01.004
Core : The narrative returns to the Naimiṣāraṇya frame. Ugraśravas Sauti is formally invited to narrate after Śaunaka completes his ritual duties, establishing the setting for the forthcoming discourse.
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥००१॥
पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच । किं भवन्तः श्रोतुमिच्छन्ति । किमहं ब्रुवाणीति ॥००२॥
तमृषय ऊचुः ।
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् । तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते ॥००३॥
योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः । मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥४॥
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः । दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥५॥
सत्यवादी शमपरस्तपस्वी नियतव्रतः । सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥६॥
तस्मिन्नध्यासति गुरावासनं परमार्चितम् । ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥७॥
सूत उवाच।
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि । तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥८॥
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् । देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ॥९॥
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः । यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ॥१०॥
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः । उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥११॥