Mahabharata (महाभारत)
01.061
Background deities and demons for each of the characters in the Mahabharata war.
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजयः (janamejayaḥ) - Janamejaya; उवाच (uvāca) - said.]
Janamejaya said:
देवानां दानवानां च यक्षाणामथ रक्षसाम्। अन्येषां चैव भूतानां सर्वेषां भगवन्नहम्॥१॥
devānāṁ dānavānāṁ ca yakṣāṇāmatha rakṣasām। anyeṣāṁ caiva bhūtānāṁ sarveṣāṁ bhagavannaham॥1॥
[देवानाम् (devānām) - of the gods; दानवानाम् (dānavānām) - of the demons; च (ca) - and; यक्षाणाम् (yakṣāṇām) - of the yakṣas; अथ (atha) - and; रक्षसाम् (rakṣasām) - of the rākṣasas; अन्येषाम् (anyeṣām) - of the others; च (ca) - and; एव (eva) - indeed; भूतानाम् (bhūtānām) - of beings; सर्वेषाम् (sarveṣām) - of all; भगवन् (bhagavan) - O venerable one; अहम् (aham) - I.]
O venerable one, I wish to hear about all the gods, demons, yakṣas, rākṣasas, and other beings.
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्। जन्म कर्म च भूतानामेतेषामनुपूर्वशः॥२॥
śrotumicchāmi tattvena mānuṣeṣu mahātmanām। janma karma ca bhūtānāmeteṣāmanupūrvaśaḥ॥2॥
[श्रोतुम् (śrotum) - to hear; इच्छामि (icchāmi) - I desire; तत्त्वेन (tattvena) - in truth; मानुषेषु (mānuṣeṣu) - among men; महात्मनाम् (mahātmanām) - of great souls; जन्म (janma) - birth; कर्म (karma) - deeds; च (ca) - and; भूतानाम् (bhūtānām) - of these beings; एतेषाम् (eteṣām) - of these; अनुपूर्वशः (anupūrvaśaḥ) - in order.]
I wish to hear truly about the birth and deeds of these great souls among men, in their proper order.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said.]
Vaiśampāyana said:
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः। प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः॥३॥
mānuṣeṣu manuṣyendra sambhūtā ye divaukasaḥ। prathamaṁ dānavāṁścaiva tāṁste vakṣyāmi sarvaśaḥ॥3॥
[मानुषेषु (mānuṣeṣu) - among men; मनुष्येन्द्र (manuṣyendra) - O king of men; सम्भूताः (sambhūtāḥ) - born; ये (ye) - who; दिवौकसः (divaukasaḥ) - celestial beings; प्रथमम् (prathamam) - first; दानवान् (dānavān) - demons; च (ca) - and; एव (eva) - indeed; तान् (tān) - them; ते (te) - to you; वक्ष्यामि (vakṣyāmi) - I shall declare; सर्वशः (sarvaśaḥ) - completely.]
O king of men, I shall first tell you completely about the celestial beings who were born among men, beginning with the demons.
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः। जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः॥४॥
vipracittiriti khyāto ya āsīddānavarṣabhaḥ। jarāsandha iti khyātaḥ sa āsīnmanujarṣabhaḥ॥4॥
[विप्रचित्तिः (vipracittiḥ) - Vipracitti; इति (iti) - thus; ख्यातः (khyātaḥ) - was known; यः (yaḥ) - who; आसीत् (āsīt) - was; दानवर्षभः (dānavarṣabhaḥ) - foremost among demons; जरासन्धः (jarāsandhaḥ) - Jarāsandha; इति (iti) - thus; ख्यातः (khyātaḥ) - known; सः (saḥ) - he; आसीत् (āsīt) - was; मनुजर्षभः (manujarṣabhaḥ) - foremost among men.]
The demon Vipracitti, known as the foremost among the Dānavas, was reborn as the foremost of men known as Jarāsandha.
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः। स जज्ञे मानुषे लोके शिशुपालो नरर्षभः॥५॥
diteḥ putrastu yo rājanhiraṇyakaśipuḥ smṛtaḥ। sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ॥5॥
[दितेः (diteḥ) - of Diti; पुत्रः (putraḥ) - son; तु (tu) - indeed; यः (yaḥ) - who; राजन् (rājan) - O king; हिरण्यकशिपुः (hiraṇyakaśipuḥ) - Hiraṇyakaśipu; स्मृतः (smṛtaḥ) - is remembered; सः (saḥ) - he; जज्ञे (jajñe) - was born; मानुषे (mānuṣe) - in human; लोके (loke) - world; शिशुपालः (śiśupālaḥ) - Śiśupāla; नरर्षभः (nararṣabhaḥ) - foremost among men.]
O king, the son of Diti, remembered as Hiraṇyakaśipu, was born in the human world as Śiśupāla, the foremost among men.
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः। स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः॥६॥
saṁhrāda iti vikhyātaḥ prahrādasya anujastu yaḥ। sa śalya iti vikhyāto jajñe bāhlīkapuṅgavaḥ॥6॥
[संह्रादः (saṁhrādaḥ) - Saṁhrāda; इति (iti) - thus; विख्यातः (vikhyātaḥ) - renowned; प्रह्रादस्य (prahrādasya) - of Prahlāda; अनुजः (anujaḥ) - younger brother; तु (tu) - indeed; यः (yaḥ) - who; सः (saḥ) - he; शल्यः (śalyaḥ) - Śalya; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; जज्ञे (jajñe) - was born; बाह्लीकपुङ्गवः (bāhlīkapuṅgavaḥ) - foremost of the Bāhlīkas.]
The one known as Saṁhrāda, the younger brother of Prahlāda, was born as Śalya, the foremost among the Bāhlīkas.
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः। धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः॥७॥
anuhṛdastu tejasvī yo'bhūtkhyāto jaghanyajaḥ। dhṛṣṭaketuriti khyātaḥ sa āsīnmanujeśvaraḥ॥7॥
[अनुह्रादः (anuhṛdaḥ) - Anuhrāda; तु (tu) - indeed; तेजस्वी (tejasvī) - powerful; यः (yaḥ) - who; अभूत् (abhūt) - was; ख्यातः (khyātaḥ) - known; जघन्यजः (jaghanyajaḥ) - youngest son; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhṛṣṭaketu; इति (iti) - thus; ख्यातः (khyātaḥ) - known; सः (saḥ) - he; आसीत् (āsīt) - was; मनुजेश्वरः (manujeśvaraḥ) - king among men.]
The powerful Anuhrāda, the youngest brother, was born as the king among men known as Dhṛṣṭaketu.
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः॥८॥
yastu rājañśibirnāma daiteyaḥ parikīrtitaḥ। druma ityabhivikhyātaḥ sa āsīdbhuvi pārthivaḥ॥8॥
[यः (yaḥ) - who; तु (tu) - indeed; राजन् (rājan) - O king; शिबिः (śibiḥ) - Śibi; नाम (nāma) - by name; दैते्यः (daiteyaḥ) - Daitya; परिकीर्तितः (parikīrtitaḥ) - renowned; द्रुमः (drumaḥ) - Druma; इति (iti) - thus; अभिविख्यातः (abhivikhyātaḥ) - widely known; सः (saḥ) - he; आसीत् (āsīt) - was; भुवि (bhuvi) - on earth; पार्थिवः (pārthivaḥ) - king.]
O king, the Daitya named Śibi, widely renowned, was born on earth as the king known as Druma.
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः। भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः॥९॥
bāṣkalo nāma yasteṣāmāsīdasurasattamaḥ। bhagadatta iti khyātaḥ sa āsīnmanujeśvaraḥ॥9॥
[बाष्कलः (bāṣkalaḥ) - Bāṣkala; नाम (nāma) - by name; यः (yaḥ) - who; तेषाम् (teṣām) - among them; आसीत् (āsīt) - was; असुरसत्तमः (asurasattamaḥ) - excellent among Asuras; भगदत्तः (bhagadattaḥ) - Bhagadatta; इति (iti) - thus; ख्यातः (khyātaḥ) - known; सः (saḥ) - he; आसीत् (āsīt) - was; मनुजेश्वरः (manujeśvaraḥ) - king among men.]
The excellent Asura named Bāṣkala was born as Bhagadatta, a great king among men.
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्। तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः॥१०॥
ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān। tathā gaganamūrdhā ca vegavāṁścātra pañcamaḥ॥10॥
[अयःशिरा (ayaḥśirā) - Ayaḥśirā; अश्वशिरा (aśvaśirā) - Aśvaśirā; अयःशङ्कुः (ayaḥśaṅkuḥ) - Ayaḥśaṅku; च (ca) - and; वीर्यवान् (vīryavān) - powerful; तथा (tathā) - likewise; गगनमूर्धा (gaganamūrdhā) - Gaganamūrdhā; च (ca) - and; वेगवान् (vegavān) - Vegavān; च (ca) - and; अत्र (atra) - here; पञ्चमः (pañcamaḥ) - the fifth.]
Ayaḥśirā, Aśvaśirā, the mighty Ayaḥśaṅku, as well as Gaganamūrdhā, and Vegavān—these five are mentioned here.
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः। केकयेषु महात्मानः पार्थिवर्षभसत्तमाः॥११॥
pañcaite jajñire rājanvīryavanto mahāsurāḥ। kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ॥11॥
[पञ्च (pañca) - five; एते (ete) - these; जज्ञिरे (jajñire) - were born; राजन् (rājan) - O king; वीर्यवन्तः (vīryavantaḥ) - mighty; महासुराः (mahāsurāḥ) - great Asuras; केकयेषु (kekayeṣu) - among the Kekayas; महात्मानः (mahātmānaḥ) - noble souls; पार्थिवर्षभसत्तमाः (pārthivarṣabhasattamāḥ) - best of royal bulls.]
O king, these five great and mighty Asuras were born among the Kekayas as noble souls and the foremost of royal princes.
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान्। अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१२॥
ketumāniti vikhyāto yastato'nyaḥ pratāpavān। amitaujā iti khyātaḥ pṛthivyāṁ so'bhavannṛpaḥ॥12॥
[केतुमान् (ketumān) - Ketumān; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; यः (yaḥ) - who; ततः (tataḥ) - then; अन्यः (anyaḥ) - another; प्रतापवान् (pratāpavān) - glorious; अमितौजाः (amitaujāḥ) - Amitaujā; इति (iti) - thus; ख्यातः (khyātaḥ) - known; पृथिव्याम् (pṛthivyām) - on earth; सः (saḥ) - he; अभवत् (abhavat) - became; नृपः (nṛpaḥ) - king.]
The one known as Ketumān, then another glorious being was born on earth as the king renowned as Amitaujā.
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः। उग्रसेन इति ख्यात उग्रकर्मा नराधिपः॥१३॥
svarbhānuriti vikhyātaḥ śrīmānyastu mahāsuraḥ। ugrasena iti khyāta ugrakarmā narādhipaḥ॥13॥
[स्वर्भानुः (svarbhānuḥ) - Svarbhānu; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; श्रीमान् (śrīmān) - glorious; यः (yaḥ) - who; तु (tu) - indeed; महासुरः (mahāsuraḥ) - great Asura; उग्रसेनः (ugrasenaḥ) - Ugrasena; इति (iti) - thus; ख्यातः (khyātaḥ) - known; उग्रकर्मा (ugrakarmā) - fierce in deeds; नराधिपः (narādhipaḥ) - lord of men.]
