Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.128
Core:Drona defeats Drupada with the help of his disciple and returns half the kingdom.
वैशम्पायन उवाच॥
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् । द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥१-१२८-१॥
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि । पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥१-१२८-२॥
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः । आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥१-१२८-३॥
ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः । ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥१-१२८-४॥
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ॥१-१२८-५॥
भग्नदर्पं हृतधनं तथा च वशमागतम् । स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥१-१२८-६॥
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया । प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥१-१२८-७॥
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् । मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥१-१२८-८॥
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥१-१२८-९॥
प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ । वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥१-१२८-१०॥
अराजा किल नो राज्ञां सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥१-१२८-११॥
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥१-१२८-१२॥
द्रुपद उवाच॥
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥१-१२८-१३॥
वैशम्पायन उवाच॥
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥१-१२८-१४॥
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥ दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥१-१२८-१५॥
द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह । क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥१-१२८-१६॥
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ॥ अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥१-१२८-१७॥
एवं राजन्नहिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥१-१२८-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.