Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.169
Library: Story of Kritavirya and Brigus.
गन्धर्व उवाच॥
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत। शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ॥१-१६९-१॥
जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः। पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥१-१६९-२॥
परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा। गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥१-१६९-३॥
अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा। जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ॥१-१६९-४॥
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत। मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ॥१-१६९-५॥
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः। अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ॥१-१६९-६॥
मा तात तात तातेति न ते तातो महामुनिः। रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥१-१६९-७॥
मन्यसे यं तु तातेति नैष तातस्तवानघ। आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ॥१-१६९-८॥
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः। सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥१-१६९-९॥
तं तथा निश्चितात्मानं महात्मानं महातपाः। वसिष्ठो वारयामास हेतुना येन तच्छृणु ॥१-१६९-१०॥
वसिष्ठ उवाच॥
कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ। याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ॥१-१६९-११॥
स तानग्रभुजस्तात धान्येन च धनेन च। सोमान्ते तर्पयामास विपुलेन विशां पतिः ॥१-१६९-१२॥
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन। बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ॥१-१६९-१३॥
ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह। याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ॥१-१६९-१४॥
भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम्। ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥१-१६९-१५॥
भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम्। क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ॥१-१६९-१६॥
ततो महीतलं तात क्षत्रियेण यदृच्छया। खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ॥ तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥१-१६९-१७॥
अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान्। निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः ॥ आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् ॥१-१६९-१८॥
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा। भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ॥१-१६९-१९॥
तासामन्यतमा गर्भं भयाद्दाधार तैजसम्। ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये ॥ ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ॥१-१६९-२०॥
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह। मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ॥ ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ॥१-१६९-२१॥
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः। ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥१-१६९-२२॥
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः। ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥१-१६९-२३॥
भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम्। उपारम्य च गच्छेम सहिताः पापकर्मणः ॥१-१६९-२४॥
सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि। पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि ॥१-१६९-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.