक्रेण वसवश्चाश्विनौ सह। साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः ॥१८-३-७॥
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः। यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥१८-३-८॥
ततः शक्रः सुरपतिः श्रिया परमया युतः। युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥१८-३-९॥
युधिष्ठिर महाबाहो प्रीता देवगणास्तव। एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ॥ सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव ॥१८-३-१०॥
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम। अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥१८-३-११॥
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ। यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ॥ पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः ॥१८-३-१२॥
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते। तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥१८-३-१३॥
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति। व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥१८-३-१४॥
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा। द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः ॥१८-३-१५॥
आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात्। स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे ॥ सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ ॥१८-३-१६॥
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः। स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥१८-३-१७॥
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो। स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥१८-३-१८॥
भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान्। स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ॥१८-३-१९॥
अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव। विहरस्व मया सार्धं गतशोको निरामयः ॥१८-३-२०॥
कर्मणां तात पुण्यानां जितानां तपसा स्वयम्। दानानां च महाबाहो फलं प्राप्नुहि पाण्डव ॥१८-३-२१॥
अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि। उपसेवन्तु कल्याणं विरजोम्बरवाससः ॥१८-३-२२॥
राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान्। प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् ॥१८-३-२३॥
उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर। हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि ॥१८-३-२४॥
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः। दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥१८-३-२५॥
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी। आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि ॥१८-३-२६॥
अत्र स्नातस्य ते भावो मानुषो विगमिष्यति। गतशोको निरायासो मुक्तवैरो भविष्यसि ॥१८-३-२७॥
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम्। धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥१८-३-२८॥
भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक। मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च ॥१८-३-२९॥
एषा तृतीया जिज्ञासा तव राजन्कृता मया। न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः ॥१८-३-३०॥
पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति। अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥१८-३-३१॥
सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत। श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः ॥१८-३-३२॥
इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि। विशुद्धोऽसि महाभाग सुखी विगतकल्मषः ॥१८-३-३३॥
न च ते भ्रातरः पार्थ नरकस्था विशां पते। मायैषा देवराजेन महेन्द्रेण प्रयोजिता ॥१८-३-३४॥
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः। ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥१८-३-३५॥
न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ। कर्णो वा सत्यवाक्षूरो नरकार्हाश्चिरं नृप ॥१८-३-३६॥
न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर। एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् ॥१८-३-३७॥
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः। जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः ॥१८-३-३८॥
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम्। अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् ॥१८-३-३९॥
ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः। निर्वैरो गतसन्तापो जले तस्मिन्समाप्लुतः ॥१८-३-४०॥
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः। धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः ॥१८-३-४१॥