Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 27: The Pāṇḍavas’ Flight into the Forest and Bhīma’s Encounter with Hiḍimba
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥BORI: १-१३७-१८॥
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः । पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥BORI: १-१३७-१९॥
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥BORI: १-१३७-२०॥
तं च पापं न जानीमो यदि दग्धः पुरोचनः । कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥BORI: १-१३७-२१॥
पुनरस्मानुपादाय तथैव व्रज भारत । त्वं हि नो बलवानेको यथा सततगस्तथा ॥BORI: १-१३७-२२॥
इत्युक्तो धर्मराजेन भीमसेनो महाबलः । आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ॥BORI: १-१३७-२३॥
एतस्मिन्नेव काले तु यथासंप्रत्ययं कविः । विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम् ॥KUMB: १-१६१-१; NILA: ०१.१४९.००१॥
आत्मनः पाण्डवानां च विश्वास्यं ज्ञातपूर्वकम् । गङ्गासंतरणार्थाय ज्ञाताभिज्ञानवाचिकम् ॥KUMB: १-१६१-२॥
स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने । जनन्या सह कौरव्याननयज्जाह्नवीतटम् ॥KUMB: १-१६१-३; NILA: ०१.१४९.००२॥
विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः । ततस्तस्यापि चारेण चेष्टितं पापचेतसः ॥KUMB: १-१६१-४; NILA: ०१.१४९.००३॥
ततः प्रवासितो विद्वान्विदुरेण नरस्तदा । पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥KUMB: १-१६१-५; NILA: ०१.१४९.००४॥
सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् । शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम् ॥KUMB: १-१६१-६; NILA: ०१.१४९.००५॥
ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम् । युधिष्ठिर निबोधेयं संज्ञार्थं वचनं कवेः ॥KUMB: १-१६१-७; NILA: ०१.१४९.००६॥
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न हन्तीत्येवमात्मानं यो रक्षति स जीवति ॥KUMB: १-१६१-८; NILA: ०१.१४९.००७॥
बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तथा ॥KUMB: १-१६१-८॥
तेन मां प्रेषितं विद्धि विश्वस्तं सञ्ज्ञयाऽनया । भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित् ॥KUMB: १-१६१-९; NILA: ०१.१४९.००८॥
अधिक्षिपन्धार्तराष्ट्रं सभ्रातृकमुदारधीः ॥KUMB: १-१६१-९॥
कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे । शकुनिं चैव कौन्तेय विजेताऽसि न संशयः ॥KUMB: १-१६१-१०; NILA: ०१.१४९.००९॥
पाण्डवाश्चापि गत्वाथ गङ्गायास्तीरमुत्तमम् । निषादाधिपतिं वीरं दाशं परमधार्मिकम् ॥KUMB: १-१६१-११॥
दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान् । ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम् ॥KUMB: १-१६१-१२॥
निषादस्तत्र कौन्तेयानभिज्ञानं न्यवेदयत् । विदुरस्य महाबुद्धेर्म्लेच्छभाषादि यत्तदा ॥KUMB: १-१६१-१३॥
विदुरेणास्मि सन्दिष्टो दत्त्वा बहु धनं महत् । गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेति ह ॥KUMB: १-१६१-१४॥
सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः । चारेरन्वेषयाम्यस्मिन्वने मृगगणान्विते ॥KUMB: १-१६१-१५॥
प्रभवन्तोऽथ भद्रं वो नावमारुह्य गम्यताम् । युक्तारित्रपताकां च निश्छिद्रां मन्दिरोपमाम् ॥KUMB: १-१६१-१६॥
इयं वारिपथे युक्ता नौरप्सु सुखगामिनी । मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः ॥KUMB: १-१६१-१७; NILA: ०१.१४९.०१०॥
अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान् । नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः ॥KUMB: १-१६१-१८; NILA: ०१.१४९.०११॥
विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः । अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत् ॥KUMB: १-१६१-१९; NILA: ०१.१४९.०१२॥
इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः । तारयामास राजेन्द्र गङ्गां नावा नरर्षभान् ॥KUMB: १-१६१-२०; NILA: ०१.१४९.०१३॥
तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः । जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः ॥KUMB: १-१६१-२१; NILA: ०१.१४९.०१४॥
पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः । गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः ॥KUMB: १-१६१-२२; NILA: ०१.१४९.०१५॥
ततस्ते तत्र तीर्त्वा तु गङ्गामुत्तुङ्गवीचिकाम् ॥KUMB: १-१६१-२३॥
नदीं गङ्गामनुप्राप्ता मातृषष्ठा महाबलाः ॥NILA: ०१.१५०.०१९॥
दाशानां भुजवेगेन नद्याः स्रोतोजवेन च । वायुना चानुकूलेन तूर्णं पारमवाप्नुवन् ॥NILA: ०१.१५०.०२०॥
ततो नावं परित्यज्य प्रययुर्दक्षिणा दिशम् ॥NILA: ०१.१५०.०२१॥
नावेक्षन्ते ह तं धर्मं धर्मात्मानोऽप्यहो विधेः । श्रुतवन्तोऽपि विद्वांसो धनवद्वशगा अहो ॥KUMB: १-१६२-६॥
साधूननाथान्धर्मिष्ठात्सत्यव्रतपरायणान् । नावेक्षन्ते महान्तोऽपि दैवं तेषां परायणम् ॥KUMB: १-१६२-७॥
इतः पश्यत कुन्तीयं दग्धा शेते तपस्विनी । पुत्रैः सहैव वार्ष्णेयी हन्तेत्याहुः स्म नागराः ॥KUMB: १-१६२-१०॥
अन्तर्हृष्टमनाश्चासौ बहिर्दुःखसमन्वितः । अन्तःशीतो बहिश्चोष्णो ग्रीष्मेऽगाधह्रदो यथा ॥KUMB: १-१६२-१४॥
मम दग्धा महात्मानः कुलवंशविवर्धनाः ॥KUMB: १-१६२-१८॥
समेताश्च ततः सर्वे भीष्मेण सह कौरवाः । धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः ॥KUMB: १-१६२-२०॥
एकवस्त्रा निरानन्दा निराभरणवेष्टनः । उदकं कर्तुकामा वै पाण्डवानां महात्मनाम् ॥KUMB: १-१६२-२१॥
हा युधिष्ठिर कौरव्य हा भीम इति चापरे ॥KUMB: १-१६२-२३; NILA: ०१.१५०.०१६॥
हा फल्गुनेति चाप्यन्ये हा यमाविति चापरे । कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः ॥KUMB: १-१६२-२४; NILA: ०१.१५०.०१७॥
अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान् ॥KUMB: १-१६२-२५; NILA: ०१.१५०.०१८॥
विदुरो धृतराष्ट्रस्य जानन्सर्वं मनोगतम् । तेनायं विधिना सृष्टः कुटिलः कपटाशयः ॥KUMB: १-१६२-२६॥
