Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.183
Pancharatra: Krishna and Balarama visit Pandavas.
वैशम्पायन उवाच॥
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्। तमेवार्थं ध्यायमाना मनोभि; रासां चक्रुरथ तत्रामितौजाः ॥१-१८३-१॥
वृष्णिप्रवीरस्तु कुरुप्रवीरा; नाशङ्कमानः सहरौहिणेयः। जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः ॥१-१८३-२॥
तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः। अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् ॥१-१८३-३॥
ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम्। कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः ॥१-१८३-४॥
तथैव तस्याप्यनु रौहिणेय; स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन्। पितृष्वसुश्चापि यदुप्रवीरा; वगृह्णतां भारतमुख्य पादौ ॥१-१८३-५॥
अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य। कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे ॥१-१८३-६॥
तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन्। तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु ॥१-१८३-७॥
दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः। दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् ॥१-१८३-८॥
भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः। मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत् ॥ सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥१-१८३-९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.