Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.199
Core-Pancharatra: Dhritarastra gives half the kingdom to Pandavas.
द्रुपद उवाच॥
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम्। ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो ॥१-१९९-१॥
गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम्। न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥१-१९९-२॥
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः। भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥१-१९९-३॥
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः। एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥१-१९९-४॥
युधिष्ठिर उवाच॥
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः। यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ॥१-१९९-५॥
वैशम्पायन उवाच॥
ततोऽब्रवीद्वासुदेवो गमनं मम रोचते। यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥१-१९९-६॥
द्रुपद उवाच॥
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः। प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥१-१९९-७॥
यथैव हि महाभागाः कौन्तेया मम साम्प्रतम्। तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥१-१९९-८॥
न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः। यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥१-१९९-९॥
वैशम्पायन उवाच॥
ततस्ते समनुज्ञाता द्रुपदेन महात्मना। पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥१-१९९-१०॥
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्। सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ॥१-१९९-११॥
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः। प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥१-१९९-१२॥
विकर्णं च महेष्वासं चित्रसेनं च भारत। द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥१-१९९-१३॥
तैस्ते परिवृता वीराः शोभमाना महारथाः। नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥१-१९९-१४॥
कौतूहलेन नगरं दीर्यमाणमिवाभवत्। यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ॥१-१९९-१५॥
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः। उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः ॥१-१९९-१६॥
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्। यो नः स्वानिव दायादान्धर्मेण परिरक्षति ॥१-१९९-१७॥
अद्य पाण्डुर्महाराजो वनादिव वनप्रियः। आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ॥१-१९९-१८॥
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम्। यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥१-१९९-१९॥
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः। तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥१-१९९-२०॥
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः। अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥१-१९९-२१॥
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते। समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥१-१९९-२२॥
विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः। आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥१-१९९-२३॥
धृतराष्ट्र उवाच॥
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम। पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ॥१-१९९-२४॥
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्। संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ॥ अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ॥१-१९९-२५॥
वैशम्पायन उवाच॥
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च। प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ॥ अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ॥१-१९९-२६॥
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः। मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥१-१९९-२७॥
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः। नगरं मापयामासुर्द्वैपायनपुरोगमाः ॥१-१९९-२८॥
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम्। प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ॥१-१९९-२९॥
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च। शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥१-१९९-३०॥
द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः। गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥१-१९९-३१॥
विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः। शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ॥ तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ॥१-१९९-३२॥
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्। आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ॥१-१९९-३३॥
सुविभक्तमहारथ्यं देवताबाधवर्जितम्। विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ॥१-१९९-३४॥
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत। मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ॥१-१९९-३५॥
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम्। शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ॥१-१९९-३६॥
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः। निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥१-१९९-३७॥
वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः। सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥१-१९९-३८॥
उद्यानानि च रम्याणि नगरस्य समन्ततः। आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ॥१-१९९-३९॥
पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा। शालतालकदम्बैश्च बकुलैश्च सकेतकैः ॥१-१९९-४०॥
मनोहरैः पुष्पितैश्च फलभारावनामितैः। प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥१-१९९-४१॥
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः। करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ॥१-१९९-४२॥
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम्। मत्तबर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः ॥१-१९९-४३॥
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः। मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ॥ वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥१-१९९-४४॥
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः। हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥१-१९९-४५॥
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः। तडागानि च रम्याणि बृहन्ति च महान्ति च ॥१-१९९-४६॥
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत्। पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥१-१९९-४७॥
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते। पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ॥१-१९९-४८॥
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम्। शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥१-१९९-४९॥
तान्निवेश्य ततो वीरो रामेण सह केशवः। ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥१-१९९-५०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.