01.148
Core:Kunti enquires about Brahmana's grief.
कुन्त्युवाच॥
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥१॥
ब्राह्मण उवाच॥
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने । न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥२॥
समीपे नगरस्यास्य बको वसति राक्षसः । ईशो जनपदस्यास्य पुरस्य च महाबलः ॥३॥
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः । रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥४॥
नगरं चैव देशं च रक्षोबलसमन्वितः । तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥५॥
वेतनं तस्य विहितं शालिवाहस्य भोजनम् । महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥६॥
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥७॥
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥८॥
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥९॥
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये । विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥१०॥
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः । गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥११॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥१२॥
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् । त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥१३॥
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः । भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥१४॥
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन । गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥१५॥
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् । सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् । ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥१६॥