Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 28: Bhīma’s Marriage to Hiḍimbā, the Birth of Ghaṭotkaca, and Vyāsa’s Guidance to the Pāṇḍavas
वैशम्पायन उवाच॥KUMB: १-१६७-०क्ष्॥
सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः । अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति ॥KUMB: १-१६७-१॥
अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् । अभिपूज्य ततः सर्वान्भीमसेनमभाषत ॥KUMB: १-१६७-२॥
अहं ते दर्शादेव मन्मथस्य वशं गता । क्रूरं भ्रातृवचो हित्वा सा त्वामेवानिरुन्धती ॥KUMB: १-१६७-३॥
राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम् । अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम् ॥KUMB: १-१६७-४॥
भीमसेन उवाच॥KUMB: १-१६७-५क्ष्॥
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम् ॥KUMB: १-१६७-५॥
युधिष्ठिर उवाच॥KUMB: १-१६७-६क्ष्॥
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव ॥KUMB: १-१६७-६॥
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥KUMB: १-१६७-७॥
वैशम्पायन उवाच॥KUMB: १-१६७-८क्ष्॥
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत् ॥KUMB: १-१६७-८॥
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृते शुभे ॥KUMB: १-१६७-९॥
सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखोदयः ॥KUMB: १-१६७-१०॥
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥KUMB: १-१६७-११॥
वीरेणाऽहं तथाऽनेन त्वया चापि यशस्विनी । प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते ॥KUMB: १-१६७-१२॥
यदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि । मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा ॥KUMB: १-१६७-१३॥
भर्त्राऽनेन महाभागे संयोजय सुतेन ह । समुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे ॥KUMB: १-१६७-१४॥
अहं हि समये लप्स्ये प्राग्भ्रातुरपर्वजनात् । ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया ॥KUMB: १-१६७-१५॥
यथायथा विक्रमते यथारिमधितिष्ठति । तथातथा समासाद्य पाण्डवं काममोहिता ॥KUMB: १-१६७-१६॥
न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी । ईशा रक्षस्स्वसा ह्यस्मि राज्ञि सालकटङ्कटी ॥KUMB: १-१६७-१७॥
पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी । सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् ॥KUMB: १-१६७-१८॥
अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम्.वृजिने तारयिष्यामि दासीवच्च नरर्षभाः ॥KUMB: १-१६७-१९॥
पृष्ठेन वो वहिष्यामि विमानं सुकृतानिव । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥KUMB: १-१६७-२०॥
एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति । भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः ॥KUMB: १-१६७-२१॥
अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा.आपन्निस्तरणे प्राणान्धारयिष्ये न केनचित् ॥KUMB: १-१६७-२२॥
सर्वमावृत्य कर्तव्यं धर्मं समनुपश्यता । आपत्सु यो धारयति स वै धर्मविदुत्तमः ॥KUMB: १-१६७-२३॥
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते । पुम्यात्प्राणान्धारयति पुण्यं वै प्राणधारणम् ॥KUMB: १-१६७-२४॥
येन केनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते । महतोऽत्र स्त्रियं कामाद्वाधितां त्राहि मामपि ॥KUMB: १-१६७-२५॥
धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः । तत्तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः ॥KUMB: १-१६७-२६॥
दिव्यज्ञानेन जानामि व्यतीतानागतानहम् । तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् ॥KUMB: १-१६७-२७॥
अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ । श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम् ॥KUMB: १-१६७-२८॥
व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ । धार्तराष्ट्राद्विवासं च दहनं वारणावते ॥KUMB: १-१६७-२९॥
त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा । आवासे शालिहोत्रस्य स वो वासं विधास्यति ॥KUMB: १-१६७-३०॥
वर्षवातातपसहो ह्ययं पुण्यो वनस्पतिः । पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः ॥KUMB: १-१६७-३१॥
तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः । कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह ॥KUMB: १-१६७-३२॥
रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम्. ॥KUMB: १-१६७-३३॥
वैशम्पायन उवाच । तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत् ॥KUMB: १-१६७-३३क्ष्॥
युधिष्ठिरं महाप्राज्ञं सर्वधर्मविशारदम्. ॥KUMB: १-१६७-३४॥
कुन्त्युवाच । त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत ॥KUMB: १-१६७-३४क्ष्॥
राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै । भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी ॥KUMB: १-१६७-३५॥