The glorious and great Asura known as Svarbhānu was born as Ugrasena, the fierce-acting king of men.
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः। अशोको नाम राजासीन्महावीर्यपराक्रमः॥१४॥
yastvaśva iti vikhyātaḥ śrīmānāsīnmahāsuraḥ। aśoko nāma rājāsīnmahāvīryaparākramaḥ॥14॥
[यः (yaḥ) - who; तु (tu) - indeed; अश्वः (aśvaḥ) - Aśva; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; श्रीमान् (śrīmān) - glorious; आसीत् (āsīt) - was; महासुरः (mahāsuraḥ) - great Asura; अशोकः (aśokaḥ) - Aśoka; नाम (nāma) - by name; राजा (rājā) - king; आसीत् (āsīt) - was; महावीर्यपराक्रमः (mahāvīryaparākramaḥ) - of great strength and valor.]
The glorious great Asura known as Aśva was born as King Aśoka, mighty in strength and valor.
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः। दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः॥१५॥
tasmādavarajo yastu rājannaśvapatiḥ smṛtaḥ। daiteyaḥ so'bhavad rājā hārdikyo manujarṣabhaḥ॥15॥
[तस्मात् (tasmāt) - from him; अवरजः (avarajaḥ) - younger brother; यः (yaḥ) - who; तु (tu) - indeed; राजन् (rājan) - O king; अश्वपतिः (aśvapatiḥ) - Aśvapati; स्मृतः (smṛtaḥ) - remembered; दैते्यः (daiteyaḥ) - Daitya; सः (saḥ) - he; अभवत् (abhavat) - became; राजा (rājā) - king; हार्दिक्यः (hārdikyaḥ) - Hārdikya; मनुजर्षभः (manujarṣabhaḥ) - bull among men.]
O king, his younger brother, known as Aśvapati, a Daitya, was born as King Hārdikya, the foremost among men.
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः। दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१६॥
vṛṣaparveti vikhyātaḥ śrīmānyastu mahāsuraḥ। dīrghaprajña iti khyātaḥ pṛthivyāṁ so'bhavannṛpaḥ॥16॥
[वृषपर्वा (vṛṣaparvā) - Vṛṣaparvan; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; श्रीमान् (śrīmān) - glorious; यः (yaḥ) - who; तु (tu) - indeed; महासुरः (mahāsuraḥ) - great Asura; दीर्घप्रज्ञः (dīrghaprajñaḥ) - Dīrghaprajña; इति (iti) - thus; ख्यातः (khyātaḥ) - known; पृथिव्याम् (pṛthivyām) - on earth; सः (saḥ) - he; अभवत् (abhavat) - became; नृपः (nṛpaḥ) - king.]
The great Asura known as Vṛṣaparvan, glorious indeed, was born on earth as the king named Dīrghaprajña.
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः। स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः॥१७॥
ajakastvanujo rājanya āsīd vṛṣaparvaṇaḥ। sa malla iti vikhyātaḥ pṛthivyām abhavannṛpaḥ॥17॥
[अजकः (ajakaḥ) - Ajaka; तु (tu) - indeed; अनुजः (anujaḥ) - younger brother; राजन् (rājan) - O king; यः (yaḥ) - who; आसीत् (āsīt) - was; वृषपर्वणः (vṛṣaparvaṇaḥ) - of Vṛṣaparvan; सः (saḥ) - he; मल्लः (mallaḥ) - Malla; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; पृथिव्याम् (pṛthivyām) - on earth; अभवत् (abhavat) - became; नृपः (nṛpaḥ) - king.]
Ajaka, the younger brother of Vṛṣaparvan, O king, was born on earth as the king known as Malla.
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः। रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१८॥
aśvagrīva iti khyātaḥ sattvavānyo mahāsuraḥ। rocamāna iti khyātaḥ pṛthivyāṁ so'bhavannṛpaḥ॥18॥
[अश्वग्रीवः (aśvagrīvaḥ) - Aśvagrīva; इति (iti) - thus; ख्यातः (khyātaḥ) - known; सत्त्ववान् (sattvavān) - strong in spirit; यः (yaḥ) - who; महासुरः (mahāsuraḥ) - great Asura; रोचमानः (rocamānaḥ) - Rocamāna; इति (iti) - thus; ख्यातः (khyātaḥ) - known; पृथिव्याम् (pṛthivyām) - on earth; सः (saḥ) - he; अभवत् (abhavat) - became; नृपः (nṛpaḥ) - king.]
The spirited great Asura known as Aśvagrīva was born on earth as the king named Rocamāna.
सूक्ष्मस्तु मतिमान् राजन्कीर्तिमान्यः प्रकीर्तितः। बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः॥१९॥
sūkṣmastu matimān rājan kīrtimānyaḥ prakīrtitaḥ। bṛhanta iti vikhyātaḥ kṣitāvāsītsa pārthivaḥ॥19॥
[सूक्ष्मः (sūkṣmaḥ) - Sūkṣma; तु (tu) - indeed; मतिमान् (matimān) - intelligent; राजन् (rājan) - O king; कीर्तिमान् (kīrtimān) - renowned; यः (yaḥ) - who; प्रकीर्तितः (prakīrtitaḥ) - proclaimed; बृहन्तः (bṛhantaḥ) - Bṛhant; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; क्षितौ (kṣitau) - on earth; आसीत् (āsīt) - was; सः (saḥ) - he; पार्थिवः (pārthivaḥ) - king.]
The wise and renowned Asura named Sūkṣma, O king, was born on earth as the celebrated king named Bṛhant.
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः। सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः॥२०॥
tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ। senābindur iti khyātaḥ sa babhūva narādhipaḥ॥20॥
[तुहुण्डः (tuhuṇḍaḥ) - Tuhuṇḍa; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; यः (yaḥ) - who; आसीत् (āsīt) - was; असुरोत्तमः (asurottamaḥ) - foremost of Asuras; सेनाबिन्दुः (senābinduḥ) - Senābindu; इति (iti) - thus; ख्यातः (khyātaḥ) - known; सः (saḥ) - he; बभूव (babhūva) - became; नराधिपः (narādhipaḥ) - lord of men.]
The foremost of Asuras known as Tuhuṇḍa was born as the lord of men called Senābindu.
इसृपा नाम यस्तेषामसुराणां बलाधिकः। पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः॥२१॥
isṛpā nāma yasteṣām asurāṇāṁ balādhikaḥ। pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ॥21॥
[इसृपाः (isṛpāḥ) - Isṛpā; नाम (nāma) - by name; यः (yaḥ) - who; तेषाम् (teṣām) - among them; असुराणाम् (asurāṇām) - of the Asuras; बलाधिकः (balādhikaḥ) - exceedingly strong; पापजित् (pāpajit) - Pāpajit; नाम (nāma) - named; राजा (rājā) - king; आसीत् (āsīt) - was; भुवि (bhuvi) - on earth; विख्यातविक्रमः (vikhyātavikramaḥ) - famed for valor.]
The exceedingly strong Asura named Isṛpā was born on earth as the king Pāpajit, famed for his valor.
एकचक्र इति ख्यात आसीद्यस्तु महासुरः। प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ॥२२॥
ekacakra iti khyāta āsīd yastu mahāsuraḥ। prativindhya iti khyāto babhūva prathitaḥ kṣitau॥22॥
[एकचक्रः (ekacakraḥ) - Ekacakra; इति (iti) - thus; ख्यातः (khyātaḥ) - known; आसीत् (āsīt) - was; यः (yaḥ) - who; तु (tu) - indeed; महासुरः (mahāsuraḥ) - great Asura; प्रतिविन्ध्यः (prativindhyaḥ) - Prativindhya; इति (iti) - thus; ख्यातः (khyātaḥ) - known; बभूव (babhūva) - became; प्रथितः (prathitaḥ) - celebrated; क्षितौ (kṣitau) - on earth.]
The great Asura known as Ekacakra was born on earth as the celebrated king Prativindhya.
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः। चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः॥२३॥
virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ। citravarme ti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ॥23॥
[विरूपाक्षः (virūpākṣaḥ) - Virūpākṣa; तु (tu) - indeed; दैतेयः (daiteyaḥ) - Daitya; चित्रयोधी (citrayodhī) - skilled warrior; महासुरः (mahāsuraḥ) - great Asura; चित्रवर्मा (citravarmā) - Citravarmā; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; क्षितौ (kṣitau) - on earth; आसीत् (āsīt) - was; सः (saḥ) - he; पार्थिवः (pārthivaḥ) - king.]
The Daitya Virūpākṣa, a skilled and mighty warrior, was born on earth as the king known as Citravarmā.
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः। सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः॥२४॥
haras tu ari-haro vīra āsīd yo dānavottamaḥ। suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ॥24॥
[हरः (haraḥ) - Hara; तु (tu) - indeed; अरिहरः (ari-haraḥ) - destroyer of enemies; वीरः (vīraḥ) - hero; आसीत् (āsīt) - was; यः (yaḥ) - who; दानवोत्तमः (dānavottamaḥ) - best among Dānavas; सुवास्तुः (suvāstuḥ) - Suvāstu; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; सः (saḥ) - he; जज्ञे (jajñe) - was born; मनुजर्षभः (manujarṣabhaḥ) - bull among men.]
The heroic enemy-slayer Hara, the best among Dānavas, was born as Suvāstu, the foremost among men.
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः। बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ॥२५॥
aharas tu mahātejāḥ śatrupakṣakṣayaṅkaraḥ। bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau॥25॥
[अहरः (aharaḥ) - Ahara; तु (tu) - indeed; महातेजाः (mahātejāḥ) - of great splendor; शत्रुपक्षक्षयङ्करः (śatrupakṣakṣayaṅkaraḥ) - destroyer of enemy forces; बाह्लीकः (bāhlīkaḥ) - Bāhlīka; नाम (nāma) - named; राजा (rājā) - king; सः (saḥ) - he; बभूव (babhūva) - became; प्रथितः (prathitaḥ) - renowned; क्षितौ (kṣitau) - on earth.]
The mighty and radiant Ahara, destroyer of enemy hosts, was born on earth as the renowned king named Bāhlīka.
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः। मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः॥२६॥
nicandraś candravaktraś ca ya āsīd asurottamaḥ। muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ॥26॥
[निचन्द्रः (nicandraḥ) - Nicandra; चन्द्रवक्त्रः (candravaktraḥ) - Candravaktra; च (ca) - and; यः (yaḥ) - who; आसीत् (āsīt) - was; असुरोत्तमः (asurottamaḥ) - foremost of Asuras; मुञ्जकेशः (muñjakeśaḥ) - Muñjakeśa; इति (iti) - thus; ख्यातः (khyātaḥ) - known; श्रीमान् (śrīmān) - glorious; आसीत् (āsīt) - was; सः (saḥ) - he; पार्थिवः (pārthivaḥ) - king.]
The foremost Asura named Nicandra and Candravaktra was born as the glorious king known as Muñjakeśa.
