Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.009
Library:Ruru gives half his life and revives Pramvara, with hatred strikes unharmful snake (Dundubha).
सूत उवाच॥
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः । रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥१-००९-१॥
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु । अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥१-००९-२॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी । बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥१-००९-३॥
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि । सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ॥१-००९-४॥
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः । प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥१-००९-५॥
देवदूत उवाच॥
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा । न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥१-००९-६॥
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता । तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ॥१-००९-७॥
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः । तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥१-००९-८॥
रुरुरुवाच॥
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर । करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥१-००९-९॥
देवदूत उवाच॥
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन । एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥१-००९-१०॥
रुरुरुवाच॥
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम । शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥१-००९-११॥
सूत उवाच॥
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ । धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥१-००९-१२॥
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा । समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥१-००९-१३॥
धर्मराज उवाच॥
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि । उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥१-००९-१४॥
सूत उवाच॥
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा । रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥१-००९-१५॥
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः । आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥१-००९-१६॥
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा । विवाहं तौ च रेमाते परस्परहितैषिणौ ॥१-००९-१७॥
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् । व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥१-००९-१८॥
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः । अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥१-००९-१९॥
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् । शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥१-००९-२०॥
तत उद्यम्य दण्डं स कालदण्डोपमं तदा । अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥१-००९-२१॥
नापराध्यामि ते किञ्चिदहमद्य तपोधन । संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ॥१-००९-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.