भजतां पाण्डवं वीरमपत्यार्थं यदीच्छसि. ॥KUMB: १-१६७-३६॥
युधिष्ठिर उवाच । एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः ॥KUMB: १-१६७-३६क्ष्॥
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे । नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी ॥KUMB: १-१६७-३७॥
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे ॥KUMB: १-१६७-३८॥
अहस्सु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥KUMB: १-१६७-३९॥
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः । एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् ॥KUMB: १-१६७-४०॥
एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया । नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया ॥KUMB: १-१६७-४१॥
वैशम्पायन उवाच॥KUMB: १-१६८-०क्ष्॥
युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा । भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता ॥KUMB: १-१६८-१॥
तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी । शालिहोत्रसरो रम्यमाससाद जलार्थिनी ॥KUMB: १-१६८-२॥
वनस्पतितलं गत्वा परिमृज्य गृहं यथा । पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा ॥KUMB: १-१६८-३॥
आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा । पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च ॥KUMB: १-१६८-४॥
तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् । शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा ॥KUMB: १-१६८-५॥
मनसा चिन्तयामास पानीयं भोजनं महत् । ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह ॥KUMB: १-१६८-६॥
यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् । कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् ॥KUMB: १-१६८-७॥
कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत् । यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः ॥KUMB: १-१६८-८॥
अहं धर्मविदाऽनेन मान्या गुरुतरा तव । तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु ॥KUMB: १-१६८-९॥
निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना । दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर ॥KUMB: १-१६८-१०॥
तस्मात्कतिपयाहेन योगक्षेमं भविष्यति । क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम् ॥KUMB: १-१६८-११॥
इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर । दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता ॥KUMB: १-१६८-१२॥
युधिष्ठिरं च मां चैव वरयामास धर्मतः । धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति ॥KUMB: १-१६८-१३॥
प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु. ॥KUMB: १-१६८-१४॥
वैशम्पायन उवाच । तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम् ॥KUMB: १-१६८-१४क्ष्॥
शासनं ते करिष्यामि वेदशासनमित्यपि । समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम् ॥KUMB: १-१६८-१५॥
शृणु राक्षसि सत्येन समयं ते वदाम्यहम्.यावत्कालेन भवति पुत्रस्योत्पादनं शुभे ॥KUMB: १-१६८-१६॥
तावत्कालं चरिष्यामि त्वया सह सुमध्यमे । विशेषतो मत्सकाशे मा प्रकाशय नीचताम् ॥KUMB: १-१६८-१७॥
उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि. ॥KUMB: १-१६८-१८॥
वैशम्पायन उवाच । सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा ॥KUMB: १-१६८-१८क्ष्॥
गताऽहनि निवेशेषु भोज्यं राजार्हमानयत् । सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी ॥KUMB: १-१६८-१९॥
भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा । शैलशृङ्गेषु रम्येषु देवतायतनेषु च ॥KUMB: १-१६८-२०॥
मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु । कृत्वा सा परमं रूपं सर्वाभरणभूषिता ॥KUMB: १-१६८-२१॥
संजल्पन्ती सुमधुरं रमयामास पाण्डवम् । तथैव वनदुर्गेषु पर्वतद्रुमसानुषु ॥KUMB: १-१६८-२२॥
सरस्तु रमणीयेषु पद्मोत्पलवनेषु च । नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च ॥KUMB: १-१६८-२३॥
देवारण्येषु पुण्येषु तथा पर्वतसानुषु । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥KUMB: १-१६८-२४॥
सागरस्य प्रदेशेषु भणिहेमयुतेषु च । गुह्यकानां निवासेषु कुलपर्वतसानुषु ॥KUMB: १-१६८-२५॥
सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥KUMB: १-१६८-२६॥
यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह । सुतरां परमप्रीतस्तथा रेमे महाद्युतिः ॥KUMB: १-१६८-२७॥
शुभं हि जघनं तस्याः सवर्णमणिमेखलम् । न ततर्प तदा मृद्गन्भीमसेनो मुहुर्मुहुः ॥KUMB: १-१६८-२८॥
रमयन्ती ततो भीमं तत्रतत्र मनोजवा । सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः ॥KUMB: १-१६८-२९॥
अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम् । आनीय वै स्वके गेहे दर्शयामास मातरम् ॥KUMB: १-१६८-३०॥
भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा । कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेवसन्निशां ॥KUMB: १-१६८-३१॥
कामांश्च मुखवासादीनानयिष्यति भोजनम् । तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः ॥KUMB: १-१६८-३२॥
पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः । तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम् । तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी ॥KUMB: १-१६८-३३॥
श्रीव्यास उवाच॥KUMB: १-१६८-३४क्ष्॥
मयेदं मनसा पूर्वं विदितं भरतर्षभाः । यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः ॥KUMB: १-१६८-३४॥
तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्ष्वै परं हितम् । न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः ॥KUMB: १-१६८-३५॥
सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः । तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः ॥KUMB: १-१६८-३६॥
समाप्ते दुष्कृते चैव यूयं ते वै न संशयः । स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः ॥KUMB: १-१६८-३७॥
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः । तस्मादभ्यधिकः स्नेहो युष्मासु मम संप्रति ॥KUMB: १-१६८-३८॥
स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥KUMB: १-१६८-३९॥
एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः । रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम् ॥KUMB: १-१६८-४०॥
कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम् ॥KUMB: १-१६८-४१॥
वैशम्पायन उवाच॥KUMB: १-१६८-४२क्ष्॥
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् । स्नेहाच्च संपरिष्वज्य कुन्तीमाश्वासयत्प्रभुः ॥KUMB: १-१६८-४२॥
स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः । जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः ॥KUMB: १-१६८-४३॥
पृथिव्यां पार्थइवान्सर्वान्प्रशासिष्यति धर्मराट् । धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी ॥KUMB: १-१६८-४४॥
स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् । भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम् ॥KUMB: १-१६८-४५॥
पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः । स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥KUMB: १-१६८-४६॥
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥KUMB: १-१६८-४७॥
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः ॥KUMB: १-१६८-४८॥
स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका । वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति ॥KUMB: १-१६८-४९॥
तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः । इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः ॥KUMB: १-१६८-५०॥
देशकालौ विदित्वैवं यास्यध्वं परमां मुदम् ॥KUMB: १-१६८-५१॥
वैशम्पायन उवाच॥KUMB: १-१६८-५२क्ष्॥
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप । जगाम भगवान्व्यासो यथागतमृषिः प्रभुः ॥KUMB: १-१६८-५२॥
वैशम्पायन उवाच॥KUMB: १-१६९-०क्ष्॥
गते भगवति व्यासे पाण्डवा विगतज्वराः । ऊषुस्तत्र च षण्मासान्वटवृक्षे यथासुखम् ॥KUMB: १-१६९-१॥
शाकमूलफलाहारास्तपः कुर्वन्ति पाण्डवाः । अनुज्ञाता महाराज ततः कमलपालिका ॥KUMB: १-१६९-२॥
रमयन्ती सदा भीमं तत्रतत्र मनोजवा । दिव्याभरणवस्त्रा हि दिव्यस्रगनुलेपना ॥KUMB: १-१६९-३॥
एवं भ्रातॄन्सप्त मासान्हिडिम्बाऽवासयद्वने । पाण्डवान्भीमसेनार्थे राक्षसी कामरूपिणी ॥KUMB: १-१६९-४॥
सुखं स विहरन्भीमस्तत्कालं पर्यणामयत् । ततोऽलभत सा गर्भं राक्षसी कामरूपिणी ॥KUMB: १-१६९-५॥
अतृप्ता भीमसेनेन सप्तमासोपसंगता । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलात् ॥KUMB: १-१६९-६॥
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्राक्षं तीक्ष्णदंष्ट्रं महारथम् ॥KUMB: १-१६९-७॥
महेष्वासं महावीर्यं महासत्वं महाजवम् । महाकायं महाकालं महाग्रीवं महाभुजम् ॥KUMB: १-१६९-८॥
अमानुषं मानुषजं भीमवेगमरिन्दमम् । पिशाचकानतीत्यान्यान्बभूवाति स मानुषान् ॥KUMB: १-१६९-९॥
बालोऽपि विक्रमं प्राप्तो मानुषेषु विशांपते । सर्वास्त्रेषु वरो वीरः प्रकाममभवद्बली ॥KUMB: १-१६९-१०॥
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥KUMB: १-१६९-११॥
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥KUMB: १-१६९-१२॥
घटोहास्योत्कच इति माता तं प्रत्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥KUMB: १-१६९-१३॥
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मनित्यो बभूव ह ॥KUMB: १-१६९-१४॥
घटोत्कचो महाकायः पाण्डवान्पृथया सह । अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान् ॥KUMB: १-१६९-१५॥
किं करोम्यहमार्याणां निःशङ्कं वदतानघाः । तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत् ॥KUMB: १-१६९-१६॥