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत। भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः॥२७॥
nikumbhas tv ajitaḥ saṅkhye mahāmatir ajāyata। bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ॥27॥
[निकुम्भः (nikumbhaḥ) - Nikumbha; तु (tu) - indeed; अजितः (ajitaḥ) - undefeated; सङ्ख्ये (saṅkhye) - in battle; महामतिः (mahāmatiḥ) - of great wisdom; अजायत (ajāyata) - was born; भूमौ (bhūmau) - on earth; भूमिपतिः (bhūmipatiḥ) - ruler of the land; श्रेष्ठः (śreṣṭhaḥ) - foremost; देवाधिपः (devādhipaḥ) - Devādhipa; इति (iti) - thus; स्मृतः (smṛtaḥ) - remembered.]
Nikumbha, undefeated in battle and of great wisdom, was born on earth as the foremost king known as Devādhipa.
शरभो नाम यस्तेषां दैतेयानां महासुरः। पौरवो नाम राजर्षिः स बभूव नरेष्विह॥२८॥
śarabho nāma yasteṣāṁ daiteyānāṁ mahāsuraḥ। pauravo nāma rājarṣiḥ sa babhūva nareṣv iha॥28॥
[शरभः (śarabhaḥ) - Śarabha; नाम (nāma) - by name; यः (yaḥ) - who; तेषाम् (teṣām) - among them; दैतेयानाम् (daiteyānām) - of the Daityas; महासुरः (mahāsuraḥ) - great Asura; पौरवः (pauravaḥ) - Paurava; नाम (nāma) - named; राजर्षिः (rājarṣiḥ) - royal sage; सः (saḥ) - he; बभूव (babhūva) - became; नरेषु (nareṣu) - among men; इह (iha) - here.]
Among the Daityas, the great Asura named Śarabha was born here among men as the royal sage Paurava.
द्वितीयः शलभस्तेषामसुराणां बभूव यः। प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः॥२९॥
dvitīyaḥ śalabhas teṣām asurāṇāṁ babhūva yaḥ। prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ॥29॥
[द्वितीयः (dvitīyaḥ) - the second; शलभः (śalabhaḥ) - Śalabha; तेषाम् (teṣām) - among them; असुराणाम् (asurāṇām) - of the Asuras; बभूव (babhūva) - was; यः (yaḥ) - who; प्रह्रादः (prahrādaḥ) - Prahlāda; नाम (nāma) - named; बाह्लीकः (bāhlīkaḥ) - Bāhlīka; सः (saḥ) - he; बभूव (babhūva) - became; नराधिपः (narādhipaḥ) - king of men.]
The second among those Asuras, Śalabha, was born as the king of men known as Prahlāda, of the Bāhlīkas.
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः। ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः॥३०॥
candras tu ditijaśreṣṭho loke tārādhipopamaḥ। ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ॥30॥
[चन्द्रः (candraḥ) - Candra; तु (tu) - indeed; दितिजश्रेष्ठः (ditijaśreṣṭhaḥ) - best among the sons of Diti; लोके (loke) - in the world; ताराधिपोपमः (tārādhipopamaḥ) - resembling the lord of stars (moon); ऋषिकः (ṛṣikaḥ) - Ṛṣika; नाम (nāma) - named; राजर्षिः (rājarṣiḥ) - royal sage; बभूव (babhūva) - became; नृपसत्तमः (nṛpasattamaḥ) - the best among kings.]
Candra, the foremost among the sons of Diti and like the moon among stars, was born as the royal sage Ṛṣika, the best among kings.
मृतपा इति विख्यातो य आसीदसुरोत्तमः। पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम॥३१॥
mṛtapā iti vikhyāto ya āsīd asurottamaḥ। paścimānūpakaṁ viddhi taṁ nṛpaṁ nṛpasattama॥31॥
[मृतपाः (mṛtapāḥ) - Mṛtapā; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; यः (yaḥ) - who; आसीत् (āsīt) - was; असुरोत्तमः (asurottamaḥ) - foremost among Asuras; पश्चिमानूपकम् (paścimānūpakam) - ruler of the western borderlands; विद्धि (viddhi) - know; तम् (tam) - him; नृपम् (nṛpam) - as king; नृपसत्तम (nṛpasattama) - O best of kings.]
The foremost Asura known as Mṛtapā was born as the king of the western borderlands—know him thus, O best of kings.
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः। द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥३२॥
gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ। drumasena iti khyātaḥ pṛthivyāṁ so'bhavannṛpaḥ॥32॥
[गविष्ठः (gaviṣṭhaḥ) - Gaviṣṭha; तु (tu) - indeed; महातेजाः (mahātejāḥ) - of great splendor; यः (yaḥ) - who; प्रख्यातः (prakhyātaḥ) - renowned; महासुरः (mahāsuraḥ) - great Asura; द्रुमसेनः (drumasenaḥ) - Drumasena; इति (iti) - thus; ख्यातः (khyātaḥ) - known; पृथिव्याम् (pṛthivyām) - on earth; सः (saḥ) - he; अभवत् (abhavat) - became; नृपः (nṛpaḥ) - king.]
The mighty and radiant Asura Gaviṣṭha was born on earth as the renowned king Drumasena.
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः। स विश्व इति विख्यातो बभूव पृथिवीपतिः॥३३॥
mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ। sa viśva iti vikhyāto babhūva pṛthivīpatiḥ॥33॥
[मयूरः (mayūraḥ) - Mayūra; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; श्रीमान् (śrīmān) - glorious; यः (yaḥ) - who; तु (tu) - indeed; महासुरः (mahāsuraḥ) - great Asura; सः (saḥ) - he; विश्वः (viśvaḥ) - Viśva; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; बभूव (babhūva) - became; पृथिवीपतिः (pṛthivīpatiḥ) - ruler of the earth.]
The glorious great Asura Mayūra was born as Viśva, the ruler of the earth.
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः। कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः॥३४॥
suparṇa iti vikhyātaḥ tasmād avarajas tu yaḥ। kālakīrtir iti khyātaḥ pṛthivyāṁ so'bhavan nṛpaḥ॥34॥
[सुपर्णः (suparṇaḥ) - Suparṇa; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; तस्मात् (tasmāt) - from him; अवरजः (avarajaḥ) - younger brother; तु (tu) - indeed; यः (yaḥ) - who; कालकीर्तिः (kālakīrtiḥ) - Kālakīrti; इति (iti) - thus; ख्यातः (khyātaḥ) - known; पृथिव्याम् (pṛthivyām) - on earth; सः (saḥ) - he; अभवत् (abhavat) - became; नृपः (nṛpaḥ) - king.]
The younger brother of Viśva, known as Suparṇa, was born on earth as the king Kālakīrti.
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः। शुनको नाम राजर्षिः स बभूव नराधिपः॥३५॥
candrahanteti yasteṣāṁ kīrtitaḥ pravaro'suraḥ। śunako nāma rājarṣiḥ sa babhūva narādhipaḥ॥35॥
[चन्द्रहन्ता (candrahantā) - Candrahantā; इति (iti) - thus; यः (yaḥ) - who; तेषाम् (teṣām) - among them; कीर्तितः (kīrtitaḥ) - renowned; प्रवरः (pravaraḥ) - eminent; असुरः (asuraḥ) - Asura; शुनकः (śunakaḥ) - Śunaka; नाम (nāma) - named; राजर्षिः (rājarṣiḥ) - royal sage; सः (saḥ) - he; बभूव (babhūva) - became; नराधिपः (narādhipaḥ) - king of men.]
The eminent Asura known as Candrahantā among them was born as the royal sage and king Śunaka.
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः। जानकिर्नाम राजर्षिः स बभूव नराधिपः॥३६॥
vināśanas tu candrasya ya ākhyāto mahāsuraḥ। jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ॥36॥
[विनाशनः (vināśanaḥ) - Vināśana; तु (tu) - indeed; चन्द्रस्य (candrasya) - of Candra; यः (yaḥ) - who; आख्यातः (ākhyātaḥ) - is declared; महासुरः (mahāsuraḥ) - great Asura; जानकिः (jānikiḥ) - Jāniki; नाम (nāma) - named; राजर्षिः (rājarṣiḥ) - royal sage; सः (saḥ) - he; बभूव (babhūva) - became; नराधिपः (narādhipaḥ) - king of men.]
The great Asura known as Vināśana, destroyer of Candra, was born as the royal sage and king named Jāniki.
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः। काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः॥३७॥
dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ। kāśirāja iti khyātaḥ pṛthivyāṁ pṛthivīpatiḥ॥37॥
[दीर्घजिह्वः (dīrghajihvaḥ) - Dīrghajihva; तु (tu) - indeed; कौरव्य (kauravya) - O descendant of Kuru; यः (yaḥ) - who; उक्तः (uktaḥ) - is said; दानवर्षभः (dānavarṣabhaḥ) - the bull among Dānavas; काशिराजः (kāśirājaḥ) - King of Kāśī; इति (iti) - thus; ख्यातः (khyātaḥ) - known; पृथिव्याम् (pṛthivyām) - on earth; पृथिवीपतिः (pṛthivīpatiḥ) - ruler of the earth.]
Dīrghajihva, O Kauravya, the foremost among Dānavas, was born on earth as the ruler known as the King of Kāśī.
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम्। क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः॥३८॥
grahaṁ tu suṣuve yaṁ taṁ siṁhī candrārkamardanam। krātha ity abhivikhyātaḥ so'bhavan manujādhipaḥ॥38॥
[ग्रहम् (graham) - a graha (planet-like being); तु (tu) - indeed; सुषुवे (suṣuve) - gave birth to; यम् (yam) - whom; तम् (tam) - him; सिंही (siṁhī) - Siṁhī (a female lion or a woman named thus); चन्द्रार्कमर्दनम् (candrārkamardanam) - subduer of the moon and sun; क्राथः (krāthaḥ) - Krātha; इति (iti) - thus; अभिविख्यातः (abhivikhyātaḥ) - well known; सः (saḥ) - he; अभवत् (abhavat) - became; मनुजाधिपः (manujādhipaḥ) - lord of men.]
Siṁhī gave birth to a being called a “graha,” the subduer of the moon and sun; he became the renowned ruler of men known as Krātha.
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः। विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः॥३९॥
anāyuṣas tu putrāṇāṁ caturṇāṁ pravaro'suraḥ। vikṣaro nāma tejasvī vasumitro'bhavan nṛpaḥ॥39॥
[अनायुषः (anāyuṣaḥ) - Anāyuṣa; तु (tu) - indeed; पुत्राणाम् (putrāṇām) - among the sons; चतुर्णाम् (caturṇām) - of the four; प्रवरः (pravaraḥ) - the foremost; असुरः (asuraḥ) - Asura; विक्षरः (vikṣaraḥ) - Vikṣara; नाम (nāma) - named; तेजस्वी (tejasvī) - powerful; वसुमित्रः (vasumitro) - Vasumitra; अभवत् (abhavat) - became; नृपः (nṛpaḥ) - king.]
Anāyuṣa, the foremost Asura among four sons, was born as the powerful king named Vasumitra.
