01.041
Library: Jaratkaru is advised by his ancestors to abandon mindless austerities and to get offspring.
सूत उवाच॥
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः। चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ॥१-४१-१॥
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः। तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥१-४१-२॥
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः। स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ॥१-४१-३॥
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्। तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ॥१-४१-४॥
निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः। उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥१-४१-५॥
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः। दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥१-४१-६॥
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्। तदप्ययं शनैराखुरादत्ते दशनैः शितैः ॥१-४१-७॥
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव। ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ॥१-४१-८॥
ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्। कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥१-४१-९॥
तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः। अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ॥१-४१-१०॥
अथवापि समग्रेण तरन्तु तपसा मम। भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ॥१-४१-११॥
पितर ऊचुः॥
ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति। न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥१-४१-१२॥
अस्ति नस्तात तपसः फलं प्रवदतां वर। सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥१-४१-१३॥
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै। येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥१-४१-१४॥
ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्। शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥१-४१-१५॥
यायावरा नाम वयमृषयः संशितव्रताः। लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ॥१-४१-१६॥
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै। अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ॥१-४१-१७॥
मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले। जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ॥ नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥१-४१-१८॥
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्। न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥१-४१-१९॥
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत्। स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥१-४१-२०॥
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः। साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ॥ कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ॥१-४१-२१॥
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान्। एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ॥१-४१-२२॥
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः। एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥१-४१-२३॥
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्। तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ॥१-४१-२४॥
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः। स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ॥ जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥१-४१-२५॥
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम। छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥ नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ॥१-४१-२६॥
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः। छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ॥१-४१-२७॥
तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत्। तत्सर्वं न समं तात सन्तत्येति सतां मतम् ॥१-४१-२८॥
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम्। यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ॥१-४१-२९॥
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा। तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ॥१-४१-३०॥