इत्येवं चिन्तयन्राजन्विदुरो विदुषां वरः । लोकानां दर्शयन्दुःखं दुःखितैः सह बान्धवैः ॥KUMB: १-१६२-२७॥
मनसाऽचिन्तयत्पार्थान्कियद्दूरं गता इति । सहिताः पाण्डवाः पुत्रा इति चिन्तापरोऽभवत् ॥KUMB: १-१६२-२८॥
ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान्मृतान् । सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च ॥KUMB: १-१६२-२९॥
हा युधिष्ठिर हा भीम हा धनञ्जय हा यमौ । हा पृथे सह पुत्रैस्त्वमेकरात्रेण स्वर्गता ॥KUMB: १-१६२-३०॥
मात्रा सह कुमारास्ते सर्वे तत्रैव संस्थिताः । न हि तौ नोत्सहेयातां भीमसेनधनञ्जयौ ॥KUMB: १-१६२-३१॥
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दरम् । परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः ॥KUMB: १-१६२-३२॥
सर्वथा विकृतं तत्तु यदि ते निधनं गताः । धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः ॥KUMB: १-१६२-३३॥
पृथिव्यां च रथिश्रेष्ठो भविता स धनञ्जयः । सत्यव्रतो धर्मदत्तः सत्यवाक्छुभलक्षणः ॥KUMB: १-१६२-३४॥
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः । आत्मानमुपमां कृत्वा परेषां वर्तते तु यः ॥KUMB: १-१६२-३५॥
मात्रा सहैव कौरव्यः कथं कालवशं गतः । पालितः सुचिरं कालं फलकाले यथा द्रुमः ॥KUMB: १-१६२-३६॥
भग्नः स्याद्वायुवेगेन तथा राजा युधिष्ठिरः । यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः ॥KUMB: १-१६२-३७॥
आत्मनश्च पितुश्चैव सत्यधर्मप्रवृत्तिभिः । यच्च सा वनवासेन तन्माता दुःखभागिनी ॥KUMB: १-१६२-३८॥
कालेन सह संमग्नो धिक्कृतान्तमनर्थकम् । यच्च सा वनवासेन तन्माता दुःखभागिनी ॥KUMB: १-१६२-३९॥
पुत्रगृध्नुतया कुन्ती न भर्तारं मृतात्वनु । अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या ॥KUMB: १-१६२-४०॥
दग्धाऽद्य सह पुत्रैः सा असंपूर्णमनोरा । मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥KUMB: १-१६२-४१॥
एतच्च चिन्तयानस्य व्यथितं बहुधा मनः । अवधूय च मे देहं हृदयेन विदीर्यते ॥KUMB: १-१६२-४२॥
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा । मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥KUMB: १-१६२-४३॥
अतित्यागी च योधी च क्षिप्रहस्तो दृढायुधः । प्रपत्तिमाँल्लब्धलक्षो रथयानविशारदः ॥KUMB: १-१६२-४४॥
दूरपाती त्वसंभ्रान्तो महावीर्यो महास्त्रवान् । अदीनात्मा नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥KUMB: १-१६२-४५॥
येन प्राच्याश्च सौवीरा दाक्षिणात्याश्च निर्जिताः । ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम् ॥KUMB: १-१६२-४६॥
यस्मिञ्जाते विशोकाऽभूत्कुन्ती पाण्डुश्च वीर्यवान् । पुरन्दरसमो जिष्णुः कथं कालवशं गतः ॥KUMB: १-१६२-४७॥
कथं तावृषभष्कन्धौ सिंहविक्रान्तगामिनौ । मर्त्यधर्ममनुप्राप्तौ यमावरिनिवर्हणौ ॥KUMB: १-१६२-४८॥
वत्सा गताः क्व मां वृद्धं विहाय भृशमातुरम् । हा स्नुषे मम वार्ष्णेयि निधाय हृदि मे शुचम् ॥KUMB: १-१६२-४९॥
वारणावतयात्रायां के स्युर्वै शकुनाः पथि । एवमल्पायुषो लोके भविष्यन्ति पृथासुताः ॥KUMB: १-१६२-५०॥
संशप्ता इति कैर्यूयं वत्सान्दर्शय मे पृथे । ममैव नाथा मन्नाथा मम नेत्राणि पाण्डवाः ॥KUMB: १-१६२-५१॥
हा पाण्डवा मे हे वत्सा हा सिंहशिशवो मम । मातङ्गा हा ममोत्तुङ्गा हा ममानन्दवर्धनाः ॥KUMB: १-१६२-५२॥
मम हीनस्य युष्माभिः सर्वलोकास्तमोवृताः । कदा द्रष्टाऽस्मि कौन्तेयांस्तरुणादित्यवर्चसः ॥KUMB: १-१६२-५३॥
अदृष्ट्वा वो महाबाहून्पुत्रवन्मम नन्दनाः । क्व गतिर्मे क्व गच्छामि कुतो द्रक्ष्यामि मे शिशून् ॥KUMB: १-१६२-५४॥
हा युधिष्ठिर हा भीम हा हा फल्गुन हा यमौ । मा गच्छत निवर्तध्वं मयि कोपं विमुञ्चत ॥KUMB: १-१६२-५५॥
श्रुत्वा तत्क्रन्दितं तस्य तिलोदं च प्रसिञ्चतः । देशं कालं समाज्ञाय विदुरः प्रत्यभाषत ॥KUMB: १-१६२-५६॥
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाधृते । न तेषां विद्यते मृत्युः प्राप्तकालं कृतं मया ॥KUMB: १-१६२-५७॥
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत । क्षत्तेदमब्रवीद्भीष्मं कौरवाणामशृण्वताम् ॥KUMB: १-१६२-५८॥
क्षत्तारमुपसंगम्य बाष्पोत्पीडकलस्वरः । मन्दंमन्दमुवाचेदं विदुरं संगमे नृप ॥KUMB: १-१६२-५९॥
कथं ते तात जीवन्ति पाण्डोः पुत्रा महाबलाः । कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः ॥KUMB: १-१६२-६०॥
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात् । जननी गरुडेनेव कुरवस्ते समुद्धृताः ॥KUMB: १-१६२-६१॥
एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम् । आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे ॥KUMB: १-१६२-६२॥
धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च । विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः ॥KUMB: १-१६२-६३॥
तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम् । तं जिघांसुरहं चापि तेषामनुमते स्थितः ॥KUMB: १-१६२-६४॥
ततो जतुगृहं गत्वा दहनेऽस्मिन्नियोजिते । पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात् ॥KUMB: १-१६२-६५॥
ततः खनकमाहूय सुरङ्गं वै बिलं तदा । सुगूढं कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा ॥KUMB: १-१६२-६६॥
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः । ततस्तु नावमारोप्य सहपुत्रां पृथामहम् ॥KUMB: १-१६२-६७॥
दत्त्वाऽभयं सपुत्रायै कुन्त्यै गृहमदाहयम् । तस्मात्ते मा स्म भूद्दुःखं मुक्ताः पापात्तु पाण्डवाः ॥KUMB: १-१६२-६८॥
निर्गताः पाण्डवा राजन्मात्रा सह परन्तपाः । अग्निहादान्महाघोरान्मया तस्मादुपायतः ॥KUMB: १-१६२-६९॥
मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः । प्रच्छन्ना विचरिष्यन्ति यावत्कालस्य पर्ययः ॥KUMB: १-१६२-७०॥
तस्मिन्युधिष्ठिरं काले द्रक्ष्यन्ति भुवि मानवाः । विमलं कृष्णपक्षान्ते जगच्चन्द्रमिवोदितम् ॥KUMB: १-१६२-७१॥