त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि । ज्येष्ठः पुत्रोसि पञ्चानां साहाय्यं कुरु पुत्रक ॥KUMB: १-१६९-१७॥
वैशम्पायन उवाच॥KUMB: १-१६९-१८क्ष्॥
पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत् । यथा हि रावणो लोके इन्द्रजिच्च महाबलः । वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु ॥KUMB: १-१६९-१८॥
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः । आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥KUMB: १-१६९-१९॥
स हि सृष्टो भगवता शक्तिहेतोर्महात्मना । वर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः ॥KUMB: १-१६९-२०॥
भीम उवाच॥KUMB: १-१६९-२१क्ष्॥
सह वासो मया जीर्णस्त्वया कमलपालिके । पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा ॥KUMB: १-१६९-२१॥
हिडिम्बोवाच ॥KUMB: १-१६९-२२क्ष्॥
पदा मां संस्मरेः कान्त रिरंसू रहसि प्रभो । तदा तव वशं भूय आगन्तास्म्याशु भारत ॥KUMB: १-१६९-२२॥
इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे । हिडिम्बा समयं स्मृत्वा स्वां गतिं प्रत्यपद्यत ॥KUMB: १-१६९-२३॥
वैशम्पायन उवाच॥KUMB: १-१७०-०क्ष्॥
ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा । पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम् ॥KUMB: १-१७०-१॥
जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः । कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः ॥KUMB: १-१७०-२॥
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः ॥KUMB: १-१७०-३॥
शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च । ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून् । अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥KUMB: १-१७०-४॥
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥KUMB: १-१७०-५॥
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः ॥KUMB: १-१७०-६॥
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः । पथि द्वैपायन सर्वे ददृशुः स्वपितामहम् ॥KUMB: १-१७०-७॥
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥KUMB: १-१७०-८॥
व्यास उवाच॥KUMB: १-१७०-९क्ष्॥
तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः । घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत ॥KUMB: १-१७०-९॥
इदं नगरमभ्याशे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥KUMB: १-१७०-१०॥
वैशम्पायन उवाच॥KUMB: १-१७०-११क्ष्॥
एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान् । एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः ॥KUMB: १-१७०-११॥
श्रीव्यास उवाच॥KUMB: १-१७०-१२क्ष्॥
कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः । सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन ॥KUMB: १-१७०-१२॥
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः । दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम् ॥KUMB: १-१७०-१३॥
तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः ॥KUMB: १-१७०-१४॥
वैशम्पायन उवाच । एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने ॥KUMB: १-१७०-१४क्ष्॥
जगाम भगवान्व्यासो यताकाममृषिः प्रभुः ॥KUMB: १-१७०-१५॥
सभीम उवाच॥
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥BORI: ०१-१४३-१॥
युधिष्ठिर उवाच॥
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥BORI: ०१-१४३-२॥
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥BORI: ०१-१४३-३॥
वैशम्पायन उवाच॥
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥BORI: ०१-१४३-४॥
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥BORI: ०१-१४३-५॥
सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥BORI: ०१-१४३-६॥
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥BORI: ०१-१४३-७॥
वरेणापि तथानेन त्वया चापि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥BORI: ०१-१४३-८॥
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा । भर्त्रानेन महाभागे संयोजय सुतेन ते ॥BORI: ०१-१४३-९॥
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥BORI: ०१-१४३-१०॥
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥BORI: ०१-१४३-११॥
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥BORI: ०१-१४३-१२॥
आपदस्तरणे प्राणान्धारयेद्येन येन हि । सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥BORI: ०१-१४३-१३॥
आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः । व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥BORI: ०१-१४३-१४॥
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते । येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥BORI: ०१-१४३-१५॥
युधिष्ठिर उवाच॥
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः । स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥BORI: ०१-१४३-१६॥
