01.203
Pancharatra: Tillottama, the rare beauti without difect, created by grandfather Four heads and thousand eyes coming out indicates a hidden meaning to the story.
नारद उवाच॥
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः । जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥१-२०३-१॥
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः । पितामहस्य भवनं जगतः कृपया तदा ॥१-२०३-२॥
ततो ददृशुरासीनं सह देवैः पितामहम् । सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥१-२०३-३॥
तत्र देवो महादेवस्तत्राग्निर्वायुना सह । चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥१-२०३-४॥
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः । अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥१-२०३-५॥
ऋषयः सर्व एवैते पितामहमुपासते ॥१-२०३-५॥
ततोऽभिगम्य सहिताः सर्व एव महर्षयः । सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥१-२०३-६॥
यथाकृतं यथा चैव कृतं येन क्रमेण च । न्यवेदयंस्ततः सर्वमखिलेन पितामहे ॥१-२०३-७॥
ततो देवगणाः सर्वे ते चैव परमर्षयः । तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥१-२०३-८॥
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा । मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ॥१-२०३-९॥
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् । दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ॥ सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥१-२०३-१०॥
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च । निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥१-२०३-११॥
त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् । समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥१-२०३-१२॥
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् । तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥१-२०३-१३॥
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥१-२०३-१४॥
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा । न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥१-२०३-१५॥
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती । जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥१-२०३-१६॥
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता । तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥१-२०३-१७॥
पितामह उवाच॥
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे । प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥१-२०३-१८॥
त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै । विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥१-२०३-१९॥
नारद उवाच॥
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् । चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥१-२०३-२०॥
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः । देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥१-२०३-२१॥
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् । इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥१-२०३-२२॥
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा । अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥१-२०३-२३॥
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् । गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥१-२०३-२४॥
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः । रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥१-२०३-२५॥
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा । तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥१-२०३-२६॥
तथा देवनिकायानामृषीणां चैव सर्वशः । मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥१-२०३-२७॥
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् । सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥१-२०३-२८॥
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः । कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ॥१-२०३-२९॥
तिलोत्तमायां तु तदा गतायां लोकभावनः । सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥१-२०३-३०॥