Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.195
Core-Pancharatra: Bheeshma advises to giving half the kingdom to Pandavas.
भीष्म उवाच॥
न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन। यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥१-१९५-१॥
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः। यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥१-१९५-२॥
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते। तथा कुरूणां सर्वेषामन्येषामपि भारत ॥१-१९५-३॥
एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः। तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ॥१-१९५-४॥
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि। मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥१-१९५-५॥
यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः। कुत एव तवापीदं भारतस्य च कस्यचित् ॥१-१९५-६॥
अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ। तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥१-१९५-७॥
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्। एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥१-१९५-८॥
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति। तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥१-१९५-९॥
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्। नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥१-१९५-१०॥
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव। तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ॥१-१९५-११॥
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्। अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥१-१९५-१२॥
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा। दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ॥१-१९५-१३॥
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्। लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ॥१-१९५-१४॥
न चापि दोषेण तथा लोको वैति पुरोचनम्। यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥१-१९५-१५॥
तदिदं जीवितं तेषां तव कल्मषनाशनम्। संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥१-१९५-१६॥
न चापि तेषां वीराणां जीवतां कुरुनन्दन। पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ॥१-१९५-१७॥
ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः। अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥१-१९५-१८॥
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे। क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥१-१९५-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.