Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.005
Pancharatre Extention: Śaunaka requests the Bhārgava genealogy. Sauti begins the genealogy and introduces the embedded narrative explaining the birth of Cyavana through the story of Bhṛgu, Pulomā and the demon Puloma.
शौनक उवाच॥
पुराणमखिलं तात पिता तेऽधीतवान्पुरा । कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥१-००५-१॥
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् । कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥१-००५-२॥
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् । कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥१-००५-३॥
सूत उवाच॥
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः । वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥१-००५-४॥
यदधीतं च पित्रा मे सम्यक्चैव ततो मया । तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ॥१-००५-५॥
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥१-००५-५॥
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने । निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥१-००५-६॥
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः । च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ॥१-००५-७॥
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥१-००५-७॥
रुरोरपि सुतो जज्ञे शुनको वेदपारगः । प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥१-००५-८॥
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः । धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥१-००५-९॥
शौनक उवाच॥
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः । च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥१-००५-१०॥
सूत उवाच॥
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता । तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥१-००५-११॥
तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह । समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१-००५-१२॥
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे । आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥१-००५-१३॥
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् । हृच्छयेन समाविष्टो विचेताः समपद्यत ॥१-००५-१४॥
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना । न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१-००५-१५॥
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् । दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥१-००५-१६॥
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् । तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥१-००५-१७॥
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै । सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥१-००५-१८॥
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी । पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥१-००५-१९॥
सेयं यदि वरारोहा भृगोर्भार्या रहोगता । तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥१-००५-२०॥
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति । मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥१-००५-२१॥
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् । शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥१-००५-२२॥
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा । साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥१-००५-२३॥
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा । सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥१-००५-२४॥
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् । जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥१-००५-२५॥
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् । भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥१-००५-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.