01.191
Pancharatra: Pritha's blessings to Draupadi.
वैशम्पायन उवाच॥
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु। न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ॥१-१९१-१॥
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः। नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ॥१-१९१-२॥
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला। कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥१-१९१-३॥
रूपलक्षणसम्पन्नां शीलाचारसमन्विताम्। द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥१-१९१-४॥
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ। रोहिणी च यथा सोमे दमयन्ती यथा नले ॥१-१९१-५॥
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती। यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥१-१९१-६॥
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता। सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता ॥१-१९१-७॥
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा। पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥१-१९१-८॥
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च। अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ॥१-१९१-९॥
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः। कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥१-१९१-१०॥
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते। तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ॥१-१९१-११॥
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम्। तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ॥१-१९१-१२॥
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः। मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥१-१९१-१३॥
वासांसि च महार्हाणि नानादेश्यानि माधवः। कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥१-१९१-१४॥
शयनासनयानानि विविधानि महान्ति च। वैडूर्यवज्रचित्राणि शतशो भाजनानि च ॥१-१९१-१५॥
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः। प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः ॥१-१९१-१६॥
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान्। रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् ॥१-१९१-१७॥
कोटिशश्च सुवर्णं स तेषामकृतकं तथा। वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥१-१९१-१८॥
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः। मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥१-१९१-१९॥