01.147
Core-Pancharatra:Lamentation of Brahmana's daughter
वैशम्पायन उवाच॥
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् । भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥१॥
किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् । ममापि श्रूयतां किञ्चिच्छ्रुत्वा च क्रियतां क्षमम् ॥२॥
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥३॥
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥४॥
इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् । सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥५॥
आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः । तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥६॥
भ्राता च मम बालोऽयं गते लोकममुं त्वयि । अचिरेणैव कालेन विनश्येत न संशयः ॥७॥
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे । पिण्डः पितृणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ॥८॥
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् । दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥९॥
त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः । सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥१०॥
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल । स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ॥११॥
अनाथा कृपणा बाला यत्रक्वचनगामिनी । भविष्यामि त्वया तात विहीना कृपणा बत ॥१२॥
अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् । फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥१३॥
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम । पीडिताहं भविष्यामि तदवेक्षस्व मामपि ॥१४॥
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम । आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ॥१५॥
अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् । त्वया दत्तेन तोयेन भविष्यति हितं च मे ॥१६॥
किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि । याचमानाः परादन्नं परिधावेमहि श्ववत् ॥१७॥
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे । अमृते वसती लोके भविष्यामि सुखान्विता ॥१८॥
एवं बहुविधं तस्या निशम्य परिदेवितम् । पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥१९॥
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः । उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥२०॥
मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् । प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ॥२१॥
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् । अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ॥२२॥
तथापि तेषां दुःखेन परीतानां निशम्य तत् । बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥२३॥
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् । गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥२४॥