01.185
Pancharatra: Brahmana visits Pandavas, followed by a messenger.
वैशम्पायन उवाच॥
ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः। धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा ॥१-१८५-१॥
योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः। यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम् ॥१-१८५-२॥
असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः। चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः ॥१-१८५-३॥
कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा। अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु ॥१-१८५-४॥
ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम्। प्रकालयन्नेव स पार्थिवौघा; न्क्रुद्धोऽन्तकः प्राणभृतो यथैव ॥१-१८५-५॥
तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ। विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम् ॥१-१८५-६॥
तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः। तथाविधैरेव नरप्रवीरै; रुपोपविष्टैस्त्रिभिरग्निकल्पैः ॥१-१८५-७॥
तस्यास्ततस्तावभिवाद्य पादा; वुक्त्वा च कृष्णामभिवादयेति। स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः ॥१-१८५-८॥
तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा। तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त ॥१-१८५-९॥
सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम्। आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् ॥१-१८५-१०॥
ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः। न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः ॥१-१८५-११॥
निःसंशयं क्षत्रियपुङ्गवास्ते; यथा हि युद्धं कथयन्ति राजन्। आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥१-१८५-१२॥
यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य। यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥१-१८५-१३॥
ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे। विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् ॥१-१८५-१४॥
गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम्। वाक्यं यथावन्नृपतेः समग्र; मुवाच तान्स क्रमवित्क्रमेण ॥१-१८५-१५॥
विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः। लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः ॥१-१८५-१६॥
तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम्। प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य ॥१-१८५-१७॥
पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव। तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य ॥१-१८५-१८॥
अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः। यदर्जुनो वै पृथुदीर्घबाहु; र्धर्मेण विन्देत सुतां ममेति ॥१-१८५-१९॥
तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा। समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै ॥१-१८५-२०॥
मान्यः पुरोधा द्रुपदस्य राज्ञ; स्तस्मै प्रयोज्याभ्यधिकैव पूजा। भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसङ्गृहीत्वा ॥१-१८५-२१॥
सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच। पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् ॥१-१८५-२२॥
प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता। न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे ॥१-१८५-२३॥
कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा। सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसङ्घमध्ये ॥१-१८५-२४॥
नैवङ्गते सौमकिरद्य राजा; सन्तापमर्हत्यसुखाय कर्तुम्। कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि सम्पत्स्यति पार्थिवस्य ॥१-१८५-२५॥
अप्राप्यरूपां हि नरेन्द्रकन्या; मिमामहं ब्राह्मण साधु मन्ये। न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि ॥ न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् ॥१-१८५-२६॥
तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य। न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन ॥१-१८५-२७॥
एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः। तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम् ॥१-१८५-२८॥