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः। पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः॥४०॥
dvitīyo vikṣarād yastu narādhipa mahāsuraḥ। pāṁsurāṣṭrādhipa iti viśrutaḥ so'bhavan nṛpaḥ॥40॥
[द्वितीयः (dvitīyaḥ) - the second; विक्षरात् (vikṣarāt) - from Vikṣara; यः (yaḥ) - who; तु (tu) - indeed; नराधिपः (narādhipaḥ) - lord of men; महासुरः (mahāsuraḥ) - great Asura; पांसुराष्ट्राधिपः (pāṁsurāṣṭrādhipaḥ) - ruler of Pāṁsura kingdom; इति (iti) - thus; विश्रुतः (viśrutaḥ) - famous; सः (saḥ) - he; अभवत् (abhavat) - became; नृपः (nṛpaḥ) - king.]
The second great Asura born from Vikṣara became the renowned king known as the ruler of Pāṁsura kingdom.
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः। पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः॥४१॥
balavīra iti khyāto yastv āsīd asurottamaḥ। pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ॥41॥
[बलवीरः (balavīraḥ) - Balavīra; इति (iti) - thus; ख्यातः (khyātaḥ) - known; यः (yaḥ) - who; तु (tu) - indeed; आसीत् (āsīt) - was; असुरोत्तमः (asurottamaḥ) - foremost among Asuras; पौण्ड्रमत्स्यकः (pauṇḍramatsyakaḥ) - Pauṇḍra-Matsyaka; इति (iti) - thus; एव (eva) - indeed; सः (saḥ) - he; बभूव (babhūva) - became; नराधिपः (narādhipaḥ) - king of men.]
The great Asura known as Balavīra was born as the king called Pauṇḍra-Matsyaka.
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः। मणिमान्नाम राजर्षिः स बभूव नराधिपः॥४२॥
vṛtra ity abhivikhyāto yastu rājan mahāsuraḥ। maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ॥42॥
[वृत्रः (vṛtraḥ) - Vṛtra; इति (iti) - thus; अभिविख्यातः (abhivikhyātaḥ) - well-known; यः (yaḥ) - who; तु (tu) - indeed; राजन् (rājan) - O king; महासुरः (mahāsuraḥ) - great Asura; मणिमान् (maṇimān) - Maṇimān; नाम (nāma) - by name; राजर्षिः (rājarṣiḥ) - royal sage; सः (saḥ) - he; बभूव (babhūva) - became; नराधिपः (narādhipaḥ) - king of men.]
O king, the great Asura Vṛtra, renowned by that name, was born as the royal sage Maṇimān and became a king of men.
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ॥४३॥
krodhahanteti yas tasya babhūvāvarajo'suraḥ। daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau॥43॥
[क्रोधहन्ता (krodhahantā) - Krodhahantā; इति (iti) - thus; यः (yaḥ) - who; तस्य (tasya) - his; बभूव (babhūva) - was; अवरजः (avarajaḥ) - younger brother; असुरः (asuraḥ) - Asura; दण्डः (daṇḍaḥ) - Daṇḍa; इति (iti) - thus; अभिविख्यातः (abhivikhyātaḥ) - well-known; सः (saḥ) - he; आसीत् (āsīt) - was; नृपतिः (nṛpatiḥ) - ruler; क्षितौ (kṣitau) - on earth.]
The younger brother of Vṛtra, the Asura named Krodhahantā, was born on earth as the famous ruler known as Daṇḍa.
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः। दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः॥४४॥
krodhavardhana ityeva yastv anyaḥ parikīrtitaḥ। daṇḍadhāra iti khyātaḥ so'bhavan manujeśvaraḥ॥44॥
[क्रोधवर्धनः (krodhavardhanaḥ) - Krodhavardhana; इति (iti) - thus; एव (eva) - indeed; यः (yaḥ) - who; तु (tu) - indeed; अन्यः (anyaḥ) - another; परिकीर्तितः (parikīrtitaḥ) - is declared; दण्डधारः (daṇḍadhāraḥ) - Daṇḍadhāra; इति (iti) - thus; ख्यातः (khyātaḥ) - known; सः (saḥ) - he; अभवत् (abhavat) - became; मनुजेश्वरः (manujeśvaraḥ) - lord of men.]
Another Asura named Krodhavardhana was born as the lord of men known as Daṇḍadhāra.
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः। जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः॥४५॥
kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ। jajñire rājaśārdūla śārdūlasamavikramāḥ॥45॥
[कालकायाः (kālakāyāḥ) - of Kālakāya; तु (tu) - indeed; ये (ye) - who; पुत्राः (putrāḥ) - sons; तेषाम् (teṣām) - among them; अष्टौ (aṣṭau) - eight; नराधिपाः (narādhipāḥ) - kings; जज्ञिरे (jajñire) - were born; राजशार्दूल (rājaśārdūla) - O tiger among kings; शार्दूलसमविक्रमाः (śārdūlasamavikramāḥ) - equal in valor to tigers.]
O tiger among kings, eight sons of Kālakāya were born as kings, all possessing valor equal to tigers.
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः। अष्टानां प्रवरस्तेषां कालेयानां महासुरः॥४६॥
magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ। aṣṭānāṁ pravaras teṣāṁ kāleyānāṁ mahāsuraḥ॥46॥
[मगधेषु (magadheṣu) - among the Magadhas; जयत्सेनः (jayatsenaḥ) - Jayatsena; श्रीमान् (śrīmān) - glorious; आसीत् (āsīt) - was; सः (saḥ) - he; पार्थिवः (pārthivaḥ) - king; अष्टानाम् (aṣṭānām) - of the eight; प्रवरः (pravaraḥ) - foremost; तेषाम् (teṣām) - among them; कालेयानाम् (kāleyānām) - of the Kāleyas; महासुरः (mahāsuraḥ) - great Asura.]
Among the Magadhas, the glorious king Jayatsena was the foremost of the eight great Kāleya Asuras.
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः। अपराजित इत्येव स बभूव नराधिपः॥४७॥
dvitīyas tu tatas teṣāṁ śrīmān harihayopamaḥ। aparājita ityeva sa babhūva narādhipaḥ॥47॥
[द्वितीयः (dvitīyaḥ) - the second; तु (tu) - indeed; ततः (tataḥ) - among them; तेषाम् (teṣām) - of them; श्रीमान् (śrīmān) - glorious; हरिहयोपमः (harihayopamaḥ) - equal to the mighty Harihaya; अपराजितः (aparājitaḥ) - Aparājita; इति (iti) - thus; एव (eva) - indeed; सः (saḥ) - he; बभूव (babhūva) - became; नराधिपः (narādhipaḥ) - king of men.]
The second among them, glorious and equal to Harihaya in might, became the king of men known as Aparājita.
तृतीयस्तु महाराज महाबाहुर्महासुरः। निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः॥४८॥
tṛtīyas tu mahārāja mahābāhur mahāsuraḥ। niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ॥48॥
[तृतीयः (tṛtīyaḥ) - the third; तु (tu) - indeed; महाराज (mahārāja) - O great king; महाबाहुः (mahābāhuḥ) - mighty-armed; महासुरः (mahāsuraḥ) - great Asura; निषादाधिपतिः (niṣādādhipatiḥ) - lord of the Niṣādas; जज्ञे (jajñe) - was born; भुवि (bhuvi) - on earth; भीमपराक्रमः (bhīmaparākramaḥ) - of terrible prowess.]
O great king, the third mighty-armed great Asura was born on earth as the Niṣāda ruler, of terrible valor.
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः। श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः॥४९॥
teṣām anyatamo yastu caturthaḥ parikīrtitaḥ। śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ॥49॥
[तेषाम् (teṣām) - among them; अन्यतमः (anyatamaḥ) - one; यः (yaḥ) - who; तु (tu) - indeed; चतुर्थः (caturthaḥ) - fourth; परिकीर्तितः (parikīrtitaḥ) - is declared; श्रेणिमान् (śreṇimān) - Śreṇimān; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; क्षितौ (kṣitau) - on earth; राजर्षिसत्तमः (rājarṣisattamaḥ) - the best of royal sages.]
The fourth among them, as declared, was known on earth as Śreṇimān, the best among royal sages.
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः। महौजा इति विख्यातो बभूवेह परन्तपः॥५०॥
pañcamas tu babhūvaiṣāṁ pravaro yo mahāsuraḥ। mahaujā iti vikhyāto babhūva iha parantapaḥ॥50॥
[पञ्चमः (pañcamaḥ) - the fifth; तु (tu) - indeed; बभूव (babhūva) - was; एषाम् (eṣām) - among them; प्रवरः (pravaraḥ) - the foremost; यः (yaḥ) - who; महासुरः (mahāsuraḥ) - great Asura; महौजाः (mahaujāḥ) - Mahaujā; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; बभूव (babhūva) - became; इह (iha) - here; परन्तपः (parantapaḥ) - scorcher of foes.]
The fifth and foremost among them, the great Asura, became the renowned Mahaujā, a scorcher of enemies on earth.
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः। अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः॥५१॥
ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ। abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ॥51॥
[षष्ठः (ṣaṣṭhaḥ) - the sixth; तु (tu) - indeed; मतिमान् (matimān) - intelligent; यः (yaḥ) - who; वै (vai) - truly; तेषाम् (teṣām) - among them; आसीत् (āsīt) - was; महासुरः (mahāsuraḥ) - great Asura; अभीरुः (abhīruḥ) - Abhīru; इति (iti) - thus; विख्यातः (vikhyātaḥ) - known; क्षितौ (kṣitau) - on earth; राजर्षिसत्तमः (rājarṣisattamaḥ) - the best among royal sages.]
The sixth among them, truly intelligent and a great Asura, was born on earth as the royal sage known as Abhīru.
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात्। विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्॥५२॥
samudrasenaś ca nṛpas teṣām evābhavad gaṇāt। viśrutaḥ sāgarāntāyāṁ kṣitau dharmārthatattvavit॥52॥
[समुद्रसेनः (samudrasenaḥ) - Samudrasena; च (ca) - and; नृपः (nṛpaḥ) - king; तेषाम् (teṣām) - among them; एव (eva) - indeed; अभवत् (abhavat) - was; गणात् (gaṇāt) - from the group; विश्रुतः (viśrutaḥ) - famous; सागरान्तायाम् (sāgarāntāyām) - in the coastal region; क्षितौ (kṣitau) - on earth; धर्मार्थतत्त्ववित् (dharmārthatattvavit) - knower of the truth of dharma and artha.]
Among them, Samudrasena became a king from that group—renowned on earth in the coastal regions, and a knower of dharma and artha.
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः। बभूव राजन्धर्मात्मा सर्वभूतहिते रतः॥५३॥
bṛhannāmāṣṭamas teṣāṁ kāleyānāṁ parantapaḥ। babhūva rājan dharmātmā sarvabhūtahite rataḥ॥53॥
[बृहन्नाम (bṛhannāma) - Bṛhannāma; अष्टमः (aṣṭamaḥ) - the eighth; तेषाम् (teṣām) - among them; कालेयानाम् (kāleyānām) - of the Kāleyas; परन्तपः (parantapaḥ) - scorcher of foes; बभूव (babhūva) - was; राजन् (rājan) - O king; धर्मात्मा (dharmātmā) - righteous-souled; सर्वभूतहिते (sarvabhūtahite) - in the welfare of all beings; रतः (rataḥ) - devoted.]
The eighth of the Kāleyas, Bṛhannāma, O king, became a righteous-souled king devoted to the welfare of all beings and a scorcher of foes.
