01.043
Library: Jaratkaru takes leave of Jaratkaru on a pretext, but promises a great progeny.
सूत उवाच॥
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा। सनामा तव कन्येयं स्वसा मे तपसान्विता ॥१-४३-१॥
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम। रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥१-४३-२॥
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति। जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥१-४३-३॥
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः। जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥१-४३-४॥
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम्। जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥१-४३-५॥
शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम्। तत्र भार्यासहायः स जरत्कारुरुवास ह ॥१-४३-६॥
स तत्र समयं चक्रे भार्यया सह सत्तमः। विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥१-४३-७॥
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे। एतद्गृहाण वचनं मया यत्समुदीरितम् ॥१-४३-८॥
ततः परमसंविग्ना स्वसा नागपतेस्तु सा। अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥१-४३-९॥
तथैव सा च भर्तारं दुःखशीलमुपाचरत्। उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥१-४३-१०॥
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा। भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥१-४३-११॥
तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः। अतीव तपसा युक्तो वैश्वानरसमद्युतिः ॥ शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥१-४३-१२॥
ततः कतिपयाहस्य जरत्कारुर्महातपाः। उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥१-४३-१३॥
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्। अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ॥ वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥१-४३-१४॥
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा। दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥१-४३-१५॥
कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः। धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥१-४३-१६॥
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति। धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥१-४३-१७॥
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा। तमृषिं दीप्ततपसं शयानमनलोपमम् ॥ उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥१-४३-१८॥
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति। सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ॥१-४३-१९॥
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः। सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥१-४३-२०॥
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः। भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ॥१-४३-२१॥
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे। समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥१-४३-२२॥
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः। अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥१-४३-२३॥
न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित्। किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥१-४३-२४॥
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्। अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ॥१-४३-२५॥
नावमानात्कृतवती तवाहं प्रतिबोधनम्। धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥१-४३-२६॥
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः। ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ॥१-४३-२७॥
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे। समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ॥१-४३-२८॥
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे। इतो मयि गते भीरु गतः स भगवानिति ॥ त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥१-४३-२९॥
इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा। जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥१-४३-३०॥
बाष्पगद्गदया वाचा मुखेन परिशुष्यता। कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ॥ धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ॥१-४३-३१॥
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्। धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ॥१-४३-३२॥
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम। तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ॥१-४३-३३॥
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम। अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ॥१-४३-३४॥
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्। सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥१-४३-३५॥
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये। इममव्यक्तरूपं मे गर्भमाधाय सत्तम ॥ कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥१-४३-३६॥
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्। यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥१-४३-३७॥
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः। ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥१-४३-३८॥
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः। उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥१-४३-३९॥