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥BORI: ०१-१४३-१७॥
अहःसु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥BORI: ०१-१४३-१८॥
वैशम्पायन उवाच॥
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥BORI: ०१-१४३-१९॥
शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥BORI: ०१-१४३-२०॥
कृत्वा च परमं रूपं सर्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥BORI: ०१-१४३-२१॥
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥BORI: ०१-१४३-२२॥
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥BORI: ०१-१४३-२३॥
सगरस्य प्रदेशेषु मणिहेमचितेषु च । पत्तनेषु च रम्येषु महाशालवनेषु च ॥BORI: ०१-१४३-२४॥
देवारण्येषु पुण्येषु तथा पर्वतसानुषु । गुह्यकानां निवासेषु तापसायतनेषु च ॥BORI: ०१-१४३-२५॥
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥BORI: ०१-१४३-२६॥
रमयन्ती तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥BORI: ०१-१४३-२७॥
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥BORI: ०१-१४३-२८॥
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् । महाजवं महाकायं महामायमरिंदमम् ॥BORI: ०१-१४३-२९॥
अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥BORI: ०१-१४३-३०॥
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते । सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥BORI: ०१-१४३-३१॥
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥BORI: ०१-१४३-३२॥
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥BORI: ०१-१४३-३३॥
घटभासोत्कच इति मातरं सोऽभ्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥BORI: ०१-१४३-३४॥
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥BORI: ०१-१४३-३५॥
संवाससमयो जीर्ण इत्यभाषत तं ततः । हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥BORI: ०१-१४३-३६॥
कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः । आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥BORI: ०१-१४३-३७॥
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना । कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥BORI: ०१-१४३-३८॥
वैशम्पायन उवाच॥
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् । अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥BORI: ०१-१४४-१॥
मत्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥BORI: ०१-१४४-२॥
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः । सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥BORI: ०१-१४४-३॥
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥BORI: ०१-१४४-४॥
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥BORI: ०१-१४४-५॥
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥BORI: ०१-१४४-६॥
व्यास उवाच॥
मयेदं मनसा पूर्वं विदितं भरतर्षभाः । यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥BORI: ०१-१४४-७॥
तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् । न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥BORI: ०१-१४४-८॥
समास्ते चैव मे सर्वे यूयं चैव न संशयः । दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥BORI: ०१-१४४-९॥
तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् । स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥BORI: ०१-१४४-१०॥
इदं नगरमभ्याशे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥BORI: ०१-१४४-११॥
वैशम्पायन उवाच॥
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् । एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥BORI: ०१-१४४-१२॥
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः । पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥BORI: ०१-१४४-१३॥
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी । भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ॥BORI: ०१-१४४-१४॥
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः । स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥BORI: ०१-१४४-१५॥
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥BORI: ०१-१४४-१६॥
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥BORI: ०१-१४४-१७॥
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने । अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥BORI: ०१-१४४-१८॥
इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः । देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ॥BORI: ०१-१४४-१९॥
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप । जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥BORI: ०१-१४४-२०॥