Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.065
Library: Dushyanta meets Shakuntala and is curious to know her background.
वैशम्पायन उवाच॥
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान्। नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥१-६५-१॥
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम्। उवाच क इहेत्युच्चैर्वनं संनादयन्निव ॥१-६५-२॥
श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी। निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥१-६५-३॥
सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा। स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥१-६५-४॥
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि। पप्रच्छानामयं राजन्कुशलं च नराधिपम् ॥१-६५-५॥
यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा। उवाच स्मयमानेव किं कार्यं क्रियतामिति ॥१-६५-६॥
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्। दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ॥१-६५-७॥
आगतोऽहं महाभागमृषिं कण्वमुपासितुम्। क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥१-६५-८॥
शकुन्तलोवाच॥
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात्। मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ॥१-६५-९॥
वैशम्पायन उवाच॥
अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः। तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ॥१-६५-१०॥
विभ्राजमानां वपुषा तपसा च दमेन च। रूपयौवनसम्पन्नामित्युवाच महीपतिः ॥१-६५-११॥
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम्। एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥१-६५-१२॥
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः। इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥१-६५-१३॥
एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे। उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥१-६५-१४॥
कण्वष्याहं भगवतो दुःषन्त दुहिता मता। तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ॥१-६५-१५॥
दुःषन्त उवाच॥
ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः। चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ॥१-६५-१६॥
कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी। संशयो मे महानत्र तं मे छेत्तुमिहार्हसि ॥१-६५-१७॥
शकुन्तलोवाच॥
यथायमागमो मह्यं यथा चेदमभूत्पुरा। शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ॥१-६५-१८॥
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत्। तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ॥१-६५-१९॥
तप्यमानः किल पुरा विश्वामित्रो महत्तपः। सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥१-६५-२०॥
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति। भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ॥१-६५-२१॥
गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे। श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥१-६५-२२॥
असावादित्यसङ्काशो विश्वामित्रो महातपाः। तप्यमानस्तपो घोरं मम कम्पयते मनः ॥१-६५-२३॥
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे। संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥१-६५-२४॥
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय। चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥१-६५-२५॥
रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः। लोभयित्वा वरारोहे तपसः संनिवर्तय ॥१-६५-२६॥
मेनकोवाच॥
महातेजाः स भगवान्सदैव च महातपाः। कोपनश्च तथा ह्येनं जानाति भगवानपि ॥१-६५-२७॥
तेजसस्तपसश्चैव कोपस्य च महात्मनः। त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥१-६५-२८॥
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत्। क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥१-६५-२९॥
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः। यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥१-६५-३०॥
बभार यत्रास्य पुरा काले दुर्गे महात्मनः। दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥१-६५-३१॥
अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम्। मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥१-६५-३२॥
मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम्। त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ॥१-६५-३३॥
अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा। प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ॥१-६५-३४॥
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे। यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो ॥१-६५-३५॥
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा। सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ॥१-६५-३६॥
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम्। कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ॥१-६५-३७॥
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम्। कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥१-६५-३८॥
यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे। एतेऽपि यस्योद्विजन्ते प्रभावा; त्कस्मात्तस्मान्मादृशी नोद्विजेत ॥१-६५-३९॥
त्वयैवमुक्ता च कथं समीप; मृषेर्न गच्छेयमहं सुरेन्द्र। रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् ॥१-६५-४०॥
कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव। भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् ॥१-६५-४१॥
वनाच्च वायुः सुरभिः प्रवाये; त्तस्मिन्काले तमृषिं लोभयन्त्याः। तथेत्युक्त्वा विहिते चैव तस्मिं; स्ततो ययौ साश्रमं कौशिकस्य ॥१-६५-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.