01.161
Library: Tapati asks King to seek her from Savitar
गन्धर्व उवाच॥
अथ तस्यामदृश्यायां नृपतिः काममोहितः। पातनः शत्रुसङ्घानां पपात धरणीतले ॥१-१६१-१॥
तस्मिन्निपतिते भूमावथ सा चारुहासिनी। पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥१-१६१-२॥
अथाबभाषे कल्याणी वाचा मधुरया नृपम्। तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥१-१६१-३॥
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम। मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ॥१-१६१-४॥
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा। ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥१-१६१-५॥
अथ तामसितापाङ्गीमाबभाषे नराधिपः। मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥१-१६१-६॥
साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि। भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ॥१-१६१-७॥
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः। कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥१-१६१-८॥
ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना। सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ॥१-१६१-९॥
त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि। चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥१-१६१-१०॥
न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना। तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥१-१६१-११॥
भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि। त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥१-१६१-१२॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि। विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥१-१६१-१३॥
तपत्युवाच॥
नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम्। मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥१-१६१-१४॥
यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर। दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥१-१६१-१५॥
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम। समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥१-१६१-१६॥
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्। कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥१-१६१-१७॥
तस्मादेवङ्गते काले याचस्व पितरं मम। आदित्यं प्रणिपातेन तपसा नियमेन च ॥१-१६१-१८॥
स चेत्कामयते दातुं तव मामरिमर्दन। भविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥१-१६१-१९॥
अहं हि तपती नाम सावित्र्यवरजा सुता। अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥१-१६१-२०॥