न तस्य नाशं पश्यामि यस्य भ्राता धनञ्जयः । भीमसेनश्च दुर्धर्षौ माद्रीपुत्रौ च तौ यमौ ॥KUMB: १-१६२-७२॥
ततः संहृष्टसर्वाङ्गो भीष्मो विदुरमब्रवीत् । दिष्ट्यादिष्ट्येति संहृष्टः पूजयानो महामतिम् ॥KUMB: १-१६२-७३॥
युक्तं चैवानुरूपं च कृतं तात शुभं त्वया । वयं विमोक्षिता दुःखात्पाण्डुपक्षो न नाशितः ॥KUMB: १-१६२-७४॥
एवमुक्त्वा विवेशाथ पुरं जनशताकुलम् । कुरुभिः सहितो राजन्नागरैश्च पितामहः ॥KUMB: १-१६२-७५॥
अथाम्बिकेयः सामात्यः सकर्णः सहसौबलः । सात्मजः पार्थनाशस्य स्मरंस्तथ्यं जहर्ष च ॥KUMB: १-१६२-७६॥
भीष्मश्च राजन्दुर्धर्षो विदुरश्च महामतिः । जहृषाते स्मरन्तौ तौ जातुषाग्नेर्विमोचनम् ॥KUMB: १-१६२-७७॥
सत्यशीलगुणाचारै रागैर्जानपदोद्भवैः । द्रोणादयश्च धर्मैस्तु तेषां तान्मोचितान्विदुः ॥KUMB: १-१६२-७८॥
शौर्यलावण्यमाहात्म्यै रूपैः प्राणबलैरपि । स्वस्थान्पार्थानमन्यन्त पौरजानपदास्तथा ॥KUMB: १-१६२-७९॥
अन्ये जनाः प्राकृताश्च स्त्रियश्च बहुलास्तदा । शङ्कमाना वदन्ति स्म दग्धा जीवन्ति वा न वा ॥KUMB: १-१६२-८०॥
वैशम्पायन उवाच॥
तेन विक्रमता तूर्णमूरुवेगसमीरितम् । प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥BORI: १-१३८-१॥
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् । आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥BORI: १-१३८-२॥
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः । तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥BORI: १-१३८-३॥
असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः । पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥BORI: १-१३८-४॥
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् । अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥BORI: १-१३८-५॥
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् । क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥BORI: १-१३८-६॥
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः । अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥BORI: १-१३८-७॥
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः । नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥BORI: १-१३८-८॥
ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥BORI: १-१३८-९॥
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः । पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥BORI: १-१३८-१०॥
एते रुवन्ति मधुरं सारसा जलचारिणः । ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥BORI: १-१३८-११॥
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत । जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥BORI: १-१३८-१२॥
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ । उत्तरीयेण पानीयमाजहार तदा नृप ॥BORI: १-१३८-१३॥
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति । स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले । भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥BORI: १-१३८-१४॥
शयनेषु परार्ध्येषु ये पुरा वारणावते । नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥BORI: १-१३८-१५॥
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः । कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥BORI: १-१३८-१६॥
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः । प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥BORI: १-१३८-१७॥
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् । शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ॥BORI: १-१३८-१८॥
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् । सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥BORI: १-१३८-१९॥
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् । योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥BORI: १-१३८-२०॥
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः । सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥BORI: १-१३८-२१॥
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि । शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥BORI: १-१३८-२२॥
अश्विनाविव देवानां याविमौ रूपसम्पदा । तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥BORI: १-१३८-२३॥
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः । स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥BORI: १-१३८-२४॥
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः । चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥BORI: १-१३८-२५॥
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः । ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥BORI: १-१३८-२६॥
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः । जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥BORI: १-१३८-२७॥
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना । विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ॥BORI: १-१३८-२८॥
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः । कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥BORI: १-१३८-२९॥
नातिदूरे च नगरं वनादस्माद्धि लक्षये । जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥BORI: १-१३८-३०॥
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः । इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥BORI: १-१३८-३१॥
वनं सवृक्षविटपं व्याघूर्णितमिवाभवत् ॥KUMB: १-१६३-१; NILA: ०१.१५१.००१॥
आवर्जितालतावृक्षं मार्गं चक्रे महाबलः ॥KUMB: १-१६३-२; NILA: ०१.१५१.००२॥
त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट् ॥KUMB: १-१६३-४; NILA: ०१.१५१.००४॥
गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः ॥KUMB: १-१६३-५; NILA: ०१.१५१.००५॥
शीर्णपर्णफलै राजन्बहुगुल्मक्षुपद्रुमैः । भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः ॥KUMB: १-१६३-१०; NILA: ०१.१५१.०१०॥
न्यविशन्ति हि ते सर्वे निरास्वादे महावने । ततस्तृषा परिक्लन्ता कुन्ती वचनमब्रवीत् ॥KUMB: १-१६३-१२; NILA: ०१.१५१.०१२॥
रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम् ॥KUMB: १-१६३-१२॥
माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता । तृष्णया हि परीताऽहमनाथेव महावने ॥KUMB: १-१६३-१३; NILA: ०१.१५१.०१३॥
इतः परं तु शक्ताहं गन्तुं च न पदात्पदम् । शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम् ॥KUMB: १-१६३-१४॥
शृणु भीम वचो मह्यं तव बाहुबलात्पुरः । स्थातुं न शक्ताः कौरव्याः किं बिभेषि पृथासुत ॥KUMB: १-१६३-१५॥
अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि । धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि ॥KUMB: १-१६३-१६॥
भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा । निश्यध्वनि रुदन्ती सा निद्रावश्मुपागता ॥KUMB: १-१६३-१७॥
तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम् । कारुण्येन मनस्तप्तं गमनायोपचक्रमे ॥KUMB: १-१६३-१८; NILA: ०१.१५१.०१४॥
अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम् ॥KUMB: १-१६३-२३॥
तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः ॥KUMB: १-१६३-२४; NILA: ०१.१५१.०१९॥
पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक् ॥KUMB: १-१६३-२५॥
शोकदुःखपरीतात्मा निशश्वासोरगो यथा ॥KUMB: १-१६३-२५; NILA: ०१.१५१.०२०॥
भ्रातॄन्निद्राविद्रावितौजसः । महारौद्रे वने घोरे वृक्षमूले सुशीतले ॥KUMB: १-१६३-२६॥
विक्षिप्तकरपादांश्च दीर्घोच्छ्वासान्महाबलान् । ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूपते ॥KUMB: १-१६३-२७॥
अज्ञातवृक्षनित्यस्थप्रेतराक्षससाध्वसान् ॥KUMB: १-१६३-२८॥
अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति । यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक् ॥KUMB: १-१६३-३०; NILA: ०१.१५१.०२२॥
राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन वै । दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना ॥KUMB: १-१६३-४४; KUMB: १-१६३-४५॥
सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन । नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः ॥KUMB: १-१६३-४७; NILA: ०१.१५१.०३८॥
प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते । नन्वद्य ससुतामात्यं सकर्णानुजसौबलम् ॥KUMB: १-१६३-४८; NILA: ०१.१५१.०३९॥
गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम् । किं नु शक्यं मया कर्तुं यत्तेन क्रुध्यते नृपः ॥KUMB: १-१६३-४९; NILA: ०१.१५१.०४०॥
धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः । एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः ॥KUMB: १-१६३-५०; NILA: ०१.१५१.०४१॥
करं करेण निष्पिष्य निःश्वसन्दीनमानसः । पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः ॥KUMB: १-१६३-५१; NILA: ०१.१५१.०४२॥
भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः । विश्वस्तानिव संविष्टान्पृथग्जनसमानिव ॥KUMB: १-१६३-५२; NILA: ०१.१५१.०४३॥
वैशम्पायन उवाच॥
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः । अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ॥BORI: १-१३९-१॥
क्रूरो मानुषमांसादो महावीर्यो महाबलः । विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः । पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ॥BORI: १-१३९-२॥
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् । जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ॥BORI: १-१३९-३॥
दुष्टो मानुषमांसादो महाकायो महाबलः । आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥BORI: १-१३९-४॥
उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः । स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ॥BORI: १-१३९-५॥
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः । देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥BORI: १-१३९-६॥
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि । उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥BORI: १-१३९-७॥
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः । मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥BORI: १-१३९-८॥
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् । अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥BORI: १-१३९-९॥
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः । भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ॥BORI: १-१३९-१०॥
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी । जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ॥BORI: १-१३९-११॥
ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह । शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥BORI: १-१३९-१२॥
दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् । राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥BORI: १-१३९-१३॥
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः । कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ॥BORI: १-१३९-१४॥
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् । पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ॥BORI: १-१३९-१५॥
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च । हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ॥BORI: १-१३९-१६॥
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् । उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥BORI: १-१३९-१७॥