गणः क्रोधवशो नाम यस्ते राजन् प्रकीर्तितः। ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः॥५४॥
gaṇaḥ krodhavaśo nāma yaste rājan prakīrtitaḥ। tataḥ sañjajñire vīrāḥ kṣitāv iha narādhipāḥ॥54॥
[गणः (gaṇaḥ) - the group; क्रोधवशः (krodhavaśaḥ) - Krodhavaśa; नाम (nāma) - by name; यः (yaḥ) - who; ते (te) - among them; राजन् (rājan) - O king; प्रकीर्तितः (prakīrtitaḥ) - is declared; ततः (tataḥ) - from him; सञ्जज्ञिरे (sañjajñire) - were born; वीराः (vīrāḥ) - heroes; क्षितौ (kṣitau) - on earth; इह (iha) - here; नराधिपाः (narādhipāḥ) - kings of men.]
O king, from the group named Krodhavaśa, many heroic kings of men were born here on earth.
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा। सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः॥५५॥
nandikaḥ karṇaveṣṭaś ca siddhārthaḥ kīṭakas tathā। suvīraś ca subāhuś ca mahāvīro'tha bāhlikaḥ॥55॥
[नन्दिकः (nandikaḥ) - Nandika; कर्णवेष्टः (karṇaveṣṭaḥ) - Karṇaveṣṭa; च (ca) - and; सिद्धार्थः (siddhārthaḥ) - Siddhārtha; कीटकः (kīṭakaḥ) - Kīṭaka; तथा (tathā) - likewise; सुवीरः (suvīraḥ) - Suvīra; च (ca) - and; सुबाहुः (subāhuḥ) - Subāhu; च (ca) - and; महावीरः (mahāvīraḥ) - Mahāvīra; अथ (atha) - and; बाह्लिकः (bāhlikaḥ) - Bāhlika.]
Nandika, Karṇaveṣṭa, Siddhārtha, Kīṭaka, Suvīra, Subāhu, Mahāvīra, and Bāhlika—these kings were born from that lineage.
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः । वीरधामा च कौरव्य भूमिपालश्च नामतः ॥५६॥
krodhaḥ vicityaḥ surasaḥ śrīmān nīlaḥ ca bhūmipaḥ। vīradhāmā ca kauravya bhūmipālaḥ ca nāmataḥ॥56॥
[क्रोधः (krodhaḥ) - Krodha; विचित्यः (vicityaḥ) - Vicitya; सुरसः (surasaḥ) - Surasa; श्रीमान् (śrīmān) - glorious; नीलः (nīlaḥ) - Nīla; च (ca) - and; भूमिपः (bhūmipaḥ) - king; वीरधामा (vīradhāmā) - Vīradhāmā; च (ca) - and; कौरव्य (kauravya) - of the Kuru race; भूमिपालः (bhūmipālaḥ) - protector of the earth; च (ca) - and; नामतः (nāmataḥ) - by name.]
Krodha, Vicitya, Surasa, the glorious Nīla and king; Vīradhāmā, O Kaurava, and the ruler of the earth, by name.
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥५७॥
dantavaktraś ca nāmāsīt durjayaś caiva nāmataḥ। rukmī ca nṛpa-śārdūlaḥ rājā ca janamejayaḥ॥57॥
[दन्तवक्त्रः (dantavaktraḥ) - Dantavaktra; च (ca) - and; नाम (nāma) - by name; आसीत् (āsīt) - was; दुर्जयः (durjayaḥ) - Durjaya; च (ca) - and; एव (eva) - indeed; नामतः (nāmataḥ) - by name; रुक्मी (rukmī) - Rukmī; च (ca) - and; नृपशार्दूलः (nṛpa-śārdūlaḥ) - tiger among kings; राजा (rājā) - king; च (ca) - and; जनमेजयः (janamejayaḥ) - Janamejaya.]
Dantavaktra and Durjaya by name, Rukmī the tiger among kings, and King Janamejaya.
आषाढो वायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥५८॥
āṣāḍho vāyu-vegaś ca bhūri-tejāḥ tathā eva ca। ekalavyaḥ sumitraś ca vāṭa-dhānaḥ atha gomukhaḥ॥58॥
[आषाढः (āṣāḍhaḥ) - Āṣāḍha; वायुवेगः (vāyu-vegaḥ) - fast as wind; च (ca) - and; भूरितेजाः (bhūri-tejāḥ) - of great brilliance; तथा (tathā) - likewise; एव (eva) - indeed; च (ca) - and; एकलव्यः (ekalavyaḥ) - Ekalavya; सुमित्रः (sumitraḥ) - Sumitra; च (ca) - and; वाटधानः (vāṭa-dhānaḥ) - keeper of the garden/enclosure; अथ (atha) - and; गोमुखः (gomukhaḥ) - Gomukha.]
Āṣāḍha, swift as the wind, and Bhūritejas of great brilliance; Ekalavya, Sumitra, Vāṭadhāna, and Gomukha.
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥५९॥
kārūṣakāś ca rājānaḥ kṣemadhūrtiḥ tathā eva ca। śrutāyuḥ uddhavaś ca eva bṛhatsenaḥ tathā eva ca॥59॥
[कारूषकाः (kārūṣakāḥ) - kings of the Kāruṣaka land; च (ca) - and; राजानः (rājānaḥ) - kings; क्षेमधूर्तिः (kṣemadhūrtiḥ) - Kṣemadhūrti; तथा (tathā) - likewise; एव (eva) - indeed; च (ca) - and; श्रुतायुः (śrutāyuḥ) - Śrutāyu; उद्धवः (uddhavaḥ) - Uddhava; च (ca) - and; एव (eva) - indeed; बृहत्सेनः (bṛhatsenaḥ) - Bṛhatsena; तथा (tathā) - likewise; एव (eva) - indeed; च (ca) - and.]
The Kāruṣaka kings, Kṣemadhūrti likewise; also Śrutāyu, Uddhava, and Bṛhatsena as well.
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥६०॥
kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ। matimān ca manuṣyendra īśvaraḥ ca iti viśrutaḥ॥60॥
[क्षेमोग्रतीर्थः (kṣemogratīrthaḥ) - Kṣemogratīrtha; कुहरः (kuharaḥ) - Kuhara; कलिङ्गेषु (kaliṅgeṣu) - among the Kaliṅgas; नराधिपः (narādhipaḥ) - king; मतिमान् (matimān) - wise; च (ca) - and; मनुष्येन्द्रः (manuṣyendraḥ) - lord among men; ईश्वरः (īśvaraḥ) - sovereign; च (ca) - and; इति (iti) - thus; विश्रुतः (viśrutaḥ) - renowned.]
Kṣemogratīrtha, Kuhara the king among the Kaliṅgas; the wise one, the lord among men, known as Īśvara, famed thus.
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ । जातः पुरा महाराज महाकीर्तिर्महाबलः ॥६१॥
gaṇāt krodhavaśāt evaṁ rājapūgaḥ abhavat kṣitau। jātaḥ purā mahārāja mahākīrtiḥ mahābalaḥ॥61॥
[गणात् (gaṇāt) - from the clan; क्रोधवशात् (krodhavaśāt) - due to anger; एवं (evaṁ) - thus; राजपूगः (rājapūgaḥ) - royal group; अभवत् (abhavat) - arose; क्षितौ (kṣitau) - on the earth; जातः (jātaḥ) - born; पुरा (purā) - formerly; महाराज (mahārāja) - O great king; महाकीर्तिः (mahākīrtiḥ) - of great fame; महाबलः (mahābalaḥ) - of great strength.]
Thus from the clan, due to anger, a royal group arose on earth; formerly was born a king of great fame and strength, O great king.
यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥६२॥
yaḥ tu āsīt devakaḥ nāma devarāja-sama-dyutiḥ। sa gandharva-patiḥ mukhyaḥ kṣitau jajñe narādhipaḥ॥62॥
[यः (yaḥ) - who; तु (tu) - indeed; आसीत् (āsīt) - was; देवकः (devakaḥ) - Devaka; नाम (nāma) - by name; देवराजसमद्युतिः (devarāja-sama-dyutiḥ) - with brilliance equal to the king of gods; सः (saḥ) - he; गन्धर्वपतिः (gandharva-patiḥ) - lord of Gandharvas; मुख्यः (mukhyaḥ) - chief; क्षितौ (kṣitau) - on earth; जज्ञे (jajñe) - was born; नराधिपः (narādhipaḥ) - as a king.]
He who was named Devaka, radiant like the king of gods, was born on earth as a king — the chief lord of the Gandharvas.
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥६३॥
bṛhaspateḥ bṛhatkīrteḥ devarṣeḥ viddhi bhārata। aṁśāt droṇaṁ samutpannaṁ bhāradvājam ayonijam॥63॥
[बृहस्पतेः (bṛhaspateḥ) - of Bṛhaspati; बृहत्कीर्तेः (bṛhatkīrteḥ) - of Bṛhatkīrti; देवर्षेः (devarṣeḥ) - of the divine sage; विद्धि (viddhi) - know; भारत (bhārata) - O descendant of Bharata; अंशात् (aṁśāt) - from a portion; द्रोणम् (droṇam) - Droṇa; समुत्पन्नम् (samutpannam) - born; भारद्वाजम् (bhāradvājam) - son of Bharadvāja; अयोनिजम् (ayonijam) - not born from a womb.]
Know, O Bhārata, that Droṇa was born from a portion of Bṛhaspati, Bṛhatkīrti, the divine sage — Bharadvāja's son, not born from a womb.
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः । बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ॥६४॥
dhanvināṁ nṛpa-śārdūla yaḥ sa sarva-astra-vittamaḥ। bṛhatkīrtiḥ mahā-tejāḥ sañjajñe manuṣeṣu iha॥64॥
[धन्विनाम् (dhanvinām) - among bowmen; नृपशार्दूल (nṛpa-śārdūla) - O tiger among kings; यः (yaḥ) - who; सः (saḥ) - he; सर्वास्त्रवित्तमः (sarva-astra-vittamaḥ) - knower of all weapons; बृहत्कीर्तिः (bṛhatkīrtiḥ) - of great fame; महातेजाः (mahā-tejāḥ) - of great brilliance; सञ्जज्ञे (sañjajñe) - was born; मनुजेषु (manuṣeṣu) - among men; इह (iha) - here.]
O tiger among kings, among bowmen, he who was the supreme knower of all weapons, Bṛhatkīrti of great brilliance, was born here among men.
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥६५॥
dhanuḥ-vede ca vede ca yaṁ taṁ veda-vido viduḥ। variṣṭham indra-karmāṇaṁ droṇaṁ sva-kula-vardhanam॥65॥
[धनुर्वेदे (dhanuḥ-vede) - in the science of archery; च (ca) - and; वेदे (vede) - in the Veda; च (ca) - also; यम् (yam) - whom; तम् (tam) - him; वेदविदः (veda-vidaḥ) - knowers of the Veda; विदुः (viduḥ) - knew; वरिष्ठम् (variṣṭham) - the most excellent; इन्द्रकर्माणम् (indra-karmāṇam) - having deeds like Indra; द्रोणम् (droṇam) - Droṇa; स्वकुलवर्धनम् (sva-kula-vardhanam) - enhancer of his own lineage.]
