Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.186
Core: Pandavas enter the palace of Drupada.
दूत उवाच॥
जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च। तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् ॥१-१८६-१॥
इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः। एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् ॥१-१८६-२॥
वैशम्पायन उवाच॥
ततः प्रयाताः कुरुपुङ्गवास्ते; पुरोहितं तं प्रथमं प्रयाप्य। आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते ॥१-१८६-३॥
श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः। जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसञ्जहार ॥१-१८६-४॥
फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि। गाश्चैव राजन्नथ चैव रज्जू; र्द्रव्याणि चान्यानि कृषीनिमित्तम् ॥१-१८६-५॥
अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र। क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा ॥१-१८६-६॥
रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः। धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च ॥१-१८६-७॥
प्रासा भुशुण्ड्यश्च परश्वधाश्च; साङ्ग्रामिकं चैव तथैव सर्वम्। शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र ॥१-१८६-८॥
कुन्ती तु कृष्णां परिगृह्य साध्वी; मन्तःपुरं द्रुपदस्याविवेष। स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः ॥१-१८६-९॥
तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान्। गूढोत्तरांसान्भुजगेन्द्रभोग; प्रलम्बबाहून्पुरुषप्रवीरान् ॥१-१८६-१०॥
राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव। प्रेष्याश्च सर्वे निखिलेन राज; न्हर्षं समापेतुरतीव तत्र ॥१-१८६-११॥
ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः। यथानुपूर्व्या विविशुर्नराग्र्या; स्तदा महार्हेषु न विस्मयन्तः ॥१-१८६-१२॥
उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु। दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम् ॥१-१८६-१३॥
ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः। उत्क्रम्य सर्वाणि वसूनि तत्र; साङ्ग्रामिकान्याविविशुर्नृवीराः ॥१-१८६-१४॥
तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः। समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ॥१-१८६-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.