विलज्जमानेव लता दिव्याभरणभूषिता । स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ॥BORI: १-१३९-१८॥
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ । क इमे शेरते चेह पुरुषा देवरूपिणः ॥BORI: १-१३९-१९॥
केयं च बृहती श्यामा सुकुमारी तवानघ । शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ॥BORI: १-१३९-२०॥
नेदं जानाति गहनं वनं राक्षससेवितम् । वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥BORI: १-१३९-२१॥
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा । बिभक्षयिषता मांसं युष्माकममरोपम ॥BORI: १-१३९-२२॥
साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् । नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥BORI: १-१३९-२३॥
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर । कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ॥BORI: १-१३९-२४॥
त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् । वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥BORI: १-१३९-२५॥
अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च । अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥BORI: १-१३९-२६॥
भीम उवाच॥
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् । परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ॥BORI: १-१३९-२७॥
को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् । मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥BORI: १-१३९-२८॥
राक्षस्युवाच॥
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय । मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ॥BORI: १-१३९-२९॥
भीम उवाच॥
सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि । न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥BORI: १-१३९-३०॥
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् । न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥BORI: १-१३९-३१॥
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु । तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥BORI: १-१३९-३२॥
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः ॥KUMB: १-१६४-२; NILA: ०१.१५२.००२॥
दष्ट्राकरालवदनः करालो भीमदर्शनः । लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः ॥KUMB: १-१६४-३; NILA: ०१.१५२.००३॥
महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः । यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान् ॥KUMB: १-१६४-४; NILA: ०१.१५२.००४॥
भक्षयित्वा च मांसानि मानुषाणां प्रकामतः । नृत्याव सहितावावां दत्ततालावनेकशः ॥KUMB: १-१६४-१४; NILA: ०१.१५२.०१४॥
एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने ॥KUMB: १-१६४-१५; NILA: ०१.१५२.०१५॥
आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति ॥KUMB: १-१६४-१६॥
उपास्यमानान्भीमेन रूपयौवनशालिनः । सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान् ॥KUMB: १-१६४-१८॥
दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः । रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम् ॥KUMB: १-१६४-१९॥
अन्तर्गतेन मनसा चिन्तयामास राक्षसी ॥KUMB: १-१६४-२१॥
निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजम् ॥KUMB: १-१६४-२४॥
उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता ॥KUMB: १-१६४-२५॥
इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः ॥KUMB: १-१६४-२६॥
शनैः शनैश्च तां भीमः समीपमुपसर्पतीम् ॥KUMB: १-१६४-२७॥
हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम् । चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् ॥KUMB: १-१६४-२८॥
कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम् । दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः ॥KUMB: १-१६४-२९॥
उपचारगुणैर्युक्तां ललितैर्हाससंमितैः । समीपमुपसंप्राप्य भीमं साथ वरानता ॥KUMB: १-१६४-३०॥
वचो वचनवेलायां भीमं प्रोवाच भामिनी ॥KUMB: १-१६४-३१॥
इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः । त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम ॥KUMB: १-१६४-४०॥
एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः । अनिविष्टो हि तन्नाहं परिविद्यां कथंचन ॥KUMB: १-१६४-४२॥
एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप । सोदरानुत्सृजैनांस्त्वमारोह जघनं मम ॥KUMB: १-१६४-४५॥
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि । यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे ॥KUMB: १-१६४-४६॥
वैशम्पायन उवाच॥
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥BORI: १-१४०-१॥
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥BORI: १-१४०-२॥
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥BORI: १-१४०-३॥
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥BORI: १-१४०-४॥
अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥BORI: १-१४०-५॥
प्रबोधयैनान्संसुप्तान्मातरं च परन्तप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥BORI: १-१४०-६॥
भीम उवाच॥
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥BORI: १-१४०-७॥
नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥BORI: १-१४०-८॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥BORI: १-१४०-९॥
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥BORI: १-१४०-१०॥
हिडिम्बोवाच॥
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥BORI: १-१४०-११॥
वैशम्पायन उवाच॥
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥BORI: १-१४०-१२॥
