01.176
Core-Pancharatra: Pandavas take a seat along with Brahmins.
वैशम्पायन उवाच॥
एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय। राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ॥१-१७६-१॥
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्। ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ॥१-१७६-२॥
तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः। कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥१-१७६-३॥
पश्यन्तो रमणीयानि वनानि च सरांसि च। तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ॥१-१७६-४॥
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः। आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः ॥१-१७६-५॥
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः। कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ॥१-१७६-६॥
तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः। तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ॥१-१७६-७॥
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने। कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः ॥१-१७६-८॥
सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय। दृढं धनुरनायम्यं कारयामास भारत ॥१-१७६-९॥
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्। तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ॥१-१७६-१०॥
द्रुपद उवाच॥
इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः। अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति ॥१-१७६-११॥
वैशम्पायन उवाच॥
इति स द्रुपदो राजा सर्वतः समघोषयत्। तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥१-१७६-१२॥
ऋषयश्च महात्मानः स्वयंवरदिदृक्षया। दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥१-१७६-१३॥
ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्। तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ॥१-१७६-१४॥
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः। शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ॥१-१७६-१५॥
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे। समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥१-१७६-१६॥
प्राकारपरिखोपेतो द्वारतोरणमण्डितः। वितानेन विचित्रेण सर्वतः समवस्तृतः ॥१-१७६-१७॥
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः। चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ॥१-१७६-१८॥
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः। सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ॥१-१७६-१९॥
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः। सुखारोहणसोपानैर्महासनपरिच्छदैः ॥१-१७६-२०॥
अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः। हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥१-१७६-२१॥
असम्बाधशतद्वारैः शयनासनशोभितैः। बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥१-१७६-२२॥
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः। स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ॥१-१७६-२३॥
तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान्। राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥१-१७६-२४॥
महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः। प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥१-१७६-२५॥
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः। कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ॥१-१७६-२६॥
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्। ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥१-१७६-२७॥
ततः समाजो ववृधे स राजन्दिवसान्बहून्। रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥१-१७६-२८॥
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे। आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ॥१-१७६-२९॥
वीरकांस्यमुपादाय काञ्चनं समलङ्कृतम्। अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ॥१-१७६-३०॥
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः। परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ॥१-१७६-३१॥
स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च। वारयामास सर्वाणि वादित्राणि समन्ततः ॥१-१७६-३२॥
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते। रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा ॥ वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥१-१७६-३३॥
इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव। यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः ॥१-१७६-३४॥
एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः। तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि ॥१-१७६-३५॥
तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच। नाम्ना च गोत्रेण च कर्मणा च; सङ्कीर्तयंस्तान्नृपतीन्समेतान् ॥१-१७६-३६॥