Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.184
Pancharatra: Drustadyumna observes Pandavas.
वैशम्पायन उवाच॥
धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ। अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ॥१-१८४-१॥
सोऽज्ञायमानः पुरुषानवधाय समन्ततः। स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने ॥१-१८४-२॥
सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ। भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः ॥१-१८४-३॥
ततस्तु कुन्ती द्रुपदात्मजां ता; मुवाच काले वचनं वदान्या। अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् ॥१-१८४-४॥
ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः। ततश्च शेषं प्रविभज्य शीघ्र; मर्धं चतुर्णां मम चात्मनश्च ॥१-१८४-५॥
अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः। श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव ॥१-१८४-६॥
सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना। यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम् ॥१-१८४-७॥
कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी। यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥१-१८४-८॥
अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम्। कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः ॥१-१८४-९॥
अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु। न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुङ्गवांस्तान् ॥१-१८४-१०॥
ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः। अस्त्राणि दिव्यानि रथांश्च नागा; न्खड्गान्गदाश्चापि परश्वधांश्च ॥१-१८४-११॥
तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम्। शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः ॥१-१८४-१२॥
धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ। सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम ॥१-१८४-१३॥
पाञ्चालराजस्तु विषण्णरूप; स्तान्पाण्डवानप्रतिविन्दमानः। धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा ॥१-१८४-१४॥
कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना। कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने ॥१-१८४-१५॥
कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित्। कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥१-१८४-१६॥
कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण। ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य ॥१-१८४-१७॥
विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः। कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम् ॥१-१८४-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.