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥BORI: १-१४०-१३॥
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥BORI: १-१४०-१४॥
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥BORI: १-१४०-१५॥
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥BORI: १-१४०-१६॥
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥BORI: १-१४०-१७॥
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥BORI: १-१४०-१८॥
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥BORI: १-१४०-१९॥
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥BORI: १-१४०-२०॥
तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥BORI: १-१४०-२१॥
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् । उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्कुषन् ॥KUMB: १-१६५-३॥
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेति हिडिम्बी च प्रेषिता किमनागता ॥KUMB: १-१६५-४॥
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम् । रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा ॥KUMB: १-१६५-२३॥
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥KUMB: १-१६५-२५; NILA: ०१.१५३.०२२॥
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥KUMB: १-१६५-२६; NILA: ०१.१५३.०२३॥
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥KUMB: १-१६५-२७; NILA: ०१.१५३.०२४॥
न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥KUMB: १-१६५-२८; NILA: ०१.१५३.०२५॥
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर । त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ॥KUMB: १-१६५-२९; NILA: ०१.१५३.०२६॥
कामयत्यद्य मां भीरुस्तव नैषापराध्यति । अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि ॥KUMB: १-१६५-३०; NILA: ०१.१५३.०२७॥
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि । संगच्छस्व मया सार्धमेकेनैको नराशन ॥KUMB: १-१६५-३१; NILA: ०१.१५३.०२८॥
अहमेको गमिष्यामि त्वामद्य यमसादनम् । अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसाः ॥KUMB: १-१६५-३२; NILA: ०१.१५३.०२९॥
अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥KUMB: १-१६५-३३; NILA: ०१.१५३.०३०॥
क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम् । पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान् ॥KUMB: १-१६५-३४; NILA: ०१.१५३.०३१॥
अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत् । द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥KUMB: १-१६५-३५; NILA: ०१.१५३.०३२॥
निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥KUMB: १-१६५-३६; NILA: ०१.१५३.०३३॥
गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेया मा चिरं कृथाः ॥KUMB: १-१६५-३७; NILA: ०१.१५३.०३४॥
बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥KUMB: १-१६५-३८; NILA: ०१.१५३.०३५॥
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥KUMB: १-१६५-३९; NILA: ०१.१५३.०३६॥
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥KUMB: १-१६५-४०; NILA: ०१.१५३.०३७॥
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दमम् ॥KUMB: १-१६५-४१; NILA: ०१.१५३.०३८॥
तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहितं बाहुं निजग्राह हसन्निव ॥KUMB: १-१६५-४२; NILA: ०१.१५३.०३९॥
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥KUMB: १-१६५-४३; NILA: ०१.१५३.०४०॥
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥KUMB: १-१६५-४४; NILA: ०१.१५३.०४१॥
पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥KUMB: १-१६५-४५; NILA: ०१.१५३.०४२॥
हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान् । पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा ॥KUMB: १-१६५-४६॥
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम् ॥KUMB: १-१६५-४७; NILA: ०१.१५३.०४३॥
बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा । मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ ॥KUMB: १-१६५-४८; NILA: ०१.१५३.०४४॥
पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ । स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः ॥KUMB: १-१६५-४९॥
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः । बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ ॥KUMB: १-१६५-५०॥
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम् । पुरा देवासुरे युद्धे वृत्रवासवयोरिव ॥KUMB: १-१६५-५१॥
भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा । सालतालतमालाम्रवटार्जुनविभीतकान् ॥KUMB: १-१६५-५२॥
न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान् । एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान् ॥KUMB: १-१६५-५३॥
उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे । यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम् ॥KUMB: १-१६५-५४॥
तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा । ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान् ॥KUMB: १-१६५-५५॥
शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ । चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ ॥KUMB: १-१६५-५६॥
तद्वनं परितः पञ्चयोजनं निर्महीरुहम् । निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम् ॥KUMB: १-१६५-५७॥
तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः । मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम् ॥KUMB: १-१६५-५८॥
ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम् । उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् ॥KUMB: १-१६५-५९॥
तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम् । पाषाणसंघट्टनिभैः प्रहारैरभिजघ्नतुः ॥KUMB: १-१६५-६०॥
अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम् । बाहुयुद्धमभूद्धोरं बलिवासवयोरिव । युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम् ॥KUMB: १-१६५-६१॥
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम् ॥KUMB: १-१६५-६२; NILA: ०१.१५३.०४५॥
वैशम्पायन उवाच॥
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥BORI: ०१-१४१-१॥
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥BORI: ०१-१४१-२॥
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥BORI: ०१-१४१-३॥
न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा । भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥BORI: ०१-१४१-४॥
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च । कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥BORI: ०१-१४१-५॥
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस । मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥BORI: ०१-१४१-६॥
समागच्छ मया सार्धमेकेनैको नराशन । अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥BORI: ०१-१४१-७॥
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥BORI: ०१-१४१-८॥
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥BORI: ०१-१४१-९॥
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् । पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥BORI: ०१-१४१-१०॥
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि । द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥BORI: ०१-१४१-११॥
निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥BORI: ०१-१४१-१२॥
हिडिम्ब उवाच॥
गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥BORI: ०१-१४१-१३॥
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥BORI: ०१-१४१-१४॥
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥BORI: ०१-१४१-१५॥
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥BORI: ०१-१४१-१६॥
वैशम्पायन उवाच॥
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥BORI: ०१-१४१-१७॥
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥BORI: ०१-१४१-१८॥
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥BORI: ०१-१४१-१९॥
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥BORI: ०१-१४१-२०॥
पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ॥BORI: ०१-१४१-२१॥
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥BORI: ०१-१४१-२२॥
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः । मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥BORI: ०१-१४१-२३॥
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥BORI: ०१-१४१-२४॥
हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान् । पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा ॥KUMB: १-१६५-४६॥
पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ । स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः ॥KUMB: १-१६५-४९॥
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः । बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ ॥KUMB: १-१६५-५०॥
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम् । पुरा देवासुरे युद्धे वृत्रवासवयोरिव ॥KUMB: १-१६५-५१॥
भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा । सालतालतमालाम्रवटार्जुनविभीतकान् ॥KUMB: १-१६५-५२॥
न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान् । एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान् ॥KUMB: १-१६५-५३॥
उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे । यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम् ॥KUMB: १-१६५-५४॥
तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा । ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान् ॥KUMB: १-१६५-५५॥
शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ । चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ ॥KUMB: १-१६५-५६॥
तद्वनं परितः पञ्चयोजनं निर्महीरुहम् । निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम् ॥KUMB: १-१६५-५७॥
तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः । मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम् ॥KUMB: १-१६५-५८॥
ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम् । उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् ॥KUMB: १-१६५-५९॥
तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम् । पाषाणसंघट्टनिभैः प्रहारैरभिजघ्नतुः ॥KUMB: १-१६५-६०॥
अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम् । बाहुयुद्धमभूद्धोरं बलिवासवयोरिव । युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम् ॥KUMB: १-१६५-६१॥
वैशम्पायन उवाच॥
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् । विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥BORI: ०१-१४२-१॥
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा । उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥BORI: ०१-१४२-२॥
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि । केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥BORI: ०१-१४२-३॥
यदि वास्य वनस्यासि देवता यदि वाप्सराः । आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥BORI: ०१-१४२-४॥
हिडिम्बोवाच॥
यदेतत्पश्यसि वनं नीलमेघनिभं महत् । निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥BORI: ०१-१४२-५॥
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि । भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥BORI: ०१-१४२-६॥