Whom the knowers of the Veda knew as the foremost in the science of archery and Veda, Droṇa of Indra-like deeds, the enhancer of his own lineage.
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ॥६६॥
mahādevāntakābhyāṁ ca kāmāt krodhāt ca bhārata। ekatvam upapannānāṁ jajñe śūraḥ parantapaḥ॥66॥
[महादेवान्तकाभ्याम् (mahādevāntakābhyām) - from Mahādeva and Antaka; च (ca) - and; कामात् (kāmāt) - from desire; क्रोधात् (krodhāt) - from anger; च (ca) - also; भारत (bhārata) - O Bhārata; एकत्वम् (ekatvam) - unity; उपपन्नानाम् (upapannānām) - of those who had come together; जज्ञे (jajñe) - was born; शूरः (śūraḥ) - a hero; परन्तपः (parantapaḥ) - scorcher of foes.]
O Bhārata, from Mahādeva and Antaka, from desire and anger united, was born a heroic warrior, a scorcher of enemies.
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः । वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥६७॥
aśvatthāmā mahā-vīryaḥ śatru-pakṣa-kṣayaṅkaraḥ। vīraḥ kamala-patra-akṣaḥ kṣitau āsīt narādhipa॥67॥
[अश्वत्थामा (aśvatthāmā) - Aśvatthāmā; महावीर्यः (mahā-vīryaḥ) - of great valor; शत्रुपक्षक्षयङ्करः (śatru-pakṣa-kṣayaṅkaraḥ) - destroyer of the enemy side; वीरः (vīraḥ) - a hero; कमलपत्राक्षः (kamala-patra-akṣaḥ) - lotus-petal-eyed; क्षितौ (kṣitau) - on the earth; आसीत् (āsīt) - was; नराधिप (narādhipa) - O king.]
Aśvatthāmā, of great might and the destroyer of enemy ranks, a hero with eyes like lotus petals, dwelled on earth, O king.
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥६८॥
jajñire vasavas tvaṣṭau gaṅgāyāṁ śantanoḥ sutāḥ। vasiṣṭhasya ca śāpena niyogāt vāsavasya ca॥68॥
[जज्ञिरे (jajñire) - were born; वसवः (vasavaḥ) - the Vasus; त्वष्टौ (tvaṣṭau) - eight; गङ्गायाम् (gaṅgāyām) - in Gaṅgā; शन्तनोः (śantanoḥ) - of Śantanu; सुताः (sutāḥ) - sons; वसिष्ठस्य (vasiṣṭhasya) - of Vasiṣṭha; च (ca) - and; शापेन (śāpena) - by the curse; नियोगात् (niyogāt) - by commission; वासवस्य (vāsavasya) - of Vāsava; च (ca) - and.]
The eight Vasus were born as sons of Śantanu in Gaṅgā, due to the curse of Vasiṣṭha and the command of Vāsava.
तेषामवरजो भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥६९॥
teṣām avarajo bhīṣmaḥ kurūṇām abhayaṅkaraḥ। matimān veda-vit vāgmī śatru-pakṣa-kṣayaṅkaraḥ॥69॥
[तेषाम् (teṣām) - among them; अवरजः (avarajaḥ) - the youngest; भीष्मः (bhīṣmaḥ) - Bhīṣma; कुरूणाम् (kurūṇām) - of the Kurus; अभयङ्करः (abhayaṅkaraḥ) - bringer of fearlessness; मतिमान् (matimān) - intelligent; वेदविद् (veda-vit) - knower of the Veda; वाग्मी (vāgmī) - eloquent; शत्रुपक्षक्षयङ्करः (śatru-pakṣa-kṣayaṅkaraḥ) - destroyer of the enemy side.]
Bhīṣma, the youngest of them, bringer of courage to the Kurus, wise, eloquent, and knower of the Veda, was the destroyer of enemy ranks.
जामदग्न्येन रामेण यः स सर्वविदां वरः । अयुध्यत महातेजा भार्गवेण महात्मना ॥७०॥
jāmadagnyena rāmeṇa yaḥ sa sarva-vidāṁ varaḥ। ayudhyata mahā-tejā bhārgaveṇa mahātmanā॥70॥
[जामदग्न्येन (jāmadagnyena) - by Jāmadagnya; रामेण (rāmeṇa) - by Rāma; यः (yaḥ) - who; सः (saḥ) - he; सर्वविदाम् (sarva-vidām) - of all the learned; वरः (varaḥ) - the best; अयुध्यत (ayudhyata) - fought; महातेजाः (mahā-tejāḥ) - of great splendor; भार्गवेण (bhārgaveṇa) - with the Bhārgava; महात्मना (mahātmanā) - the great-souled one.]
He, the best among the learned, of great brilliance, fought with the noble Bhārgava Rāma, son of Jamadagni.
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ॥७१॥
yas tu rājan kṛpaḥ nāma brahmarṣiḥ abhavat kṣitau। rudrāṇām tam gaṇāt viddhi sambhūtam ati-pauruṣam॥71॥
[यः (yaḥ) - who; तु (tu) - indeed; राजन् (rājan) - O king; कृपः (kṛpaḥ) - Kṛpa; नाम (nāma) - by name; ब्रह्मर्षिः (brahmarṣiḥ) - sage of the highest order; अभवत् (abhavat) - was; क्षितौ (kṣitau) - on earth; रुद्राणाम् (rudrāṇām) - of the Rudras; तं (tam) - him; गणात् (gaṇāt) - from the group; विद्धि (viddhi) - know; सम्भूतम् (sambhūtam) - born; अतिपौरुषम् (ati-pauruṣam) - extremely heroic.]
O king, know that Kṛpa, named among men as a great sage, was born from the group of Rudras, and was supremely heroic.
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ॥७२॥
śakuniḥ nāma yaḥ tu āsīt rājā loke mahārathaḥ। dvāparaṁ viddhi tam rājan sambhūtam ari-mardanam॥72॥
[शकुनिः (śakuniḥ) - Śakuni; नाम (nāma) - by name; यः (yaḥ) - who; तु (tu) - indeed; आसीत् (āsīt) - was; राजा (rājā) - a king; लोके (loke) - in the world; महारथः (mahārathaḥ) - a great chariot-warrior; द्वापरम् (dvāparam) - Dvāpara; विद्धि (viddhi) - know; तम् (tam) - him; राजन् (rājan) - O king; सम्भूतम् (sambhūtam) - born; अरिमर्दनम् (ari-mardanam) - enemy-subduer.]
Śakuni, the mighty chariot-warrior king in this world—know, O king, that he was born of Dvāpara, the subduer of foes.
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः । पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥७३॥
sātyakiḥ satya-sandhaḥ tu yaḥ asau vṛṣṇi-kula-udvahaḥ। pakṣāt sa jajñe marutām devānām ari-mardanaḥ॥73॥
[सात्यकिः (sātyakiḥ) - Sātyaki; सत्यसन्धः (satya-sandhaḥ) - truth-abiding; तु (tu) - indeed; यः (yaḥ) - who; असौ (asau) - he; वृष्णिकुलोद्वहः (vṛṣṇi-kula-udvahaḥ) - exalted of the Vṛṣṇi race; पक्षात् (pakṣāt) - from the side; सः (saḥ) - he; जज्ञे (jajñe) - was born; मरुताम् (marutām) - of the Maruts; देवानाम् (devānām) - of the gods; अरिमर्दनः (ari-mardanaḥ) - subduer of enemies.]
Sātyaki, the truthful and noble warrior of the Vṛṣṇi line, was born from the side of the Maruts, the enemy-crushing gods.
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् । मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥७४॥
drupadaḥ ca api rājarṣiḥ tata eva abhavat gaṇāt। mānuṣe nṛpa loke asmin sarva-śastra-bhṛtām varaḥ॥74॥
[द्रुपदः (drupadaḥ) - Drupada; च (ca) - and; अपि (api) - also; राजर्षिः (rājarṣiḥ) - royal sage; ततः (tataḥ) - from that; एव (eva) - indeed; अभवत् (abhavat) - was born; गणात् (gaṇāt) - from the group; मानुषे (mānuṣe) - in the human; नृप (nṛpa) - O king; लोके (loke) - world; अस्मिन् (asmin) - in this; सर्वशस्त्रभृताम् (sarva-śastra-bhṛtām) - of all weapon-wielders; वरः (varaḥ) - the best.]
Drupada, the royal sage, was also born from that divine group in the human world, O king, as the best among all weapon-bearers.
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥७५॥
tataḥ ca kṛtavarmāṇaṁ viddhi rājan janādhipam। jātam apratikarmāṇam kṣatriya-ṛṣabha-sattamam॥75॥
[ततः (tataḥ) - then; च (ca) - and; कृतवर्माणम् (kṛtavarmāṇam) - Kṛtavarmā; विद्धि (viddhi) - know; राजन् (rājan) - O king; जनाधिपम् (janādhipam) - lord of men; जातम् (jātam) - born; अप्रतिकर्माणम् (apratikarmāṇam) - unmatched in action; क्षत्रियर्षभसत्तमम् (kṣatriya-ṛṣabha-sattamam) - foremost among the bull-like Kṣatriyas.]
Know, O king, that Kṛtavarmā, the lord of men, was born thereafter—unmatched in prowess and foremost among the best of warrior Kṣatriyas.
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् । विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥७६॥
marutāṁ tu gaṇāt viddhi sañjātam ari-mardanam। virāṭaṁ nāma rājarṣiṁ para-rāṣṭra-pratāpanam॥76॥
[मरुताम् (marutām) - of the Maruts; तु (tu) - indeed; गणात् (gaṇāt) - from the group; विद्धि (viddhi) - know; सञ्जातम् (sañjātam) - born; अरिमर्दनम् (ari-mardanam) - destroyer of enemies; विराटम् (virāṭam) - Virāṭa; नाम (nāma) - by name; राजर्षिम् (rājarṣim) - royal sage; परराष्ट्रप्रतापनम् (para-rāṣṭra-pratāpanam) - subduer of foreign kingdoms.]
Know that Virāṭa, the royal sage and subduer of enemy kingdoms, was born from the host of the Maruts as a destroyer of foes.
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥७७॥
ariṣṭāyās tu yaḥ putro haṁsa iti abhiviśrutaḥ। sa gandharva-patiḥ jajñe kuru-vaṁśa-vivardhanaḥ॥77॥
[अरिष्टायाः (ariṣṭāyāḥ) - of Ariṣṭā; तु (tu) - indeed; यः (yaḥ) - who; पुत्रः (putraḥ) - son; हंसः (haṁsaḥ) - Haṁsa; इति (iti) - thus; अभिविश्रुतः (abhiviśrutaḥ) - well-known; सः (saḥ) - he; गन्धर्वपतिः (gandharva-patiḥ) - lord of Gandharvas; जज्ञे (jajñe) - was born; कुरुवंशविवर्धनः (kuru-vaṁśa-vivardhanaḥ) - enhancer of the Kuru lineage.]
Haṁsa, the renowned son of Ariṣṭā, was born as the lord of Gandharvas, an enhancer of the Kuru lineage.
