18.004
वैशम्पायन उवाच॥
ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः। पूज्यमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ॥१८-४-१॥
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम्। तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् ॥१८-४-२॥
दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम्। चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ॥ उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ॥१८-४-३॥
अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम्। द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥१८-४-४॥
अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम्। भीमसेनमथापश्यत्तेनैव वपुषान्वितम् ॥१८-४-५॥
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा। नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥१८-४-६॥
तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम्। वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥१८-४-७॥
अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः। ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥१८-४-८॥
श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता। अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥१८-४-९॥
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता। रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ॥१८-४-१०॥
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः। द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥१८-४-११॥
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम्। एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥१८-४-१२॥
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः। सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः ॥आदित्यसहितो याति पश्यैनं पुरुषर्षभ ॥१८-४-१३॥
साध्यानामथ देवानां वसूनां मरुतामपि। गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् ॥ सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् ॥१८-४-१४॥
सोमेन सहितं पश्य सौभद्रमपराजितम्। अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥१८-४-१५॥
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः। विमानेन सदाभ्येति पिता तव ममान्तिकम् ॥१८-४-१६॥
वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम्। द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥१८-४-१७॥
एते चान्ये महीपाला योधास्तव च पाण्डव। गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा ॥१८-४-१८॥
गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः। त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः ॥१८-४-१९॥