01.029
Library: Narayana’s boon to Garuda, Indra becomes a friend.
सूत उवाच॥
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः। प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥१-२९-१॥
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके। परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥१-२९-२॥
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्। घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥१-२९-३॥
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः। अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ॥१-२९-४॥
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती। विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ॥१-२९-५॥
चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ। रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ॥१-२९-६॥
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ। तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥१-२९-७॥
तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत्। अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ॥१-२९-८॥
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः। आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥१-२९-९॥
समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली। उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥१-२९-१०॥
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान्। अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ॥१-२९-११॥
विष्णुना तु तदाकाशे वैनतेयः समेयिवान्। तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥१-२९-१२॥
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्। स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥१-२९-१३॥
उवाच चैनं भूयोऽपि नारायणमिदं वचः। अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥१-२९-१४॥
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्। भवतेऽपि वरं दद्मि वृणीतां भगवानपि ॥१-२९-१५॥
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम्। ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ॥१-२९-१६॥
अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत्। विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ॥१-२९-१७॥
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः। प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ॥१-२९-१८॥
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम्। वज्रस्य च करिष्यामि तव चैव शतक्रतो ॥१-२९-१९॥
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे। न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ॥१-२९-२०॥
तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा। सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ॥१-२९-२१॥
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः। खगो महदिदं भूतमिति मत्वाभ्यभाषत ॥१-२९-२२॥
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्। सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥१-२९-२३॥