क्रूरबुद्धेरहं तस्य वचनादागता इह । अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥BORI: ०१-१४२-७॥
ततोऽहं सर्वभूतानां भावे विचरता शुभे । चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥BORI: ०१-१४२-८॥
ततो वृतो मया भर्ता तव पुत्रो महाबलः । अपनेतुं च यतितो न चैव शकितो मया ॥BORI: ०१-१४२-९॥
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः । स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥BORI: ०१-१४२-१०॥
स तेन मम कान्तेन तव पुत्रेण धीमता । बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ॥BORI: ०१-१४२-११॥
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥BORI: ०१-१४२-१२॥
वैशम्पायन उवाच॥
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः । अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥BORI: ०१-१४२-१३॥
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् । काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥BORI: ०१-१४२-१४॥
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् । दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥BORI: ०१-१४२-१५॥
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ । विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥BORI: ०१-१४२-१६॥
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु । उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥BORI: ०१-१४२-१७॥
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् । समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥BORI: ०१-१४२-१८॥
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् । नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥BORI: ०१-१४२-१९॥
भीम उवाच॥
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया । न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥BORI: ०१-१४२-२०॥
अर्जुन उवाच॥
किमनेन चिरं भीम जीवता पापरक्षसा । गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥BORI: ०१-१४२-२१॥
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते । रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥BORI: ०१-१४२-२२॥
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥BORI: ०१-१४२-२३॥
वैशम्पायन उवाच॥
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः । उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥BORI: ०१-१४२-२४॥
भीम उवाच॥
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥BORI: ०१-१४२-२५॥
अर्जुन उवाच॥
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि । करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥BORI: ०१-१४२-२६॥
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥BORI: ०१-१४२-२७॥
वैशम्पायन उवाच॥
ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः । अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा ॥KUMB: १-१६६-३१; NILA: ०१.१५४.०२५॥
इति चोवाच संक्रुद्धो भ्रामयन्राक्षसीं तनुम् । भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः ॥KUMB: १-१६६-३२॥
क्षेममद्य करिष्यामि यथा वनमकण्टकम् । न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस ॥KUMB: १-१६६-३४; NILA: ०१.१५४.०२७॥
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् । पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥BORI: ०१-१४२-२९॥
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥BORI: ०१-१४२-३०॥
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः । अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ॥BORI: ०१-१४२-३१॥
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् । पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥BORI: ०१-१४२-३२॥
नदूरे नगरं मन्ये वनादस्मादहं प्रभो । शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥BORI: ०१-१४२-३३॥
ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः । प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥BORI: ०१-१४२-३४॥
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः ॥BORI: ०१-१४२-२८A॥
निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥BORI: ०१-१४२-२८B॥
भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः । अमृत्वा पार्थवीर्येण मृतो मा भूदिति ध्वनिः ॥KUMB: १-१६६-२१॥
अयमस्मांस्तु नो हन्याज्जातु पार्थ राक्षसः । जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ ॥KUMB: १-१६६-२२॥
पूर्वरात्रे प्रयुक्तोऽसि भीम क्रूरेण रक्षसा । क्षपा व्युष्टा न चेदानीं समाप्तोसीन्महारणः ॥KUMB: १-१६६-२३॥
माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया । रक्षो जहि यथा शक्रः पुरा वृत्रं महाबलम् ॥KUMB: १-१६६-२७॥
अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव । बलमाहारयामास यद्वायोर्जगतः क्षये ॥KUMB: १-१६६-३०; NILA: ०१.१५४.०२४॥
बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत् ॥KUMB: १-१६६-३७॥
ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत् । तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् ॥KUMB: १-१६६-३८॥
प्राविद्धं भीमसेनेन शिरो विदशनं बभौ । प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः ॥KUMB: १-१६६-३९॥
कबन्धभूतस्तत्रासीद्दनुर्वज्रहतो तथा । हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः ॥KUMB: १-१६६-४०॥
हिडिम्बा सा च संप्रेक्ष्य निहतं राक्षसं रणे । अदृश्याश्चैव ये स्वस्स्थाः समेताः सर्षिचारणाः ॥KUMB: १-१६६-४१॥
पूजयन्ति स्म तं हृष्टाः साधुसाध्विति पाण्डवम् । भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः ॥KUMB: १-१६६-४२॥