01.200
Pancharatra: Narada sites example of Sunda and Upasunda and asks Yudhisthira to laydown the rules.
जनमेजय उवाच॥
एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन। अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ॥१-२००-१॥
सर्व एव महात्मानः पूर्वे मम पितामहाः। द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥१-२००-२॥
कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः। वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥१-२००-३॥
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन। तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ॥१-२००-४॥
वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः। रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ॥१-२००-५॥
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः। पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥१-२००-६॥
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः। मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ॥१-२००-७॥
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः। आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥१-२००-८॥
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु। नारदस्त्वथ देवर्षिराजगाम यदृच्छया ॥ आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ॥१-२००-९॥
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि। प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ॥१-२००-१०॥
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत्। आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥१-२००-११॥
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः। प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥१-२००-१२॥
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता। जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥१-२००-१३॥
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी। कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ॥१-२००-१४॥
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः। आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ॥ गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥१-२००-१५॥
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्। विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥१-२००-१६॥
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी। यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ॥१-२००-१७॥
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ। आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥१-२००-१८॥
एकराज्यावेकगृहावेकशय्यासनाशनौ। तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥१-२००-१९॥
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम्। यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥१-२००-२०॥
युधिष्ठिर उवाच॥
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने। उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥१-२००-२१॥
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा। यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥१-२००-२२॥
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन। श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ॥१-२००-२३॥