01.008
Library:Pramadvara is engaged to Ruru but dies due to snake bite.
सूत उवाच॥
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥१-००८-१॥
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥१-००८-२॥
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥१-००८-३॥
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥१-००८-४॥
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥१-००८-५॥
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन । उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥१-००८-६॥
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥१-००८-७॥
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः । स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥१-००८-८॥
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ॥ ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥१-००८-९॥
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता । ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥१-००८-१०॥
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥१-००८-११॥
पितरं सखिभिः सोऽथ वाचयामास भार्गवः । प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥१-००८-१२॥
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥१-००८-१३॥
ततः कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥१-००८-१४॥
नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् । पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥१-००८-१५॥
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा । विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥१-००८-१६॥
सा दष्टा सहसा भूमौ पतिता गतचेतना । व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥१-००८-१७॥
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । भूयो मनोहरतरा बभूव तनुमध्यमा ॥१-००८-१८॥
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥१-००८-१९॥
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥१-००८-२०॥
भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः । प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥१-००८-२१॥
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥१-००८-२२॥