Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.118
Pancharatra:Last rites of King Pandu.
धृतराष्ट्र उवाच॥
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥१-११८-१॥
पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥१-११८-२॥
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥१-११८-३॥
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥१-११८-४॥
वैशम्पायन उवाच॥
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥१-११८-५॥
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥१-११८-६॥
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः । शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ॥१-११८-७॥
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥१-११८-८॥
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् । अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥१-११८-९॥
पाण्डुरेणातपत्रेण चामरव्यजनेन च । सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥१-११८-१०॥
रत्नानि चाप्युपादाय बहूनि शतशो नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥१-११८-११॥
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥१-११८-१२॥
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥१-११८-१३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥१-११८-१४॥
अयमस्मानपाहाय दुःखे चाधाय शाश्वते । कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥१-११८-१५॥
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥१-११८-१६॥
न्यासयामासुरथ तां शिबिकां सत्यवादिनः । सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥१-११८-१७॥
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् । शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् । पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥१-११८-१८॥
चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥१-११८-१९॥
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः । शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥१-११८-२०॥
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः । घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥१-११८-२१॥
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥१-११८-२२॥
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता । हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥१-११८-२३॥
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥१-११८-२४॥
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥१-११८-२५॥
तथा भीष्मः शान्तनवो विदुरश्च महामतिः । सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥१-११८-२६॥
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥१-११८-२७॥
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् । सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥१-११८-२८॥
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥१-११८-२९॥
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् । बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥१-११८-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.