Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.018
Library:Kadru and Vinita bet on the colour of Ucchaihshrava tail. Kadru makes a plan to deceive Vinita.
सूत उवाच॥
एतत्ते सर्वमाख्यातममृतं मथितं यथा। यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥१-१८-१॥
यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्। उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ॥१-१८-२॥
विनतोवाच॥
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे। ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥१-१८-३॥
कद्रूरुवाच॥
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते। एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥१-१८-४॥
सूत उवाच॥
एवं ते समयं कृत्वा दासीभावाय वै मिथः। जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥१-१८-५॥
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती। आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ॥१-१८-६॥
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ॥१-१८-७॥
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति। जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥१-१८-८॥
शापमेनं तु शुश्राव स्वयमेव पितामहः। अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ॥१-१८-९॥
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत। बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥१-१८-१०॥
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः। तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ॥१-१८-११॥
प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ॥१-१८-११॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.