Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.013
Library:How Jaratkaru marries Jaratkaru to prevent Yayavaras, the ancestors from falling down!
शौनक उवाच॥
किमर्थं राजशार्दूलः स राजा जनमेजयः । सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥१-१३-१॥
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः । मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥१-१३-२॥
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् । स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥१-१३-३॥
सूत उवाच॥
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज । सर्वमेतदशेषेण शृणु मे वदतां वर ॥१-१३-४॥
शौनक उवाच॥
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् । आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥१-१३-५॥
सूत उवाच॥
इतिहासमिमं वृद्धाः पुराणं परिचक्षते । कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ॥१-१३-६॥
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः । शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥१-१३-७॥
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् । इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ॥१-१३-८॥
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः । ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥१-१३-९॥
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः । यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥१-१३-१०॥
अटमानः कदाचित्स स्वान्ददर्श पितामहान् । लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ॥१-१३-११॥
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् । के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ॥१-१३-१२॥
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते । मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥१-१३-१३॥
पितर ऊचुः॥
यायावरा नाम वयमृषयः संशितव्रताः । सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥१-१३-१४॥
अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः । मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ॥१-१३-१५॥
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति । तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ॥१-१३-१६॥
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा । कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥१-१३-१७॥
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः । किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥१-१३-१८॥
जरत्कारुरुवाच॥
मम पूर्वे भवन्तो वै पितरः सपितामहाः । ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥१-१३-१९॥
पितर ऊचुः॥
यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः । आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥१-१३-२०॥
न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः । तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥१-१३-२१॥
तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु । पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥१-१३-२२॥
जरत्कारुरुवाच॥
न दारान्वै करिष्यामि सदा मे भावितं मनः । भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ॥१-१३-२३॥
समयेन च कर्ताहमनेन विधिपूर्वकम् । तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥१-१३-२४॥
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः । भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥१-१३-२५॥
दरिद्राय हि मे भार्यां को दास्यति विशेषतः । प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥१-१३-२६॥
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः । अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥१-१३-२७॥
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥१-१३-२८॥
सूत उवाच॥
ततो निवेशाय तदा स विप्रः संशितव्रतः । महीं चचार दारार्थी न च दारानविन्दत ॥१-१३-२९॥
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् । चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥१-१३-३०॥
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा । न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥१-१३-३१॥
सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि । मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥१-१३-३२॥
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः । किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ॥१-१३-३३॥
वासुकिरुवाच॥
जरत्कारो जरत्कारुः स्वसेयमनुजा मम । त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥१-१३-३४॥
सूत उवाच॥
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर । जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥१-१३-३५॥
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः । स्वसारमृषये तस्मै सुव्रताय तपस्विने ॥१-१३-३६॥
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा । आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥१-१३-३७॥
तपस्वी च महात्मा च वेदवेदाङ्गपारगः । समः सर्वस्य लोकस्य पितृमातृभयापहः ॥१-१३-३८॥
अथ कालस्य महतः पाण्डवेयो नराधिपः । आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥१-१३-३९॥
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै । मोचयामास तं शापमास्तीकः सुमहायशाः ॥१-१३-४०॥
नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् । पितृंश्च तारयामास सन्तत्या तपसा तथा ॥ व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥१-१३-४१॥
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः । ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ॥१-१३-४२॥
अपहृत्य गुरुं भारं पितृणां संशितव्रतः । जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥१-१३-४३॥
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः । जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥१-१३-४४॥
एतदाख्यानमास्तीकं यथावत्कीर्तितं मया । प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥१-१३-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.