01.004
Library:The assembled along with Ugrashrava wait for Kulapati Shounaka.
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥००१॥
पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच । किं भवन्तः श्रोतुमिच्छन्ति । किमहं ब्रुवाणीति ॥००२॥
तमृषय ऊचुः ।
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् । तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते ॥००३॥
योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः । मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥४॥
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः । दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥५॥
सत्यवादी शमपरस्तपस्वी नियतव्रतः । सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥६॥
तस्मिन्नध्यासति गुरावासनं परमार्चितम् । ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥७॥
सूत उवाच।
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि । तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥८॥
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् । देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ॥९॥
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः । यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ॥१०॥
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः । उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥११॥