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः॥ मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥७८॥
dhṛtarāṣṭra iti khyātaḥ kṛṣṇa-dvaipāyanāt api। dīrgha-bāhuḥ mahā-tejāḥ prajñā-cakṣuḥ narādhipaḥ॥ mātur doṣāt ṛṣeḥ kopāt andhaḥ eva vyajāyata॥78॥
[धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; इति (iti) - thus; ख्यातः (khyātaḥ) - known; कृष्णद्वैपायनात् (kṛṣṇa-dvaipāyanāt) - from Kṛṣṇa Dvaipāyana; अपि (api) - even; दीर्घबाहुः (dīrgha-bāhuḥ) - long-armed; महातेजाः (mahā-tejāḥ) - of great brilliance; प्रज्ञाचक्षुः (prajñā-cakṣuḥ) - wise-eyed (having intellect as sight); नराधिपः (narādhipaḥ) - king; मातुः (mātuḥ) - of the mother; दोषात् (doṣāt) - due to fault; ऋषेः (ṛṣeḥ) - of the sage; कोपात् (kopāt) - due to anger; अन्धः (andhaḥ) - blind; एव (eva) - indeed; व्यजायत (vyajāyata) - was born.]
Dhṛtarāṣṭra, long-armed, full of brilliance, and wise-eyed, though born from Kṛṣṇa Dvaipāyana, was known to the world as blind — due to his mother's fault and the sage's anger.
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥७९॥
atras tu su-mahā-bhāgaṁ putraṁ putra-vatāṁ varam। viduraṁ viddhi loke asmiñ jātaṁ buddhi-matāṁ varam॥79॥
[अत्रेः (atreḥ) - of Atri; तु (tu) - indeed; सुमहाभागम् (su-mahā-bhāgam) - highly fortunate; पुत्रम् (putram) - son; पुत्रवताम् (putra-vatām) - among sons; वरम् (varam) - the best; विदुरम् (viduram) - Vidura; विद्धि (viddhi) - know; लोके (loke) - in the world; अस्मिन् (asmin) - in this; जातम् (jātam) - born; बुद्धिमताम् (buddhi-matām) - among the wise; वरम् (varam) - the best.]
Know Vidura, the most virtuous and wisest of men, born in this world as the highly fortunate son of Atri and the best among the wise.
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः । दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥८०॥
kaler aṁśāt tu sañjajñe bhuvi duryodhano nṛpaḥ। durbuddhiḥ durmatiḥ ca eva kurūṇām ayasaḥ-karaḥ॥80॥
[कलेः (kaleḥ) - of Kali; अंशात् (aṁśāt) - from a portion; तु (tu) - indeed; सञ्जज्ञे (sañjajñe) - was born; भुवि (bhuvi) - on earth; दुर्योधनः (duryodhanaḥ) - Duryodhana; नृपः (nṛpaḥ) - king; दुर्बुद्धिः (durbuddhiḥ) - of wicked intellect; दुर्मतिः (durmatiḥ) - of evil mind; च (ca) - and; एव (eva) - indeed; कुरूणाम् (kurūṇām) - of the Kurus; अयशस्करः (ayasaḥ-karaḥ) - bringer of disgrace.]
Duryodhana, the king, was born on earth from a portion of Kali — wicked in intellect and mind, and the cause of disgrace to the Kuru line.
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः । यः सर्वां घातयामास पृथिवीं पुरुषाधमः॥ येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥८१॥
jagato yaḥ sa sarvasya vidviṣṭaḥ kali-puruṣaḥ। yaḥ sarvāṁ ghātayām āsa pṛthivīṁ puruṣādhamaḥ॥ yena vairaṁ samuddīptaṁ bhūtānta-karaṇaṁ mahat॥81॥
[जगतः (jagataḥ) - of the world; यः (yaḥ) - who; सः (saḥ) - he; सर्वस्य (sarvasya) - of all; विद्विष्टः (vidviṣṭaḥ) - hated; कलिपुरुषः (kali-puruṣaḥ) - man of Kali; यः (yaḥ) - who; सर्वाम् (sarvām) - all; घातयामास (ghātayām āsa) - caused destruction; पृथिवीम् (pṛthivīm) - the earth; पुरुषाधमः (puruṣādhamaḥ) - lowest among men; येन (yena) - by whom; वैरम् (vairam) - enmity; समुद्दीप्तम् (samuddīptam) - was inflamed; भूतान्तकरणम् (bhūtānta-karaṇam) - destroyer of beings; महत् (mahat) - great.]
That man of Kali, hated by all the world, who destroyed the entire earth—the lowest among men, by whom enmity was kindled, causing great destruction to living beings.
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह । शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥८२॥
paulastyā bhrātaraḥ sarve jajñire manuṣeṣu iha। śataṁ duḥśāsanādīnām sarveṣāṁ krūra-karmaṇām॥82॥
[पौलस्त्याः (paulastyāḥ) - of the Paulastya lineage; भ्रातरः (bhrātaraḥ) - brothers; सर्वे (sarve) - all; जज्ञिरे (jajñire) - were born; मनुजेषु (manuṣeṣu) - among men; इह (iha) - here; शतम् (śatam) - hundred; दुःशासनादीनाम् (duḥśāsanādīnām) - of Duḥśāsana and others; सर्वेषाम् (sarveṣām) - all; क्रूरकर्मणाम् (krūra-karmaṇām) - of cruel deeds.]
All the brothers of the Paulastya line were born among men here—the hundred cruel-hearted sons, including Duḥśāsana and others.
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः । दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥८३॥
durmukho duḥsahaś ca eva ye ca anye na anuśabditāḥ। duryodhana-sahāyās te paulastyā bharatarṣabha॥83॥
[दुर्मुखः (durmukhaḥ) - Durmukha; दुःसहः (duḥsahaḥ) - Duḥsaha; च (ca) - and; एव (eva) - indeed; ये (ye) - who; च (ca) - and; अन्ये (anye) - others; न (na) - not; अनुशब्दिताः (anuśabditāḥ) - named; दुर्योधनसहायाः (duryodhana-sahāyāḥ) - allies of Duryodhana; ते (te) - they; पौलस्त्याः (paulastyāḥ) - of Paulastya lineage; भरतर्षभ (bharatarṣabha) - O best of the Bharatas.]
Durmukha, Duḥsaha, and others unnamed—all were allies of Duryodhana, of the Paulastya race, O best of the Bharatas.
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् । भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥८४॥
dharmasya aṁśaṁ tu rājānaṁ viddhi rājan yudhiṣṭhiram। bhīmasenaṁ tu vātasya deva-rājasya ca arjunam॥84॥
[धर्मस्य (dharmasya) - of Dharma; अंशम् (aṁśam) - portion; तु (tu) - indeed; राजानम् (rājānam) - king; विद्धि (viddhi) - know; राजन् (rājan) - O king; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhiṣṭhira; भीमसेनम् (bhīmasenam) - Bhīmasena; तु (tu) - and; वातस्य (vātasya) - of Vāyu; देवराजस्य (deva-rājasya) - of the king of gods; च (ca) - and; अर्जुनम् (arjunam) - Arjuna.]
Know, O king, that Yudhiṣṭhira is the portion of Dharma, Bhīmasena of Vāyu, and Arjuna of the king of gods.
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥८५॥
aśvinoḥ tu tathaiva aṁśau rūpeṇa apratimau bhuvi। nakulaḥ sahadevaś ca sarva-loka-manoharau॥85॥
[अश्विनोः (aśvinoḥ) - of the Aśvins; तु (tu) - indeed; तथैव (tathaiva) - likewise; अंशौ (aṁśau) - two portions; रूपेण (rūpeṇa) - in form; अप्रतिमौ (apratimau) - incomparable; भुवि (bhuvi) - on earth; नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; च (ca) - and; सर्वलोकमनोहरौ (sarva-loka-manoharau) - charmers of all the worlds.]
Nakula and Sahadeva, the two portions of the Aśvins, were born on earth with incomparable beauty, enchanting all the worlds.
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् । अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥८६॥
yaḥ suvarcā iti khyātaḥ soma-putraḥ pratāpavān। abhimanyur bṛhat-kīrtir arjunasya sutaḥ abhavat॥86॥
[यः (yaḥ) - who; सुवर्चाः (suvarcāḥ) - Suvarcā; इति (iti) - thus; ख्यातः (khyātaḥ) - known; सोमपुत्रः (soma-putraḥ) - son of Soma; प्रतापवान् (pratāpavān) - valiant; अभिमन्युः (abhimanyuḥ) - Abhimanyu; बृहत्कीर्तिः (bṛhat-kīrtiḥ) - of great fame; अर्जुनस्य (arjunasya) - of Arjuna; सुतः (sutaḥ) - son; अभवत् (abhavat) - was.]
He who was known as Suvarcā, the valiant son of Soma, became Abhimanyu of great fame, the son of Arjuna.
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् । शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥८७॥
agner aṁśaṁ tu viddhi tvaṁ dhṛṣṭadyumnaṁ mahāratham। śikhaṇḍinam atho rājan strī-puṁsaṁ viddhi rākṣasam॥87॥
[अग्नेः (agner) - of Agni; अंशम् (aṁśam) - portion; तु (tu) - indeed; विद्धि (viddhi) - know; त्वम् (tvam) - you; धृष्टद्युम्नम् (dhṛṣṭadyumnam) - Dhṛṣṭadyumna; महारथम् (mahāratham) - great chariot-warrior; शिखण्डिनम् (śikhaṇḍinam) - Śikhaṇḍin; अथ (atho) - also; राजन् (rājan) - O king; स्त्रीपुंसम् (strī-puṁsam) - of dual nature (female-male); विद्धि (viddhi) - know; राक्षसम् (rākṣasam) - as a Rākṣasa.]
Know Dhṛṣṭadyumna, the mighty charioteer, to be a portion of Agni; and know Śikhaṇḍin, O king, of dual gender, to be a Rākṣasa.
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥८८॥
draupadeyāś ca ye pañca babhūvur bharatarṣabha। viśvedeva-gaṇān rājan tān viddhi bharatarṣabha॥88॥
[द्रौपदेयाः (draupadeyāḥ) - sons of Draupadī; च (ca) - and; ये (ye) - who; पञ्च (pañca) - five; बभूवुः (babhūvuḥ) - were; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; विश्वेदेवगणान् (viśvedeva-gaṇān) - group of Viśve-devas; राजन् (rājan) - O king; तान् (tān) - them; विद्धि (viddhi) - know.]
O best of the Bharatas, know the five sons of Draupadī to be incarnations of the Viśve-deva group, O king.
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः । दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥८९॥
āmukta-kavacaḥ karṇaḥ yaḥ tu jajñe mahārathaḥ। divākarasya taṁ viddhi devasya aṁśam anuttamam॥89॥
[आमुक्तकवचः (āmukta-kavacaḥ) - born with armor; कर्णः (karṇaḥ) - Karṇa; यः (yaḥ) - who; तु (tu) - indeed; जज्ञे (jajñe) - was born; महारथः (mahārathaḥ) - great charioteer; दिवाकरस्य (divākarasya) - of the sun-god; तम् (tam) - him; विद्धि (viddhi) - know; देवस्य (devasya) - of the god; अंशम् (aṁśam) - portion; अनुत्तमम् (anuttamam) - unsurpassed.]
Know Karṇa, the great chariot-warrior born with armor, to be the unsurpassed portion of the sun-god.
