Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.127
Core:The sun goes down, and the fight between Karna and Arjuna gets halted.
वैशम्पायन उवाच॥
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥१-१२७-१॥
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥१-१२७-२॥
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः । पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥१-१२७-३॥
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥१-१२७-४॥
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः । भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥१-१२७-५॥
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥१-१२७-६॥
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम । श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥१-१२७-७॥
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः । गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥१-१२७-८॥
ततो दुर्योधनः कोपादुत्पपात महाबलः । भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥१-१२७-९॥
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥१-१२७-१०॥
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना । शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥१-१२७-११॥
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् । दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥१-१२७-१२॥
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥१-१२७-१३॥
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः । आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ॥ भवतां च यथा जन्म तदप्यागमितं नृपैः ॥१-१२७-१४॥
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् । कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ॥१-१२७-१५॥
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः । अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥१-१२७-१६॥
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥१-१२७-१७॥
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ॥१-१२७-१८॥
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप । दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥१-१२७-१९॥
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते । भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥१-१२७-२०॥
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥१-१२७-२१॥
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् । पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥१-१२७-२२॥
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ॥१-१२७-२३॥
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् । युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥१-१२७-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.