यस्तु नारायणो नाम देवदेवः सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥९०॥
yas tu nārāyaṇaḥ nāma deva-devaḥ sanātanaḥ। tasya aṁśaḥ mānuṣeṣu āsīt vāsudevaḥ pratāpavān॥90॥
[यः (yaḥ) - who; तु (tu) - indeed; नारायणः (nārāyaṇaḥ) - Nārāyaṇa; नाम (nāma) - by name; देवदेवः (deva-devaḥ) - god of gods; सनातनः (sanātanaḥ) - eternal; तस्य (tasya) - his; अंशः (aṁśaḥ) - portion; मानुषेषु (mānuṣeṣu) - among men; आसीत् (āsīt) - was; वासुदेवः (vāsudevaḥ) - Vāsudeva; प्रतापवान् (pratāpavān) - glorious.]
He who is called Nārāyaṇa, the eternal god of gods—his glorious portion among men was Vāsudeva.
शेषस्यांशस्तु नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥९१॥
śeṣasya aṁśas tu nāgasya baladevo mahā-balaḥ। sanat-kumāraṁ pradyumnaṁ viddhi rājan mahaujasam॥91॥
[शेषस्य (śeṣasya) - of Śeṣa; अंशः (aṁśaḥ) - portion; तु (tu) - indeed; नागस्य (nāgasya) - of the serpent; बलदेवः (baladevaḥ) - Baladeva; महाबलः (mahā-balaḥ) - greatly powerful; सनत्कुमारम् (sanat-kumāram) - Sanatkumāra; प्रद्युम्नम् (pradyumnam) - Pradyumna; विद्धि (viddhi) - know; राजन् (rājan) - O king; महौजसम् (mahaujasam) - of great energy.]
Know, O king, that Baladeva, greatly powerful, was a portion of Śeṣa the serpent, and Pradyumna, of great energy, was Sanatkumāra.
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥९२॥
evam anye manuṣyendra bahavaḥ aṁśā divaukasām। jajñire vasudevasya kule kula-vivardhanāḥ॥92॥
[एवम् (evam) - thus; अन्ये (anye) - others; मनुष्येन्द्र (manuṣyendra) - O lord of men; बहवः (bahavaḥ) - many; अंशाः (aṁśāḥ) - portions; दिवौकसाम् (divaukasām) - of the gods; जज्ञिरे (jajñire) - were born; वसुदेवस्य (vasudevasya) - of Vasudeva; कुले (kule) - in the family; कुलविवर्धनाः (kula-vivardhanāḥ) - increasers of the lineage.]
Thus, O king of men, many portions of the gods were born in the family of Vasudeva, enhancing the glory of the lineage.
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥९३॥
gaṇas tu apsarasāṁ yo vai mayā rājan prakīrtitaḥ। tasya bhāgaḥ kṣitau jajñe niyogāt vāsavasya ca॥93॥
[गणः (gaṇaḥ) - host; तु (tu) - indeed; अप्सरसाम् (apsarasām) - of the Apsarases; यः (yaḥ) - who; वै (vai) - indeed; मया (mayā) - by me; राजन् (rājan) - O king; प्रकीर्तितः (prakīrtitaḥ) - has been declared; तस्य (tasya) - his; भागः (bhāgaḥ) - portion; क्षितौ (kṣitau) - on earth; जज्ञे (jajñe) - was born; नियोगात् (niyogāt) - by the commission; वासवस्य (vāsavasya) - of Indra; च (ca) - and.]
O king, the host of Apsarases I have mentioned—portions of them were born on earth by the will and command of Indra.
तानि षोडश देवीनां सहस्राणि नराधिप । बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥९४॥
tāni ṣoḍaśa devīnām sahasrāṇi narādhipa। babhūvur mānuṣe loke nārāyaṇa-parigrahaḥ॥94॥
[तानि (tāni) - those; षोडश (ṣoḍaśa) - sixteen; देवीनाम् (devīnām) - of goddesses; सहस्राणि (sahasrāṇi) - thousands; नराधिप (narādhipa) - O king; बभूवुः (babhūvuḥ) - became; मानुषे (mānuṣe) - in the human; लोके (loke) - world; नारायणपरिग्रहः (nārāyaṇa-parigrahaḥ) - spouses of Nārāyaṇa.]
O king, sixteen thousand goddesses became women in the human world, accepted as consorts by Nārāyaṇa.
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥९५॥
śriyaḥ tu bhāgaḥ sañjajñe raty-arthaṁ pṛthivī-tale। drupadasya kule kanyā vedi-madhyāt aninditā॥95॥
[श्रियः (śriyaḥ) - of Śrī (Lakṣmī); तु (tu) - indeed; भागः (bhāgaḥ) - portion; सञ्जज्ञे (sañjajñe) - was born; रत्यर्थम् (raty-artham) - for the sake of love; पृथिवीतले (pṛthivī-tale) - on the earth; द्रुपदस्य (drupadasya) - of Drupada; कुले (kule) - in the family; कन्या (kanyā) - daughter; वेदिमध्यात् (vedi-madhyāt) - from the altar; अनिन्दिता (aninditā) - flawless one.]
The portion of Śrī was born on earth for the sake of love—as the flawless daughter of Drupada, arising from the altar.
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥९६॥
nāti-hrasvā na mahatī nīlotpala-su-gandhinī। padma-āyata-akṣī su-śroṇī asita-āyata-mūrdhajā॥96॥
[न (na) - not; अति (ati) - excessively; ह्रस्वा (hrasvā) - short; न (na) - not; महती (mahatī) - tall; नीलोत्पलसुगन्धिनी (nīlotpala-su-gandhinī) - fragrant like a blue lotus; पद्मायताक्षी (padma-āyata-akṣī) - wide-lotus-eyed; सुश्रोणी (su-śroṇī) - with beautiful hips; असितायतमूर्धजा (asita-āyata-mūrdhajā) - with long dark hair.]
She was neither too short nor tall, fragrant like the blue lotus, with wide lotus-like eyes, lovely hips, and long dark hair.
सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥९७॥
sarva-lakṣaṇa-sampannā vaiḍūrya-maṇi-saṁnibhā। pañcānāṁ puruṣendraṇāṁ citta-pramathinī rahaḥ॥97॥
[सर्वलक्षणसम्पन्ना (sarva-lakṣaṇa-sampannā) - endowed with all marks of beauty; वैडूर्यमणिसंनिभा (vaiḍūrya-maṇi-saṁnibhā) - resembling a beryl gem; पञ्चानाम् (pañcānām) - of the five; पुरुषेन्द्राणाम् (puruṣendraṇām) - lords among men; चित्तप्रमथिनी (citta-pramathinī) - mind-enchantress; रहः (rahaḥ) - in intimacy.]
Endowed with all auspicious traits, gem-like in radiance, she enchanted the hearts of the five royal heroes in secret union.
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥९८॥
siddhiḥ dhṛtiḥ ca ye devyau pañcānāṁ mātarau tu te। kuntī mādrī ca jajñāte matiḥ tu subala-ātmajā॥98॥
[सिद्धिः (siddhiḥ) - Siddhi; धृतिः (dhṛtiḥ) - Dhṛti; च (ca) - and; ये (ye) - who; देव्यौ (devyau) - goddesses; पञ्चानाम् (pañcānām) - of the five; मातरौ (mātarau) - mothers; तु (tu) - indeed; ते (te) - they; कुन्ती (kuntī) - Kuntī; माद्री (mādrī) - Mādrī; च (ca) - and; जज्ञाते (jajñāte) - were born; मतिः (matiḥ) - Mati (intelligence); तु (tu) - indeed; सुबलात्मजा (subala-ātmajā) - daughter of Subala.]
Siddhi and Dhṛti, the two divine mothers of the five, were born as Kuntī and Mādrī; and Mati was born as Subala’s daughter.
इति देवासुराणां ते गन्धर्वाप्सरसां तथा । अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥९९॥
iti deva-asurāṇāṁ te gandharva-apsarasām tathā। aṁśa-avataraṇaṁ rājan rākṣasānāṁ ca kīrtitam॥99॥
[इति (iti) - thus; देवासुराणाम् (deva-asurāṇām) - of the gods and demons; ते (te) - of those; गन्धर्वाप्सरसाम् (gandharva-apsarasām) - of Gandharvas and Apsarases; तथा (tathā) - likewise; अंशावतरणम् (aṁśa-avataraṇam) - partial incarnations; राजन् (rājan) - O king; राक्षसानाम् (rākṣasānām) - of Rākṣasas; च (ca) - and; कीर्तितम् (kīrtitam) - has been declared.]
Thus, O king, has been recounted the descent of the partial incarnations of gods, demons, Gandharvas, Apsarases, and Rākṣasas.
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनां च ये जाता विपुले कुले ॥१००॥
ye pṛthivyāṁ samudbhūtā rājānaḥ yuddha-durmadāḥ। mahātmānaḥ yadūnāṁ ca ye jātā vipule kule॥100॥
[ये (ye) - who; पृथिव्याम् (pṛthivyām) - on the earth; समुद्भूताः (samudbhūtāḥ) - were born; राजानः (rājānaḥ) - kings; युद्धदुर्मदाः (yuddha-durmadāḥ) - intoxicated by war; महात्मानः (mahātmānaḥ) - great souls; यदूनाम् (yadūnām) - of the Yādavas; च (ca) - and; ये (ye) - who; जाता (jātāḥ) - were born; विपुले (vipule) - great; कुले (kule) - family.]
The kings born on earth, maddened by war, and the noble Yādavas born in a great lineage—all these have been described.
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥१०१॥
dhanyaṁ yaśasyaṁ putrīyam āyuṣyaṁ vijayāvaham। idam aṁśa-avataraṇaṁ śrotavyam anasūyatā॥101॥
[धन्यम् (dhanyam) - auspicious; यशस्यम् (yaśasyam) - glorious; पुत्रीयम् (putrīyam) - conducive to offspring; आयुष्यम् (āyuṣyam) - life-prolonging; विजयावहम् (vijayāvaham) - bringing victory; इदम् (idam) - this; अंशावतरणम् (aṁśa-avataraṇam) - descent of divine portions; श्रोतव्यम् (śrotavyam) - should be heard; अनसूयता (anasūyatā) - without envy.]
This narration of divine descents brings glory, long life, offspring, and victory; it should be heard without envy.
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् । प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥१०२॥
aṁśa-avataraṇaṁ śrutvā deva-gandharva-rakṣasām। prabhava-apyaya-vit prājño na kṛcchreṣv avasīdati॥102॥
[अंशावतरणम् (aṁśa-avataraṇam) - descent of divine portions; श्रुत्वा (śrutvā) - having heard; देवगन्धर्वरक्षसाम् (deva-gandharva-rakṣasām) - of gods, Gandharvas, and Rākṣasas; प्रभवाप्ययवित् (prabhava-apyaya-vit) - knower of origin and dissolution; प्राज्ञः (prājñaḥ) - wise one; न (na) - does not; कृच्छ्रेषु (kṛcchreṣu) - in difficulties; अवसीदति (avasīdati) - sink.]
The wise one, knowing the rise and fall of gods, Gandharvas, and Rākṣasas, having heard of their divine descents, does not despair in hardship.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.